________________
११४
स्तुतिचतुर्विशतिका
[१० श्रीशीतल
'घनरुचिः ' सान्द्रकान्तिः, मेघश्यामा वा। पुनः किंवि० मानवी ? । गुरुतरा-महान्तोऽविता-न केनापि पराजितास्तादृशा ये अमरा-देवाः तैः सङ्गता-परिवृता- मिलिता 'गुरुतराविहतामरसता'। पुनः किंवि० मानवी ? । 'कृतकरा' स्थापितहस्ता । कस्मिन् ! । 'अस्त्रवरे' शस्त्रप्रधाने । पुनः किंवि० मानवी?। 'गता' प्राप्ता। किं कर्मतापन्नन् ? 'तामरसं' कमलम् । क्व?। 'इह'। कस्मिन् ?। फलैः पत्रैः भातीति फलपत्रमः तादृशोऽगुरुतरु:-अगुरुवृक्षः, तथा फलानि पत्राणि च भजतीति फलपत्रभाक् तादृशः उरुतरुः-विशालवृक्षः वा । तस्मिन् 'फलपत्रमागुरुतरौ'। 'गुरुतरा' महती। पुनः किंविशिष्टा मानवी ? । 'अविहता' अपराजिता । पुनः किंवि० मानवी ? । 'अमरसङ्गमा' (ता) देवमिलिता। त्रीण्यपि विशेषणानि प्रथमान्तानि देव्या एव । इति पदार्थः॥ ___अथ समासः-घनवद् रुचिःघनरुचिः वा घना सान्द्रारुचिः यस्याःसा घनरुचिः।अतिशयेन गुरवः इति गुरुतराः, न विहता अविहताः, गुरुतराश्च ते अविहताश्च गुरुतराविहताः, गुरुतराविहताश्च ते अमराश्च गुरुतराविहतामराः, गुरुतराविहतामरैः संगता गुरुतराविहतामरसंगता। कृतः-स्थापितः करो यया सा कृतकरा। अस्त्राणां मध्ये वरं-प्रधानं वज्रं-अस्त्रवरं, तस्मिन् अस्त्रवरे । फलानि च पत्राणि च फलपत्राणि, फलपत्राणि भजतीति फलपत्रभाक् । उरुश्चासौ तरुश्च उरुतरुः। फलपत्रभाक् चासौ उरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रमागुरुतरौ; यद्वा फलपत्रैर्भातीति फलपत्रमः, तादृक् चासौ अगुरुतरुश्च फलपत्रभागुरुतरुः, तस्मिन् फलपत्रभागुरुतरौ। यद्वा कृतकराम्रवरे !' कृतं-धृतं करे अस्रवरं यया सा कृतकरास्त्रवरा, तस्याः सं० हे कृतकरास्त्रवरे! यद्वा अस्त्रवरे इति तरुविशेषणं तस्याः शक्तिरूपत्वात् । वृक्षानपि अस्त्ररूपान् करोतीप्ति भावः । अतिशयेन गुर्वी गुरुतरा इति देव्या विशेषणे समासः॥ इति तुरीयवृत्तार्थः॥४॥
श्रीशीतलजिनेन्द्रस्य, स्तुतेरों निरूपितः। सौभाग्यसागराख्येन, सूरिणा सौख्यकारिणा ॥
॥ इति शीतलजिनस्तुतिः॥४॥१०॥४०॥ दे०व्या०-घनरुचिरिति । इह भुवि-पृथिव्यां मानवी देवी जयतात्-सर्वोत्कर्षेण वर्ततामिति सम्बन्धः। 'जि जये' धातुः। 'जयतात् । इति क्रियापदम् । का की। मानवी। किंविशिष्टा मानवी ?। 'घनरुचिः। घना-सान्द्रा रुचिः-कान्तिः यस्याः सा तथा। पुनः किविशिष्टा?'गुरुतराविहतामरसङ्ग्मता' अतिशयेर पुरवो गुरुतराः ते च ते अविहता-अपरिक्षता ये देवास्तैः सकता-सहिता । पुनः किं विशिधा ।। गता-उपविष्टा । किम् ? । तामरसं-कमलम् । कुत्र ? । 'फलपत्रभागुरुतरी ' फलं च पत्रे च पाते इति फाडपत्रभाक् स घासी उरुः-विशालो यः तरुः-वृक्षः तस्मिन् । सामीप्ये सप्तमीयम् । पुनः किविशिटा । कृतकरा-विक्षिप्तहस्ता । कृतः करो ययेति विग्रहः। कस्मिन् ? । 'अनवरे । अस्रेषु वरं असवरं बस्मिन् । प्रधानशस्त्रे इत्यर्थः । अन्ये तु किंविशिष्टा देवी ? कृतकरा । कस्मिन् ? फलपत्रभागुरुतरौ । किंविशिष्टे तरी!। अनवरे । इति व्यास्यानमाहुः ॥ इति चतुर्थवृत्तार्थः । द्रुतविलम्बितच्छन्दः ॥ “द्रुतविलम्बितमाह नमी भरी" इति तल्लक्षणम् ॥ ४॥
१ भतः परः पाठः प्रमादिकः प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org