________________
११२
स्ततिचतुर्विंशतिका
[१० श्रीशीतल.
सौ००-जयतीति । मतं-प्रवचनं जयति इत्यन्वयः । 'जयति' इति क्रियापदम् । किं कर्तृ ?। 'मतम्'। 'अयति 'सर्वातिशयेन वर्तते इत्यर्थः । किंविशिष्टं मतम् । 'प्रथितं ' उक्तम् । केन। 'जिनेन। केषाम् ? । 'मनीषिणाम्' प्राज्ञानां गणधराणाम् । पुनः किंवि० मतम् ? । कल्पिता-समर्थिता सर्वाभीष्टदानेन कल्पतरूणां-सुरतरूणां उपमा-उपमानं येन तत् ‘कल्पितकल्पतरूपमम् ' । किं विशिष्टेन जिनेन । असारतरा-अतिशयेन निःसारः तादृशो य आगमः-मिथ्यादृप्रणीतकुशास्त्ररूपात प्रति वृणाति-विधारयति यः स सेन 'असारतरागमदारिणा' । पुनः किंवि० जिनेन ? । 'अतमसा ' अज्ञामपापरहितेन । पुन: किंवि० जिनेन? । रतं-सुरतं तस्य राग:-स्नेहः मदः-अहंकारः जात्यादिर्वा तयोः अरि:-शत्रुरिव शत्रुः रतरागमदारिः तेन रतरागमदारिणा । कुत्र! । 'अत्र' विश्वेऽस्मिन् । जिनेन कथित मतं जयति। इति पदार्थः॥
अथ समास:-कल्पतरूणां उपमा कल्पतरूपमा, कल्पिता कल्पतरूपमा यस्य तत् कल्पितकल्पतरूपमम् । अतिशयेन असारः असारतरः असारतरवासी आगमश्च असारतरागमः, असारतर तीति असारतरागमदारी, तेन असारतरागमदारिणा । मनीषा-बुद्धिः विद्यते येषां ते मनीषिणः, तेषां मनीषिणाम् । न विद्यते तमो यस्यासी अतमाः, तेन अतमसा । रतं च रागश्च मदश्च रतरागमदाः, रतरागमदाना अरिः रतरागमदारिः, तेन रतरागमदारिणा ॥ इति तृतीयवृत्तार्थः॥३॥
देव्या०-जयतीति । इह-अस्मिन् लोके मतं-प्रवचनं जयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः। जि नये' धातु'जयति' इति क्रियापदम् । किं कर्त? मतम् । किविशिष्टं मतम् । 'कल्पितकल्पतरूपमम्' कल्पिता-घटिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत्, सकलमनोरथ पूरकत्वात् । पुनः किंविशिष्टम् । प्रथितं-विस्तार प्रापितम् । कैन ?। जिनेन-तीर्थकरेण । जातावेकवचनम् । केषाम् । मनीषिणां-पण्डितानाम् । किविशिष्टेन जिनेन ? । 'असारतरागमदारिणा' असारतरान-अतिशयेन अप्रशस्यान् मिथ्यात्वरूपानितियावत् आगमान-सिद्धान्तान् दृणाति-विदारयतीत्येवंशीलस्तथा तेन। पुनःकिंविशिष्टना अतमसा-अज्ञानरहितेन । नास्ति तमः-अज्ञानं यस्येति विग्रहः । पुनः किंविशिष्टेन ? । 'रतरागमदारिणा' रतं-मैथुनं रामोद्रव्यादावभिलाषः मदो-जात्यायुत्थोऽभिनिवेशः तेषां अरिणा-शत्रुणा, सर्वात्मना तदुच्छेदकारित्वात् ॥ इति तृतीयवृत्तार्थः॥३॥
मानवीदेव्याः स्तुतिः
धनरुचिर्जयताद् भुवि मानवी
गुरुतराविहतामरसँगता। कृतकराऽस्त्रवरे फलपत्रभा
गुरुतराविह तामरसं गता ॥ ४ ॥१०॥
ज०वि०-धनरुचिरिति । मानवी-मानवीनाम्नी देवी भुवि-पृथिव्यां इह-जगति अपवार-जयत्विति क्रियाकारकसंबन्धः। अत्र 'जयतात् । इति क्रियापदम् । का कर्जी ? 'मानवी कस्वा सुवि' विव्याम् । कथंभूता मानवी ? 'घनरूचिः, घनवत-मेघवत् (लक)छाया वस्थाः सा तथा, श्यामेस्वः । पुनः कर्यभूता ? ' गुरुतराविहतामरसङ्गन्ता ' गुरुक्सा
१.तराहि. 'इत्यपि पाठः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org