________________
११०
स्तुतिचतुर्विशतिका
[१० श्रीशीतल
सौ०व० - स्मर जिनानिति । हे जन !-हे लोक ! अतःकारणात् त्वं जिनान-तीर्थकरान् स्मर इत्यन्वयः ‘स्मर' इति क्रियापदम् । कः कर्ता ? । 'त्वम् । स्मर' ध्यायस्व । कान् कर्मतापनान् ! । 'जिनान् । कथंभूतान जिनान् । परिनुन्नाः-गता:-क्षीणा जरा-विनसा वयोहानिरूपा रजः-कर्मरजः जननं-जन्म तानव-शरीरकाय तोदः-खेदः यमो-मरणं, गता येषां ते परिनुनजरारजोजननतानवतोदयमाः, तान 'परिनुखजरारजोजननतानवतोदयमान् । । कस्मात् ? । अतः कारणात् स्मर । अतः कथम् ? । 'यतः । यस्मात् कारणात्।जिनान किं कुर्वतः ? ।' अवतः ' रक्षतः । कान कर्मतापमान ? । 'प्रणतान ' जनान् । पुनः कथंभूतान जिनान ? । परम-प्रकृष्टं निर्वृतिः-सिद्धिः-मुक्तिः तस्याः शर्म-सुखं तत् कुर्वन्तीति परमनिवृतिशर्मकृतः, तान् परमनिर्वृतिशर्मकृतः । कथम् ? । 'अदयं' निर्व्याबाधं स्वशरीरानपेक्षं यथा स्यात् तथा । कथंभूतः त्वम् ? ।' आनतः' मर्यादया प्रणतः । इति पदार्थः॥
अथ समासः-जयन्ति रागादिकान शत्रून् इति जिनाः, तान जिनान् । जरा च रजश्च जननं च, तमोर्भावः तानवम् , तानवं च तोश्च यमश्च जरारजोजननतानवतोदयमाः, परिनुन्ना जरारजोजननतानवतोदयमा यैःते येषां ते (वा)परिनुमजरारजोजननतानवतोदयमाः, तान् परिनुनजरारजोजननतानवतो दयमान् । निर्वत्याः शर्म निर्वृतिशर्म, परमं च तत् निर्वृतिशर्म च परमनिर्वृतिशर्म, परमनिर्वृतशर्म कुर्वन्ति ते परमनिर्वृतिशर्मकृतः, तान् परमनिर्वृतिशर्म कृतः । नास्ति दया स्वदेहरक्षणरूपा यस्मिन् तत् अदयम् । अदयं यथा स्यात् तथा, क्रियाविशेषणमिदम् । आङ्-मर्यादया नतः-आनतः । यद्वा परिनुम्नः-परिक्षीणः जरा इव जीर्णमिव रजोबध्यमानं कर्म यैः ते, तथा जननं-जन्म तेन तानवाः-शारीरदुःखेन तोदेन-खेदेन कृशीभूताः तेषां दुःखहरणेन यमा इव यमाः, पश्चस्वपि कल्याणेषु लोकोद्योतसुखकरत्वात् परिनुमजरारजसश्च जमनतानवतोदयमाच परिनुनजरारजोजननतानवतोदयमाः, तान् परिनुनजरारजोजननतानवतोदयमान् । इत्यपि व्याख्ययम् ॥ इति द्वितीयवृत्तार्थः ॥२॥
दे० व्या०-स्मर जिनानिति । हे जन ! अतः कारणात् जिनान-तीर्थङ्करान् त्वं स्मर-स्मृतिगोचरीकुरु इत्यन्वयः। 'स्मृचिन्तायाम् ' इति धातुः। 'स्मर' इति क्रियापदम् । कः कर्ता ! । त्वम् । कान् कर्मतापनान् ? | जिनान् । कुतः ? । यतो-यस्मात् कारणात् । 'परमनिर्वृतिशर्मकृतः' मुक्तिसुखकर्तारो वर्तन्त इत्यध्याहारः । नहि जिनस्मरणमन्तरेण जन्तोस्तात्त्विकी सिद्धिरिति भावः । किंविशिष्टः त्वम् ? । आनतःप्रणतः । कथम् । 'अदयम्' शरीरनिरपेक्षं यथा स्यात् तथा । किंविशिष्टान् जिनान् ? । 'परिनुन्नजरारुजोजननतानवतोदयमान' जरा-विससा रुजो-रोगा: "रोगो रुजा रुगातहो" इत्यभिधानचिन्तामणिः (का० ३, श्लो० १२६ ), जननं-जनिः तानवं-काश्य- तोदः पीडा यमो-मृत्युः, एतेषां पूर्व 'द्वन्द्वः' । ततः परिनुन्ना:परिक्षिप्ता जरारुजोजननतानवतोदयमा यैस्ते तथा इति विग्रहः । किं कुर्वतो जिनान् ?। अवतः-रक्षतः। कान् । नतान-प्रणतान् । जनानिति शेषः॥ इति द्वितीयवृत्तार्थः॥२॥
सिद्धान्त-स्वरूपम्
जयति कल्पितकल्पतरूपमं
मतमसारतरागमदारिणा । प्रथितमत्र जिनेन मनीषिणामतमसा रतरागमदारिणा ॥३॥
- द्रुत०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org