________________
स्तुतिचतुर्विंशतिका
[ ९ श्री सुविधि
गदितवतीत्यन्वयः । ' लप लपने ' धातुः । अलपत्' इति क्रियापदम् । का कर्त्री ।। जिनानां राजी । कानि कर्मतापन्नानि ? | हितानि । कस्मै ? | जन्तुजाताय । किं कुर्वाणा जिनानां राजी ? । दधाना धारयन्ती किम् ? | पावयुगं - चरणयुगलम् । पादयोः युगं पादयुगं इति समासः । किंविशिष्टं पादयुगम् ? । ' राजिनानामलपद्ममालम् ' राजिनी - राजनशीला नाना - बहुविधा अमला - निर्मला पद्ममाला - कमलस्रकू यस्य तत् । मालाशब्देन श्रेणिर्वा ॥ इति द्वितीयवृत्तार्थः ॥ २ ॥
जिनवाणी-
१०२
जिनेन्द्र ! भङ्गैः प्रसभं गभीराSSशु भारती शस्यतमस्तवेन । निर्नाशयन्ती मम शर्म दिश्यात् शुभारतीशस्य तमस्तवेन ! ॥ ३ ॥
- उपजातिः
ज० वि० - जिनेन्द्र । भङ्गैरिति । हे जिनेन्द्र !-जिनेश्वर ! हे इन !-प्रभो ! तव भवतः भारतीवाणी आशु - शीघ्रं प्रसभं प्रकटं शर्म-सुखं मम - मे दिश्यात् - देयादिवि क्रियाकारकप्रयोगः । अत्र ' दिश्यात् ' इति क्रियापदम् । का कर्त्री ? ' भारती' । किं कर्मतापन्नम् ? ' शर्म ' । कस्य ? 'मम' | कस्य भारती ? 'तव' । कथम् ? 'आशु' । शर्म कथंभूतम् ? 'प्रसभम् ' । भारती कथंभूता ? ' गभीरा' दुरवगाहा । केः कृत्वा ? ' भङ्गः: ' अर्थविकल्पैः । किं कुर्वन्ती १ ' निर्नाशयन्ती ' अपनुदन्ती । किं कर्मतापन्नम् ? ' तमः ' मोहम् । केन ? ' शस्यतमस्तवेन' अतिशयेन प्रशस्यस्तवनेन हेतुभूतेन । शस्यतमस्तवेन स्तुना सती समो निर्नाशयतीति हार्दम् । पुनः कथं० १' शुभा' कल्याणी । तव कथंभूतस्य ? ' अरतीशस्य ' रतीश:- कापः स न विद्यते यस्य स तथा तस्य । अथवा अकारमश्लेषमकृत्वा । तमः कस्य संबन्धि ? ' रतीशस्य कामस्येति व्याख्येयम् ॥
"
,
अथ समासः - जिनानामिन्द्रो जिनेन्द्र: ' तत्पुरुषः | तत्सम्बोधनं हे जिनेन्द्र ! | अतिशयेन शस्यः शस्यतमः । शस्यतमश्वासौ स्तवश्च शस्य० ' कर्मधारयः ' । तेन शस्य० । रतेरीशो रतीशः ' तत्पुरुषः । न विद्यते रतीशो यस्य सोऽरतीश: ' बहुव्रीहिः ' । ( तस्य ) । इति काव्यार्थः ॥ ३ ॥
सि० वृ० - जिनेन्द्र ! भङ्गैरिति । जिनानामिन्द्रः जिनेन्द्रः तस्य सम्बोधनं क्रियते हे जिनेन्द्र !-हे इन ! - हे प्रभो ! तव - भवतः भारती-वाणी आशु-शीघ्र प्रसभं - प्रकटं शर्म - सुखं मम - मे दिश्यात् - देयादित्यर्थः । 'दिश
'शुभा रती ० ' इत्यपि पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org