________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'दादेः' (सा० म० ९५७) इत्यनेनाकारस्यैकारः । तथाच 'विधेयात् ' इति सिद्धम् । अत्र · विधेयात् ' इति क्रियापदम् । कः कर्ता ! । ' सुविधिः ' सुष्ठ-शोमनं विधानं-क्रियाचरणादिकं यस्य सः । कां कर्मतापन्नाम् ! । अभिवृद्धिम् । कस्य ! । तव । तवं मम ङसा' (सा० सू० ३३७ ) इति युष्मदः षष्ठ्येकवचने तवादेशः । कथंभूतः सुविधिः । ' मासुरालीनतपाः ' भासुरं-अग्रयं आलीनं-आदृतं तपः-अनशनोनोदर्यादिकं येन स तथा । 'अत्वसोः सौ' (सा०सू० २९४) इति दीर्घत्वम् । पुनः किं कुर्वन् ! । ' अवन् । अवति-रक्षतीत्यवन् । प्राणिगणानिति गम्यम् । षटकायामयदानदायकत्वादिति भावः । यत्तदोरभिसम्बन्धात् स कः ? । यः सुविधिः योगिपङ्क्त्या -मुनिपरम्परया प्रणतः-प्रणामविषयीकृतः । अत्रापि प्रणतः ' इति क्रियापदम् । कया का ? । ' योगिपङ्क्त्या ' योगश्चित्तवृत्तिनिरोधलक्षणो विद्यते येषां ते योगिनस्तेषां पति:-परम्परा तया । " आपरमाणुदर्शिनो योगिनः " इति न्यायविदः । कः कर्मतापन्नः । यः। कथंभूतया योगिपङ्क्त्या । 'नभःसत्समासुरालीनतपादया' नभसि सदो येषां ते नमःसदो-देवास्तेषां सभा-पर्षत् च असुराली च असुराणां-भवनपतिदेवविशेषाणां आली-श्रेणी च ताभ्यां नतौ पादौ यस्याः सा तथा तया, नमःसत्समा च असुराली च नमःसत्सभासुराली ' इतरेतरद्वन्द्वः'। " वीथ्यालिरावलिः पतिः, श्रेणी लेखास्तु राजयः " इत्यमरः ( श्लो० ६५६)॥१॥
सौ० वृ०-यश्चन्द्रवत् सौम्यः-चन्द्रप्रभो भवति, स शोभनविधिरेव भवति । अनेन संबन्धनायातस्य नवमश्रीसुविधि जिनेन्द्रस्य स्तुतिव्याख्यानमाख्यायते-तवाभिवृद्धिमिति।
हे दयावन् !-दयायुक्त! सुविधिः जिनः तव-भवतः अभिवृद्धिं-समृद्धि विधेयात् इत्यन्वयः । विधेयात् इति क्रियापदम्।कः कर्ता ? । 'सुविधिः । पुष्पदन्तापरनामा । 'विधेयात् ' कुर्यात् । कां कर्मतापन्नाम् ? । 'अभिवृद्धिम् । कस्य ! । 'तव'। कथंभूतः सुविधिः । भासुरं-दीप्यमानं आलीनं कृतं-आवृतं तपोऽनशनादिभेदेन यस्य सभासुरालीनतपाः'। भव्यैरिति शेषः । पुनः सुविधिः किं कुर्वन् ?। 'अवन् ' षट्कायजन्तुं रक्षन् । पुनः किंवि० सुविधिः ? । 'सः' सः-प्रसिद्धः। सः कः ? । यः योगिपइन्क्तया प्रणत इत्यन्वयः । 'प्रणतः' इति क्रियापदम् । कया का? । 'योगिपइक्तया' योगिवन्देन । ('प्रणतः') प्रकर्षेण नतो-नमितः कः कर्मतापनः ? । 'यः' सुविधिः । कथंभूतया योगिपतिया? । नभःसदो-देवाः तेषां सभा-पर्षत्, असुरानागकुमारादयः तेषां आली-श्रेणिः तया नताः पादाः यस्याः सा नभःसत्सभासुरालीनतपादा, तया 'नभःसत्सभासुरालीनतपादया' । एतादृशः सुविधिः तव अभिवृद्धिं विधेयात्-समृद्धिं करोतु । इति पदार्थः॥ ____ अथ समासः-अभि-सामस्त्येन-सर्वप्रकारेण वृद्धिः अभिवृद्धिः, ता अभिवृद्धिम् । सु-शोभनो विधिः-आचारो यस्य स सुविधिः । पुष्पवत् दन्ता यस्य स पुष्पदन्तः। अनुक्तोऽप्युक्तः। भासुरं-घोरं आलीनं तपो यस्य स येन वा भासुरालीनतपाः। दया अस्यास्तीति दयावान, तस्य सं० हे दयावन् !। प्रशस्ता मनीवाक्कायव्यापारा येषां सन्ति ते योगिनः, योगिनां पंक्तिः योगिपंक्तिः, तया योगिपड़तया,
प्रणतः। नभांस सीदन्ति-तिष्ठन्ति ते नमःसदः, नभासदां सभा नभःसत्सभा, असुराणों आली असुराली, नमःसत्सभा च असुराली चनभःसत्सभासुराल्यौ, नभःसत्सभासुरालीभ्यां नताः पादा यस्याः सा नभःसत्सभासुरालीनतपादा, तया नभासत्सभासुरालीनतपादया । अवति-रक्षति इति अवन् । अस्यां स्तुतौ इन्द्रवज्रा (2) च्छन्दः ॥ इति प्रथमवृत्तार्थः ॥१॥
दे० व्या०-तवाभिवृद्धिमिति । हे 'दयावन् !' दया विद्यते यस्यासौ दयावान, तस्यामन्त्रणम् । ते-तव सुविधिः-सुविधिनाथः अभिवृद्धिं-समृद्धि विधेयात्-क्रियात् इत्यन्वयः। 'दुधात्र धारणपोषणयोः' इति धातुः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org