________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका अतिशयेन गुरवो-महान्तः अविहता:-केनाप्यपरिक्षता ये अमरा-देवास्तैः सङ्गता-सहिता । पुनः कयंभूता ? 'कुतकरा' स्थापितपाणिः । कस्मिन् ? ' फलपत्रमागुरुतरौ । फलानि च पत्राणि च भजत इति फलपत्रभाक् उरु:-विशाल एतादृशो यस्तरुः-वृक्षः तस्मिन् फलपत्रभागुरुतरौ। कथंश्ते १ ' अनवरे' प्रवरायुधे । मानस्या देव्या वृक्षरूपमायुधमस्तीति । पुनः कथंभूता मानवी ? 'गता' प्राप्ता, समासीनेत्यर्थः । किं कमर्तापनम् ? ' तामरसं ' कमलम् ॥
अथ समासः-घनवद् रुचिर्यस्याः सा घनरुचिः बहुव्रीदिए। अतिशयेन गुरवो गुरुतरा। न विहता अविहताः। उभयत्रापि तत्पुरुषः । गुरुतराश्च ते अविहताश्व गुरु० 'कर्मधारयः। गुरुतराविहताश्च तेऽमराश्च गुरुतरा० 'कर्मधारयः' । गुरुतराविहतामरैः सङ्गता या सा गुरुतरा 'बहुव्रीहिः । कृतौ करौ यया सा कृतकरा 'बहुव्रीहिः ।। अस्त्रेषु वरोऽस्त्रवरः 'तत्पुरुषः ।। तस्मिन् अस्त्रवरे । फलानि च पत्राणि च फलपत्राणि 'इतरेतरद्वन्द्वः' । फलपत्राणि भजतीति फलपत्रभाक् 'तत्पुरुषः' । उरुश्वासौ तरुश्च उरुतरुः कर्मधारयः।। फलपत्रभाक् चासावुरुतरुश्च फलपत्र० 'कर्मधारयः' । तस्मिन् फलपत्र० । इति काव्यार्थः ॥ ४ ॥
॥ इति शोभनस्तुतिवृत्तौ श्रीशीतलतीर्थकृतः स्तुतेाख्या ॥१०॥ सि० वृ०-धनरुचिरिति । मानवी-मानवीनाम्नी देवी इह-जगति भुवि-पृथिव्यां जयतात्-सर्वोत्कर्षण वर्ततामित्यर्थः । जि जये.' धातोः 'आशी:प्रेरणयोः' (सा० स० ७.३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तु । ' अप्० ' (सा० सू०६९१), 'गुणः ' (सा० सं० १९२), 'ए अय् । (सा० सू० ४१) तुपस्तातङादेशः । ' स्वरहीनं०' ( सा० सू० ३६ )। तथाच 'जयतात्' इति सिद्धम् । अत्र ' जयतात् । इति क्रियापदम् । का की ! । मानवी । कस्याम् ? । भुवि । कथंभूता मानवी । घनरुचिः' घनो-मेघः तद्वदू रुचि:-कान्तिः यस्याः सा सथा, श्यामेत्यर्थः । पुनः कथंभूता ! । ' गुरुतराविहतामरसङ्गता' भविशयेन गुरखो गुरुतराः-महान्तः ते च ते अविहताः-केनाप्यपरिक्षता ये देवाः तैः सङ्गता-सहिता । गुरुतराश्च ते अविहताश्चेति · कर्मधारयः' । पुनः कथंभूता ! । ' कृतकरा ' कृतः-स्थापितः करो-हस्तो यया सा तथा । कस्मिन् ! । 'फलपत्रमागुरुतरौ' फलानि पत्राणि भजते इति फलेपत्रमाकू स चासौ उरुः-विशालो यः तरु:वृक्षस्तस्मिन् फलपत्रमागुरुतरौ । कथंभूते १ । अस्त्रवरे-प्रवरायुधे । एतेन मानव्या देव्या वृक्षरूपमायुधमस्तीति सूचितम् । पुनः कयंभूता मानवी ? । गता-प्राप्ता समातीनेत्यर्थः। किम् ? । तामरसं-कमलम् । द्रुतविलम्बितच्छन्दः । “द्रुतविलम्बितमाह नमो मरौ" इति च तल्लक्षणम् ॥
महामहोपाध्यायश्रीभानुचन्द्र० श्रीशीतलतीर्थकृतः स्तुतिवृत्तिः ॥१०॥
सौ० वृ०-धनसचिरिति । मानवीनाम्नी देवी जयतात् इत्यन्वयः। 'जयतात्' इति क्रियापदम् । का की ? । 'मानवी' । 'जयतात् । जयं प्राप्नुतात् । कस्याम् । 'भुवि किंविशिष्टा मानवी।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org