________________
१०८
स्तुतिचतुर्विशतिका
[१० श्रीशीतल
तत् । अमराणां संसद अमरसंसत् इति पूर्वे 'षष्ठीतत्पुरुषः । पुनः किंविशिष्टम् ? । 'अलग्नम्' नास्ति लखलंअधःकरणं यस्य तत् , सर्वेषामपि वन्यत्वात् । चलनतामरसं किं कुर्वत् ? । संस्पृशत्-संघदृयत् । किम् ? । नवकम् । केषाम् ? । अम्बुरुहां-कमलानाम् । कस्मिन् ? । पथि-मार्गे। कथंभूतं नवकम् ?। 'सदलं ' दलै :पणैः सह वर्तमानम् । “बई पर्ण छदं दलम्" इत्यभिधानचिन्तामणिः (का०४, श्लो० १८९)। पुनः किंविशिष्टम् ? । धनं-निबिडम् ॥ इति प्रथमवृत्तार्थः॥१॥
जिनानां स्मरणम् --
स्मर जिनान् परिनुन्नजरारेजो---
जननतानवतोदयमानतः। परमनिर्वृतिशर्मकृतो यतो
जने! नतानवतोऽदयमानतः ॥२॥
ज० वि०-स्मर जिनानिति । हे जन ! अत इत्यस्मात् कारणात् त्वं जिनान्-वीतरागान स्मर-स्मरणगोचरीकुर्विति क्रियाकारकसंबन्धः । अत्र 'स्मर' इति क्रियापदम् । कः कर्ता ? 'त्वम् । कान् कमतापन्नान् ? 'जिनान् । कस्मात् ? 'अतः' । अत इति कुतः १ यतः' यस्मात् कारणात् । ' परमनिर्वृतिशर्मकृतः। परमं-उत्कृष्टं नितिशर्म-मोक्षसुखं कुर्वन्तीति परमनितिशर्मकृतः। यद्वा परं स्वात्मनो व्यतिरिक्तं अनितिशर्मकृतः भवन्तीत्यध्याहार्यम् । जिना इति विशिष्यपदं च प्रक्रान्तत्व ज्ज्ञेयम् । ततो भवन्तीति क्रियापदम् । के कर्तारः ? 'जिनाः ।। कथंभूताः ? 'परमनिवृतिशर्मकृतः'। जिनान् यथंभूतान् ? 'परिनुन्नजरारजोजननतानवतोदयमान् । जरा-विस्रसा रजा-कर्मलक्षणं जननं-जन्म 'तानवं तनोर्भावस्तानवमिति व्युत्पत्त्या तनुत्वं दुर्बलत्वमित्यर्थः, तोदः 'तुद व्यथने' इत्यस्य धातोस्तुदनं तोदो-व्यथा बाधेतियावत, यमा-कृतान्तो मृत्युरितियावत् , एते जरादयः परिनुन्नाः-पर्यस्ता यैस्ते तथा तान् । अथवा परिनुनं जरैव पाण्डुरत्वात् रजो-रेणुयस्ते तथा, जनने यस्तानवः-शारीरस्तोदो-बाधा तत्र यमा इव-कृतान्ता इव यमाः तस्यान्तहेतुत्वात्, ततः परिनुन्नजरारजसश्च ते जननतानवतोदयमाध तान् । जिनान् किं कुवतः ? ' अवतः' रक्षतः त्रायमाणानितियावत् । कान् ? 'नतान्' मणतानगिनः । त्वं कथंभूतः सन् स्मरेत्याह-'आनतः' प्रणतः सन् । कथम् ? ' अदयं । निर्दयं स्वशरीरावयवरक्षानिरपेक्षं निर्व्याजमितियावत् तत् यथा स्यात् तथा ॥
अथ समासः-जरा च रजश्च जननं च तानवं च तोदश्च यमश्च जरारजोजननतानवतोदयमाः । इतरेतरद्वन्द्वः। । परिनुन्ना जरारजो० यैस्ते परिनुनजगरजोजननतानवतोदयमाः
१ 'जो ' इत्यपि पाठः । २ 'जनन० ' इति पाठान्तरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org