________________
जिनस्तुतयः] स्तुतिचतुर्विशतिका
११ सि० ४०-या जन्तुनातायेति । सा जिनानां रानी-श्रेणी मम अलं-अत्यर्थ मुद-हर्ष दिश्यात्देयादित्यर्थः । । दिश अतिसर्जने ' धातोः कर्तरि आशिषि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'स्वरहीन.' (सा० सू. ३१) । तथाच दिश्यात्' इति सिद्धम् । अत्र · दिश्यात् ' इति क्रियापदम् । का की । रानी । केषाम् ।। जिनानाम् । कां कर्मतापन्नाम् ? । मुदम् । “ मुत्प्रीत्यामोदसम्मदाः " इति हैमः ( का० २, श्लो० २३० )। कथम् ? । अलम् । “ अलं भूषणपर्याप्तिवारणेषु निरर्थक । अलं शक्तौ च निर्दिष्टं ॥ इति विश्वः । कस्य ! । मम । अस्मच्छब्दस्य षष्ठयेकवचने ममादेशः । कयंभूता जिनानां राजी! । सारा श्रेष्ठा सर्वेभ्य उत्कृष्टत्वात् । सारः-वलं विद्यते पस्यां सा इति वा, अनन्तरलत्वात् । " सारो बले स्थिरांशे च, न्याय्ये क्लीबं वरे त्रिषु ॥ इत्यमरः ( श्लो० २६७७ )। किं कुर्वाणा ! । 'दधाना' धत्ते इति दधाना-बिभ्रती । किं कर्मतापन्नम् ? । 'पादयुगं' पादयोः-चरणयोर्युग-युग्मम् । पादयुगमिति 'तत्पुरुषः' ।" पादा रश्म्यवितुर्याशाः" इत्यमरः । कयंभूतं पादयुगम् ? । ' राजिनानामलपद्ममालं' राजिनी-राजनशीला सा चासौ नाना-अनेकप्रकारा अमला-निर्मला सा चासौ पद्मानां कमलानां माला-त्रक यस्य तत् तथा । यत्तदोरभिसम्बन्धात् सा का। या जिनानां राजी जन्तुनाताय-प्राणिसमूहाय हितानि-पथ्यानि अलपत्-पर्यभाषदित्यर्थः । ' लप लपने' धातोः अनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दिबादावट ' ( सा० स० ७०७), ' अप्' (सा० स० १९१)। तथाच ' अलपत् ' इति सिद्धम् । अत्र 'अलपत्' इति क्रियापदम् । का की ? । या । कानि कर्मतापन्नानि ! । हितानि । “हितं पथ्ये गते धृते " इति विश्वः । कस्मै ? । ' जन्तुजाताय ' जन्तवः-प्राणिनस्तेषां जातं-समूहः तस्मै जन्तुजाताय ॥२॥ ___ सौ० वृ०-या जन्तुजातायेति । या जिनाना-अर्हतां राजी-श्रेणिः जन्तुजाताय-प्राणिवृन्दाय हितानि-पथ्यानि अलपत् इत्यन्वयः। अलपत्' इति क्रियापदम् । का की ? । 'राजी'। अलपत् 'गदितवती । कानि कर्मतापन्नानि ? । 'हितानि '। कस्मै ? । 'जन्तुजाताय'। कथंभूता जिनानां राजी!। 'सारा' श्रेष्ठा । सा जिनानां राजी ममापि अलं-अत्यर्थ मुदं-हर्ष दिश्यात् इत्यन्वयः । 'विश्यात्' इति क्रियापदम् । का की ? । 'सा राजी' । 'दिश्यात्' दद्यात । कां कर्मतापन्नाम ? । 'मदम् । कस्य ? । 'मम'। सा जिनानां राजी किं कुर्वाणा ? । 'दधाना' धारयन्ती । किं कर्मतापन्नम् ? । ‘पादयुगं' चरणद्वयम् । कथंभूतं पादयुगम् ?। राजीनि-विराजन्ति यानि नाना-विधानि अमलानि-निर्मलानि पद्मानि-कमलानि तेषां माला-श्रेणिः यस्य तत् ' राजिनानामलपद्ममालम्' । इति पदार्थः॥
अथ समासः-जन्तूनां जातं जन्तुजातं, तस्मै जन्तुजाताय। पादयोयुगं पादयुगं, तत् पादयुगम् । दधातीति दधाना। पद्मानां माला पद्ममाला, अमला चासौ पद्ममाला च अमलपद्ममाला, राजिनी नानाविचित्रा अमलपद्ममाला यस्य तत् राजिनानामलपद्ममालम् ॥ इति द्वितीयवृत्तार्थः ॥ ९॥
दे०-व्या-या जन्तुजातायेति । सा जिनानां-तीर्थङ्कराणां राजी-पद्धितः मम मुद-हर्ष अलं-अत्यर्थ यथा स्यात् तथा विश्यात्-दद्यात् इति सम्बन्धः । 'दिश अतिसर्जने' धातुः। 'दिश्यात्' इति क्रियापदम् । का की । राजी । केषाम् ? । जिनानाम् ! कां कर्मतापन्नाम ? । मुदम् । कस्य । मम । किंविशिष्टा राजी?। 'सारा सारं-बलं विद्यते यस्यां सा तथा, अनन्तबलत्वात् । अथवा सारा-श्रेष्ठा, सर्वेभ्यः उत्कृशत्वात् । यत्तदोनित्याभिसंबन्धाद या जिनानां राजी जन्तुजानाय-प्राणिमात्राय हितानि पश्यानि अलपत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org