________________
जिनस्तयः
स्तुतिचतुर्विशतिका ज० वि०-जयतीति । जिनेन-सर्वज्ञेन प्रथितं-प्रख्यापितं मतं-श्रुतं अत्र-अस्मिन् जगति जयंति-जयमनुभवतीति क्रियाकारकप्रयोगः । अत्र 'जयति । इति क्रियापदम् । किं कर्तृ ? 'मतम् । कथंभूतम् ? ' प्रथितम् ।। केन ? 'जिनेन । कुत्र ? 'अत्र' । जिनेन कयंभूतेन ? ' असारतरागमदारिणा' असारतरः-कुत्सिततरो य आगम:-सिद्धान्तः शाक्यादिप्रवचनमित्यर्थः, तं दारयति अर्थात् हेतुयुक्त्यादिभिर्निराकरोतीत्येवंशीलः असारतरागमदारी तेन । पुनः कथं. भूतेन ? ' अतमसा' तमसा-मोहेन अज्ञानेन वा रहितेन । पुनः कथंभूतेन ? ' रतरागमदारिणा' रतं-संभोगस्तत्र राग:-अभिलाषः मदः-जात्यादिकः तयोररिणा-वैरिणा तन्निवारणात् । केषाम् ? 'मनीषिणाम् । मतिमताम् । मतं पुनः कथंभूतम् ? 'कल्पितकल्पतरूपमम् । कल्पिता-समर्थिता कल्पतरुणा-कल्पवृक्षण उपमा-साम्यं यस्य तत् तथा । यदिवा कल्पितेषु-मनःसङ्कल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् तथा ॥
अथ समासः-कल्पश्चासौ तरुश्च कल्पतरुः 'कर्मधारयः' । कल्पतरुणा उपमा कल्पतरूपमा 'तत्पुरुषः । । कल्पिता कल्पतरूपमा यस्य तत् कल्पित. 'बहुव्रीहिः'। यदिवा कल्पतरोरुपमा यस्य तत् कल्प० 'बहुव्रीहिः' । कल्पितेषु कल्पतरूपमं कल्पित 'तत्पुरुषः । न सारः असारः 'तत्पुरुषः । अतिशयेनासारोऽसारतरः । असारतरश्चासावागमश्च असार० 'कर्मधारयः। असारतरागमं दारयतीत्येवंशीलः असारतरा० 'तत्पुरुषः । तेन असारतरा० । न विद्यते तमो यस्य सोऽतमाः 'बहुव्रीहिः । तेन अतमसा । रते रागो रतरागः 'तत्पुरुषः ।। रतरागश्च मदश्च रतरागमदो 'इतरेतरद्वन्द्वः । रतरागमदयोररिः रतरागमदारिः ' तत्पुरुषः । तेन रतराग० । इति काव्यार्थः ॥३॥
सि. वृ०-जयतीति । जिनेन-सर्वज्ञेन प्रथितं-प्रख्यापितं मतं-श्रुतं अत्र-अस्मिन् जगति जयति-सर्वोत्कर्षेण वर्तत इत्यर्थः । जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र ' जयति ' इति क्रियापदम्। किं कर्तृ । मतम् । कथंभूतम् ? । प्रथितम् । केन । जिनेन ।कुत्र!। अत्र । कथंभूतेन जिनेन ? । ' असारतरागमदारिणा ' अतिशयेन असारः असारतरः-अतिकुत्सितो य आगमः चार्वाकशाक्यादिप्रवचनमित्यर्थः, तं दारयति अर्थात् हेतुयुक्त्यादिमिः निराकरोतीत्येवंशीलः असारतरागमदारी, तेन असारतरागमदारिणा । असारतरश्वासौ आगमश्चेति ' कर्मधारयः' । पुनः कथंभूतेन ? । ' अतमसा' नास्ति तमः-पापं अज्ञानं वा स अतमाः तेन । पुनः कथंभूतेन ? । रतरागमदारिणा । रतं-मैथुनं रागो-द्रव्यादावमिलापः, यद्वा रते रागो रतरागः, मदो जात्याद्युत्थोऽभिनिवेशः, रतं च रागश्च मदश्च रतरागमदाः ' इतरेतरद्वन्द्वः" तेषां तयोर्वा भरिणा-वैरिणा, सर्वात्मना तदुच्छेदकत्वादितिभावः । केषाम् ? । ' मनीषिणां' मनीष:प्रज्ञा विद्यते येषां ते मनीषिणः, तेषां मनीषिणाम् । मतं पुनः कथंभूतम् ? । ' कल्पितकल्पतरूपम' कल्पितासमर्थिता कल्पतरुणा-कल्पवृक्षण उपमा--साम्यं यस्य तत् कल्पितकल्पतरूपमम् । यदिवा कल्पितेषु-मनःसंकल्पितेषु वस्तुषु कल्पतरोरुपमा यस्य तत् तथेत्यर्थः ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org