________________
१० श्रीशीतलजिनस्तुतयः अथ श्रीशीतलजिनस्तुति:
जयति शीतलतीर्थकृतः सदा
चलनतामरसं सदलं धनम् । नवकमम्बुरुहां पथि संस्पृशत् चलनतामरसंसदलङ्घनम् ॥१॥
-द्रुतविलम्बितम् ज० वि०-जयतीति । शीतलतीर्थकृतः-शीतलनाम्नो जिनस्य चलनतामरसं-चरणकमलं सदा-सर्वकालं जयति-जयमासादयतीति क्रियाकारकसंटङ्कः । अत्र 'जयति' इति क्रियापदम् । किं कर्तृ ? 'चलनतामरसम् ।। कस्य ? 'शीतलतीर्थकृतः । कथम् ? 'सदा॥ चलनतामरसं किं कुर्वन् ? 'संस्पृशत् । स्पर्शनानुगृहत् । किं कर्मतापनम् ? ' नवकम् ' नवैव नवकम् । स्वार्थ कः प्रत्ययः । केषां नवकम् ? ' अम्बुरुहाम् । वारिजानाम् । कथंभूतम् ? 'सदलम् । दलैः-पत्रैः सह वर्तमानम् । पुनः कथं० १ घनम् ' सारम् । चलनतामरसं कयंभूतम् ? 'चलनतामरसंसत् ' चला-चपला सती नता-प्रणता अमरसंसत्-देवानां सभा यस्य तत् तथा । चलत्वं च नमतां भूरिभक्तिभरवशेन रामस्यात् सम्भ्रमाद् वा घटते। पुनः कथं ? ' अलानम् ' न विद्यते लानं-कुतश्विदधःकरणं यस्य तत् तथा । केनापि श्रियाऽनिर्जितमित्यर्थः।।
अथ समासः-तीर्थ करोतीति तीर्थकृत 'तत्पुरुषः । शीतलचासौ तीर्थकृच्च शीतळ० 'कर्मधारयः । तस्य शीतल । चलनं एव तामरसं चळ० 'कर्मधारयः' । सह दवते यत् तत् सदलं 'तत्पुरुषः' । अम्बुनि रुहन्तीत्यम्बुरुंहि 'तत्पुरुषः' । तेषां अम्मुरुहाम् । चला चासौ नता च चलनता 'कर्मधारयः । अमराणां संसद् अमरसंसत् 'तत्पुरुषा'। चळनता अपरसंसत् यस्य तत् चलन० 'बहुव्रीहिः । न विद्यते लानं यस्य तद् अलानं 'बहुव्रीहिः । इति काव्यार्थः॥१॥
सि० ४०-जयतीति । समस्तसत्त्वसन्तापोपशामकत्वाद् गर्भस्थेऽस्मिन् पितुः पूर्वोत्पन्नोऽचिकित्स्यः पित्तदाहो मातृहस्तस्पर्शादेवोपशान्त इति वा शीतलः स चासौ तीर्थकृष शीतलतीर्थकृत् तस्य शीतलनाम्नस्तीर्थकृतः-शीतलनाम्नः तीर्थकरस्य चलनतामरसं-चरणकमलं सदा-सर्वकालं जयति-सर्वोत्कर्षेन वर्तत इत्यर्थः । 'जयतु ' इति पाठे जयमासादयतु इत्यर्थः । 'जि जये' धातोः वर्तमाने कर्तरि परस्मैपदे
१ 'जयतु ' इत्यपि पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org