________________
जिनलतबा
स्तुतिचतुर्विशतिका अतिसर्जने । आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । क्रियासाधनप्रकारस्तु पूर्वमेवोक्तः । अत्र 'दिश्यात् ' इति क्रियापदम् । का कर्ती ! । भारती। " वाग् ब्राह्मी मारती गौगीर्वाणी भाषा सरस्वती" इति हैमः ( का० २, श्लो० १५५ ) । किं कर्मतापन्नम् । शर्म । “शर्मसातसुखानि च " इत्यमरः (श्लो० २६१ )। कस्य ! । मम । कस्य भारती ? । तव । कथम् ! । आशु । "आशुर्वीही च सत्वरे" इति विश्वः । शर्म कथंभूतम् ! । प्रसमम् । कथंभूता भारती ! । गभीरा-दुरवगाहा । कैः कृत्वा ! । मङ्गः-अर्थविकल्पैः । किं कुर्वती । निर्नाशयन्ती-नाशं प्रापयन्ती । किम् । तमः-मोहं शोकं वा । केन । 'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमः स चासौ स्तवः-स्तोत्रं तेन हेतुभूतेन । तथाच शस्यतमस्तन स्तुता सती तमो निर्नाशयतीति मावः । पुनः कथंमता ! । शुमा-कल्याणी । कयंभूतस्य तव? । ' अरती. शस्य रतेः ईशो रतीशः-कामः स न विद्यते यस्य स तथा तस्य । अथवा अकारप्रश्लेषमकृत्वा तमः कस्य सम्बन्धि ! । रतीशस्य-कामस्येति व्याख्येयम् । अन्ये तु कीदृशस्य तव ! रतीशस्य कामस्येत्यर्थः, अमेरूपकम् । अपरे तु रतीशस्येत्यत्र रूपेणेति शेषः कर्तव्य इत्याहुः॥३॥
सौ० ०-जिनेन्द्र ! भलैरिति। हे जिनेन्द्र! हे सर्ववेदिन् ! तव-भवतः भारती-वाणी मम शर्मसुखं आशु-शीघ्रं दिश्यात् इत्यन्वयः । 'दिश्यात्' इति क्रियापदम् । का की ? । 'भारती' । 'दिश्यात्' दद्यात् । किं कर्मतापनम् ? । 'शर्म' सुखम् । भारती कस्य ? । 'तव' । कथंभूता भारती । 'गभीरा' अस्ताधा-दुरवगाहा । कै? । 'भः' अर्थविकल्पैः । कथम् ।। 'प्रसभं' बलात्कारेण। भारती किं कुर्वती ? । 'निर्नाशयन्ती' क्षपयन्ती । किं कर्मतापनम् ? । 'तमः' पापं अज्ञानं वा । केन ?।
तमा-अतिशयेन प्रशस्यतरः यः स्तवः-स्तोत्रं तेन ‘शस्यतमस्तवन'। पुनः कथंभूता भारती?। 'शुभा' भव्या। कस्य ।रत्या ईशारतीशः-कामः, न विद्यते रतीशो यस्य सः अरतीशः तस्य 'अरतीशस्य' एतावता साधो। हे 'इन !' स्वामिन् ! । जातावेकवचनम् । यद्वा रतीश:-कामः तं प्रति स्यतिस्पर्धयतीति रतीशस्यः तस्य सं० हे रतीशस्य ! । अथवा रतीशस्य-कामस्य तमो-मोहः तं प्रति नाशयति इति । हे जिनेन्द्र ! हे इन ! हे रतीशस्य ! तव (भारती) स्तवेन मम शर्म दिश्यात्-दद्यात् । इति पदार्थः।।
अथ समासः-जिनानां इन्द्रः जिनेन्द्रः, तस्य सं० हे जिनेन्द्र !। अतिशयेन शस्यः इति शस्यतमः, शस्यतमश्चासौ स्तवश्च शस्यतमस्तका, तेन शस्यतमस्तवेन निर-निश्चयेन .नाशयन्ती निर्नाशयन्ती। रत्या ईशः रतीशः, तस्य रतीशस्य। अथवा रतीशं स्यति-स्पर्धयतीति रतीशस्यः, तस्य सं० हे रतीशस्य ! । स्तवः-स्तुतिः तस्य इनः-स्वामी स्तवेनः, तस्य सं० हे स्तवेन ! । सकलशब्दमात्रेण तव गुणान वक्तुमशक्यत्वादिति ॥ इति तृतीयवृत्तार्थः॥३॥
देव्या० - जिनेन्द्र ! भङ्गैरिति । हे जिनेन्द्र ! हे इन ! तव-भवतः भारती-वाणी आशु-शीघ्रं यथा स्यात तथा मम-मे शर्म दिश्यात-देयादित्यन्वयः । 'दिश अतिसर्जने' धातः । 'दिश्यात' इति क्रियापदम । का की ? । भारती । कस्य ? । तव । किं कर्मतापन्नम् ? । शर्म । कस्य ? । मम । किंविशिष्टा भारती ? । गभीराअलब्धमध्या। कैः । । भट्टैः-अर्थविकल्पैः । पुनः किंविशिष्टा? । शुभा-समीचीमा । यदा तु शुभापदेन मता इत्यर्थः तदा सर्वेषामिति शेषः । किं कुर्वती भारती ? । निर्नाशयन्ती-नाशं प्रापयन्ती । किम् ।। तमःअज्ञानम् । केन ?'शस्यतमस्तवेन' अतिशयेन शस्यः शस्यतमः, शस्यतमः यः स्तवः-स्तुतिः तेन । "स्तवः स्तोत्रं स्तुतिर्नुतिः" इत्यभिधानचिन्तामणिः (का० २, श्लो० १८३)। किविशिष्टस्य तव ! । 'रतीशस्य'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org