SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ९ श्री सुविधि जिन स्तुतयः अथ श्री सुविधिनाथाय प्रार्थना तवाभिवृद्धि सुविधिर्विधेयात् स भासुरालीनतपा दयावन् ! | यो योगिपङ्कया प्रणतो नभः सत्सभासुरालीनतपादयाऽवन् ॥ १ ॥ 6 ज० वि० - तवाभिवृद्धिमिति । हे दयावन् ! - दयासमन्वित ! प्राणिन् ! स सुविधि:सुविधामा जिनः तव - भवतः अभिवृद्धिं - अभ्युदयं विधेयात्- क्रियात् इति क्रियाकारकप्रयोगः । अत्र 'विधेयात् ' इति क्रियापदम् । कः कर्ता ? ' सुविधि:' । कां कर्मतापन्नाम् ? ' अभिवृद्धिम् ' । कस्य ' तत्र । कथंभूतः सुविधिः ? ' भासुरालीनतपाः ' भासुरं घोरं आलीनं - आश्रितं तपः - अनशनोनोदर्यादिरूपं येन स तथा । किं कुर्वन् ? 'अवन्' रक्षन् । प्राणिगणानित्यध्याहृत्य गम्यते । यत्तदोरभिसंबन्धात् स कः १ यः सुविधिः योगिपङ्कया - मुनिपरम्परया प्रणतःप्रणिपतितः । अत्रापि 'प्रणतः इति क्रियापदम् । कया कर्यो ? ' योगिपङ्कया' । कः कर्मतापन्नः ? ' य:' । कथंभूतया योगिपङ्कया ? ' नभःसत्सभासुरालीनतपादया' नभःसदोदेवाः तेषां सभा - पर्षत् असुराली - दैत्यसन्ततिः ताभ्यां नतौ पादौ यस्याः सा तथा तथा ॥ Jain Education International - , & " अथ समासः - शोभनो विधिर्यस्य स सुविधिः ' बहुव्रीहि:' । भासुरं च तदालीनं च भासुरालीनं ' कर्मधारयः । भासुरालीनं तपो यस्य स भासु० ' बहुव्रीहि: ' । योगिनां पङ्कियगिपङ्किः ' तत्पुरुषः ' । तया योगि० । नभसि सीदन्तीति नभः सदः तत्पुरुषः ' । नभःसदां सभा नभःस ० तत्पुरुषः ' । असुराणां आली असुराली ' तत्पुरुषः ' । नभःसत्सभा च असुराली च तौ नभःसत्सभा सुराल्यौ ' इतरेतरद्वन्द्वः ' । नभःसत्सभासुरालीभ्यां नतौ नभःस० ' तत्पुरुषः ' । नभःसत्सभासुराळीनतौ पादौ यस्याः सा नभःस० ' बहुव्रीहि: ' ॥ इति काव्यार्थः ॥ १ ॥ - उपजातिः - सि० [० – तवाभिवृद्धिमिति । दया- कृपा करुणेतियावत् विद्यते यस्य स दयावान्, तस्य सम्बोधनं हे दयावन् !-दयायुक्त ! प्राणिन् ! स सुविधि:- सुविधिनामा जिनः तव - भवतः अभिवृद्धिंअभ्युदयं विधेयात् – क्रियादित्यर्थः । विपूर्वक 'डुधाञ् धारणपोषणयोः इति धातोः आशिषि कर्तरि For Private & Personal Use Only 1 www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy