________________
११ श्रीश्रेयांसजिनस्तुतयः अथ श्रीश्रेयांसजिनस्य परमं वैराग्यम्
कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः
कमलसदृशां गीतारावा बलादयि तापितम् । प्रणमततरां द्राक् श्रेयांसं न चाहत यन्मनः कमलसदृशाङ्गी तारा वाऽबला दयिताऽपि तम् ॥ १॥
-हरिणी (६, ४, ७) ज० वि०-कुसुमधनुषेति । मयीति कोमलामन्त्रणे । भो भव्याः ! यूयं तं श्रेयांसंश्रेयांसनामानमहन्तं द्राक्-सपदि प्रणमततराम्-अतिशयेन प्रणमतेति क्रियाकारकयोजनम् । अत्र 'प्रणमततराम् । इति क्रियापदम् । के कर्तारः १ 'यूयम् । । के कर्मतापन्नम् ? ' श्रेपासम् । कथम् ? 'द्राक्' । यत्तदोरभिसंबन्धात् तं कम् ? यस्मात्-श्रेयांसाद् अन्यम्-अपरं जनं कं अलसदृशा-स्तिमितलोचनानां स्त्रीणां नणां वागीतारावा-गीतध्वनयः बलात्-हठात् मोहवशं-रागपरवशं न व्यधुः-न चक्रुः?। अत्रापि 'व्यधुः । इति क्रियापदम् । कथम् ? 'न' । के कर्तारः ? 'गीतारावा: ।। कर्मतापमम् ? ' कम्'। कथंभूतं न व्यधुः ? 'मोहवशम् । कस्मात् ? 'बलात् ।। कथंभूतं सन्तम् ? ' तापितं' दीपितं सन्तम् । केन ? 'कुसुमधनुषा' कामेन । गीतारावाः कासाम् ? ' अलसदृशाम् ।। अनेन विशेषणेन गानकारकाणां समदचेष्टावत्त्वमाचष्टे । अत्र कमिति प्रश्ने। ततोऽयमर्थः। अलसदृशी गीतारावाः श्रेयांसतः कं अन्यं जनं स्मरोफ्तप्तं सन्तं बलात् मोहवशं न व्यधुः ? । अपि तु सर्वमपि व्यधुरेवेति । अबला वा सुन्दरी वा । 'वा शब्द' समुच्चयार्थः। 'यन्मनो' यस्य मानसं न चाहत' नाक्षिप्तवती । न क्षोभयामासेति भावः। अत्रापि 'आहत' इति क्रियापदम् । कथं ? 'न'। का की ? ' अबला' । किं कर्मतापन्नम् ? 'यन्मनः।। अबला कथंभूता ! 'कमलसदृशाङ्गी' वारिजसमगात्री सौकुपार्येण । पुनः कथं० 'तारा' कान्तिमती । ' च ' शब्दः पुनरर्थे । पुनः कथं ? ' दयिताऽपि ' प्रेयस्यपि ॥
अथ सभासः-कुसुमान्येव धनुर्यस्य स कुसुमधनुः 'बहुव्रीहिः'। तेन कुसुम० । मोहस्य वशो मोहवशः 'तत्पुरुषः । तं मोहवशम् .। अलसा दृशो यासा ता अलसदृशः 'बहुव्रीहिः' । तासां अलसदृशाम् । नृपक्षे तु पुंस्त्वपुरस्कारेण समासो विधेयः । गीतस्यारावागीतारावाः 'तत्पुरुषः' । यस्य मनो यन्मनः 'तत्पुरुषः' । तत् यन्मनः । कमलस्य सदृशं कमल. 'तत्पुरुषा'कमलसदृशं अङ्गं यस्याः (सा)कमल. 'बहुव्रीहिः।। इति काव्यार्थः॥१॥
१'प्रणमततमा' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,