SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ १०० स्तुतिचतुर्विंशतिका [९] श्रीविधि 'विधेयात्' इति क्रियापदम् । कः कर्ता ? । सुविधिः । कां कर्मतापन्नाम् ? | अभिवृद्धिम् । कस्य ? | तव । किंविशिष्टः सुविधिः । ' भासुराल । नत्तपा: ' भासुरं घोरम् आलीनं आदृतम् अनशनादिरूपं तपो येन स तथा । पुनः किंविशिष्ट ? | 'अवन्' अवति-रक्षति इत्यन्वयः, षट्कायाभयदानदायकत्वात् । यत्तदोर्नित्याभिसम्बन्धाद् यः विधि: 'योगिपङ्कया' योगिनां तपस्विनां पङ्क्तिः-श्रेणिः तया प्रणतः - नमस्कृतः अस्ति इत्यनुषङ्गः । ' अस्ति' इति क्रियापदम्। कः कर्ता ? । सुविधिः । किंविशिष्टः सुविधि: ? । प्रणतः । कयाः । योगिपङ्क्तया । " आपरमाणुदर्शिनो योगिनः” इति यौगिकाः । किंविशिष्टया योगिपक्तया ? । 'नभः सत्सभासुरालीनतपादया' नभःसदां देवानां सभा - पर्षत् असुराली असुरश्रेणी ताभ्यां नतौ पादौ यस्या सा तया || इति प्रथमवृत्तार्थः ||१|| जिनेश्वरेभ्योऽभ्यर्थना 323 " या जन्तुजाताय हितानि राजी सारा जिनानामलपद्ममालम् । Jain Education International दिश्यान्मुदं पादयुगं दधाना - इन्द्रवज्रा ज० वि०० - या जन्तुजातायेति । सा जिनानां तीर्थकृतां राजी श्रेणी मम अलं - अत्यर्थ मुदं - हर्ष दिश्यात्-देयादिति क्रियाकारकसंयोजनम् । अत्र ' दिश्यात्' इति क्रियापदम् । का कर्त्री ?' राजी ' । केषाम् १ 'जिनानाम् ' । कां कर्मतापन्नाम् ? ' मुदम् ' । कथम् ? ' अलम् ' । जिनानां राजी कथंभूता ? ' सता ' श्रेष्ठा । किं कुर्वाणा ? ' दधाना ' बिभ्रती । किं कर्मतापन्नम् ? ' पादयुगं ' चरणयुगलम् । कथंभूतं पादयुगम् ? ' राजिनानामलपद्ममालं ' राजिनी - राजनशीला नाना - विविधप्रकारा अमला - निर्मला पद्ममाला - कमलस्रक् यस्य तत् तथा । यत्तदोरभिसम्बन्धात् सा का ? या जिनानां राजी जन्तुजाताय - प्राणिसमूहाय हितानि - पथ्यानि अलपत् पर्यभाषत । अत्रापि ' अलपत्' इति क्रियापदम् । का कर्त्री १ 'या' । कानि कर्मतापन्नानि १ ' हितानि । कस्मै १' जन्तुजाताय ' ॥ 1 सा राजिनानामलपद्ममालम् ॥ २ ॥ अथ समासः - जन्तूनां जातं जन्तुजातं ' तत्पुरुषः । तस्मै जन्तुजाताय । पादयोर्युगं पादयुगं ' तत्पुरुषः ' | पद्मानां माला पद्ममाला ' तत्पुरुषः ' । न विद्यते मलो यस्याः सा अमला ' बहुव्रीहि: ' । अमला चासौ पद्ममाला च अमलपद्ममाला 'कर्मधारयः' । नाना- विधा चासावमलपद्ममाला च नाना० ' कर्मधारयः ' । राजिनी नानामलपद्ममाला यस्य तत् राजिनानाम० 'बहुव्रीहिः ' इति काव्यार्थः ॥ २ ॥ For Private & Personal Use Only ܕ ܕ www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy