________________
जिनस्तुतयः]
सतिचतुर्विशतिका
१०७
प्रथमपुरुषैकवचनं तिप् । 'अप्०' ( सा० सू० १९१), 'गुणः' (सा. सू० १९२), 'स्वरहीन' (सा. सू. ३१)। तथाच 'जयति' इति सिद्धम् । अत्र 'जयति' इति क्रियापदम् । किं कर्तृ ! । चलनतामरसम् । चलनमेव तामरसं चलनतामरसामति कर्मधारयः । कम्य ! । शीतलतीर्थकृतः । कथम् ! । सदा । किं कुर्वत चलनतामरसम् ! । ' संस्पृशत् ' स्पृशतीति स्पृशत् स्पर्शनानुगृह्णत् । किं कर्मतापनम् ! । नवकं नवैव नवकम् । स्वार्थे कः । नवकं केषाम् ? । अम्बुरुहां-वारिजानां अम्बुनि-जले रुहन्ति--जायन्ते इति अग्बु रुंह तेषां अम्बुरुहाम् । योगपुरस्कारेण अम्बुरुहशब्दस्य कमले एव रूढत्वात् । कस्मिन् ? । पथि-मार्गे । कथंभूतं अम्बुरुहां नवकम् ? । 'सदलं । दलानि-पत्राणि तैः सह वर्तमान सदलम् । “ पत्रं पलाशं छदनं दलं पर्ण छदः पुमान् " इत्यमरः ( श्लो. ६७६ )। पुनः कथंभूतम् ! । धन-सान्द्रम् । “ धनं स्यात् कांस्यतालादि, वायमध्यमनृत्तयोः", " धनं सान्द्रे दृढे दाढचे, विस्तारे लोहमुद्गरे । मेषमुस्तकयोश्चापि" इति विश्वा । अत्र तु सान्द्रवाचकं घनमव्ययमेव प्रतिभाति । कथंभूतं चलनतामरसम् ! । 'चलनतामरसंसत्' घला-चपला सती नता-प्रणता अमरसंसत्-अमराणां समा यस्य तत् तथा । चलत्वं च नमतां भूरिभक्तिवशेन रामस्याद् सम्भ्रमाद् वा घटते । पुनः कथंभूतम् ! । ' अलङ्घनं ' न विद्यते लान-कुतश्विदधःकरणं यस्य तत् तथा । केनापि श्रिया अनिर्जितमित्यर्थः ॥ १ ॥ __ सौ० वृ०-यः सुविधिर्भवति स प्रकृत्या शीतल एव भवति । अनेन संवन्धेनायातस्य वशमस्य श्रीशीतलजिन(स्य) स्तुतेरर्थो व्याख्यायते । जयतीति।
शीतलतीर्थकृतः-शीतलनाम्नस्तीर्थकरस्य चलनतामरसं-चरणकमलं सवा-सर्वदा जयतीत्यन्वयः। 'जयति' इति क्रियापदम् । किं कर्तृ ? । 'चलनतामरसम्' । कथंभूतं चलनतामरसम्!। 'सवलं' सच्छायम् । चलनतामरसं किं कुर्वत् ? । 'संस्पृशत् ' सम-सम्यक् प्रकारेण स्पर्शयत् । किं कर्मतापमम् । 'नवकम् ' । केषाम ? । 'अम्बुरुहाम्' सुरनिर्मितपद्मानाम् । कस्मिन् ? । 'पथि 'मार्गे । पुनः किंविशिष्टं चलनतामरसम् ? | चला-चपला नता-प्रणता अमराणां-देवानां संसत्-सभा यस्य तत् 'चलनतामर संसत्' । पुनः किंविशिष्टं चलनतामरसम् ? । 'अलनं' अनुल्लहनीयस्वरूपम् । पुनः किं० घलनतामरसम् ? । 'सत्' शोभनं विद्यमानं वा । अलं-अत्यथम् । पुनः किं. चलनतामरसम् ? । 'घन' सान्द्र निबिडं रेखाकारलक्षणादिभिः । इति पदार्थः ॥
अथ समासः-तीर्थ-चातुर्वर्ण्यसंघं प्रवचनं गणधरं वा करोतीति तीर्थकृत, शीतलचासौ तीर्थकृच्च शीतलतीर्थकृत् , तस्य शीतलतीर्थकृतः। चलनावेव तामरसं चलनतामरसम् । दलेन सहितं सत्लम् । नव एव नवकम् । अम्बुनि रुट-जन्म येषां तानि अम्बुरुंहि, तेषां अम्बुरुहाम् । अमराणां संसद अमरसंसद, चला-नताअमरसंसत् यस्य तत् यस्मिन् वा चलनतामरसंसत् । नास्ति लहन-मार्गोलहन यस्य तत् अलङ्कनम् । नवकमिति स्वार्थे कन् प्रत्ययः । “वले पत्रे अभिल्यायाः" इत्यनेकार्थः।बुतविलम्बितच्छन्दसा स्तुतिरियम् ॥ इति प्रथमवृत्तार्थः ॥१॥
व्या-जयतीति । शीतलतीर्थकृतः-शीतलतीर्थकरस्य चलनतामरसं-चरणकमलं सदा-सर्वकाळ जयति-सर्वोत्कर्षेण वर्तते इत्यन्वयः। 'जि जये। धातुः। 'जयति । इति क्रियापदम् । किं कर्व'पडमतामरसम् । चलनमेव तामरसं चलनतामरसमिति विग्रहः । कस्य । शीतलतीर्थकृतः। किंविशिष्टं पहनतामरसम्। 'चलनतामरसंसत् । चला-चञ्चला शीघ्रगमनात् सा चासीनता अमरसंस-देवसमा यस्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org