________________
जिनस्तुतयः ]
स्तुतिचतुर्विंशतिका
१०९
,
बहुव्रीहि:' । अथवा जरैव रजो जरारज: ' कर्मधारयः ' । परिनुन्नं जरारजो यैस्ते परि० 'बहुव्रीहि:' । तनोरयं तानवः, तानवश्वासौ तोदश्च तानवतोदः ' कर्मधारयः । जनने तानवतोदः जनन० ' तत्पुरुषः ' । जननतानवतोदे ययाः जनन० ' तत्पुरुषः । परिनुन्नजरारजसश्च ते जननतानवतोदयमा परिनुन्नजरा ० ' कर्मधारयः । तान् परि० । निर्वृतेः शर्म निरृतिशर्म 'तत्पुरुषः । परमं च तन्निर्टतिशर्म च परम० 'कर्मधारयः , | परमनितिश कुर्वन्तीत परमनि० ' तत्पुरुष:' । यद्वा पक्षे तु निरृतिशर्म कुर्वन्तीति निर्वृतिशर्मकृतः ' तत्पुरुषः न निर्वृतिधर्मकृतः अनिर्वृति० ' तत्पुरुषः । न विद्यते दया यत्र तददयम् ' बहुवीहिः ' । इति काव्यार्थः ॥ २ ॥
6
सि० कृ० - स्मर जिनानिति । हे जन ! अतः कारणात् त्वं जिनान् --तीर्थपतीन् स्मर-स्मरणविषयीकुर्वित्यर्थः । ' स्मृ चिन्तायां ' धातो: “ आशीः प्रेरणयोः ' ( सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः । ' अप्० ' ( सा० सू० ६९१), ' गुणः ' ( सा० सू० ६९२ ) इत्यनेन गुण:, ' अत: ' (सा० सू० ७०१ ) इति हेर्लुक्, ( ' स्वरहीनं ' सा० सू० ३६ ) । तथाच ' स्मर ' इति सिद्धम् । अत्र ‘स्मर' इति क्रियापदम् । कः कर्ता ? । त्वम् । कान् कर्मतापन्नान् ! | जिनान् । कस्मात् ? । अतः । अत इति कुतः ? । यतः -यस्मात् कारणात्। 'परमनिर्वृतिशर्मकृतः । परमं प्रकृष्टं 'निवृतिशर्म' निर्वृतेः-मोक्षस्य शर्म-सुखं कुर्वन्तीति निर्वृतिशर्मकृतः । नहि जिनस्मरणमन्तरेण जन्तोः तात्त्विकी सिद्धिरिति भावः । "शिवं निःश्रेयसं श्रेयो, निर्वाणं ब्रह्म निर्वृतिः" इति हैमः (का० १, श्लो ०७४ ) । कथंभूतान् जिनान् ? | 'परिनुन्न जरार जोजननतानवतोदयमान्' जरा-दिवसा रज:कर्मलक्षणम्, ' रुनो' इति पाठे रुक् - रोगः जननं - जन्म तानवं तनोर्भावस्तानवं इति योगात् तनुत्वं दुर्बलत्वामतियावत्, तोदः ' तुद् व्यथने ' इत्यस्य धातोः तुदनं-तोदो- - व्यथा यमः - कृतान्तः मृत्युरितियावत्, एते जरादयः परिनुन्ना:- परिक्षिप्ता यैस्ते तथा तान् । जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जराजोजन नतानवतोदयमा : ' इतरेतरद्वन्द्वः ' । ततः परिनुन्नपदेन ' बहुव्रीहि: ' ।
" यमो दण्डधरे ध्वांक्षे, संयमे यमजेऽपि च । शरीरसाधनापेक्ष- नित्यकर्मणि बोध्यते ॥ "
इति विश्वः । केचित् तु रोगवाची रुनस् शब्दोऽप्यस्ति, तेन रजःस्याने रुज इति पठन्ति । यदाह - “रोगे रुजो (रोगो रुजा ?) रुगातङ्को, मान्द्यं व्याधिरपाटवम्" इति हैमः (का० ३, श्लो०१२६) । केचित् तु परिनुन्नं जरैव पाण्डुरत्वात् रजो-रेणुः यैस्ते परिनुन्ननरारजसः तथा जनने- जननविषये यः तनोरयं तानवः - शारीरस्तोदोबाधा तत्र यमा इव यमाः—कृतान्ता इव तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाश्च इति व्याख्यान्ति। जिनान् किं कुर्वतः ! | अवतो - रक्षतस्त्रायमाणानित्यर्थः । त्वं कथंभूतः सन् स्मरेत्याहआनतः-प्रणतः सन् । कथम् ? ।' अदयं ' न विद्यते दया यत्र तत् तथा । प्रणतिविषये स्वशरीरस्यापि रक्षां न कृतवानित्यर्थः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org