________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका तस्मिन् 'तनुमदवने'। किंविशिष्टा त्वम् ? । अनुशं-सृणिःकुलिशं-वज्रं ते द्वे विभीति 'अङ्कुशकुलिशभृत् !' । हे 'स्वायत्यागे।'सु-शोभनः आयो-लाभः अर्थादिः त्यागो-दानं ते द्वे यस्याः सा स्वायत्यागा, तस्याः सं० हे स्वायत्यागे !। पुनः किंविशिष्टा त्वम् ? । हेम-स्वर्ण तद्वत् तारा-उज्ज्वला 'हेमतारा' । हे 'अध्यारूढे !' आरूढे ! । कस्मिन् ! । 'द्विपेन्द्रे' गजपती। किंविशिष्टे द्विपेन्द्रे ? । ('अतिमत्ते') अतिअत्यथै मत्ते-मदवति-उद्धते। पुनः किं० द्विपेन्द्रे ? । शशधरः-चन्द्रः तस्य करा:-किरणाः तद्वत् श्वेताधवला भाः-कान्तिः यस्यासौ तस्मिन् ‘शशधरकरश्वेतभासि' । पुनः कथंभूते ? । हे 'अमतारातिमत्ते !' अमता-अनभिप्रेता अरातिमत्ता-विपक्षभावता यस्याः सा अमतारातिमत्ता, तस्याः सं० हे अम!। पुनः किंवि० त्वम् । [तारातिमत्ते त्वं] । स्वायत्या-निजाशयेन, स्वभावेन वा अगे-पर्वते अध्यारूढे!। किंविशिष्टे अगे? । अतनु-प्रचुरं मदवनं यस्य सः अतनुमदवनः, तस्मिन् अतनुमदधने, द्विपेन्द्रेऽप्येवंविधे अतनु-प्रचुरं मदवनं-मदवारि यस्य स तस्मिन अतवने । इति पदार्थः ॥ ____ अथ समासः-अङ्कुशश्च कुलिशं च अङ्कुशकुलिशे, अकुशकुलिशे बिभर्ति सा अङ्कुशकुलिशभृत् । आयश्च त्यागश्च आयत्यागौ, सु-शोभनौ आयत्यागौ यस्याः सा स्वायत्यागा, तस्याः सं० हे स्वायत्यागे!! तनवो विद्यन्ते येषां ते तनुमन्तः, तनुमतां अवनं तनुमदवनं, तस्मिन् तनुमदवले । हेमवत् तारा हेमतारा। अतिशयेन मत्ता अतिमत्ता, तस्याः सं० हे अतिमत्ते!। द्विपेन्द्रेऽप्येवंविधः समासः। अतिशयन मत्तो-मदवान् ( अति०), तस्मिन् अतिमत्ते । शशं धराति इति शशधरः, शशधरस्य कराः शशधरकराः, शशधरकरा इव श्वेता भाः यस्यासौ शशधरकरश्वेतभाः, तस्मिन् शशधरकरश्वेतभासि। द्वाभ्यां-मुखशुण्डाभ्यां पिवतीति द्विपः, (तस्येन्द्रः) तस्मिन् । अगे (?)। नतनुः अतनुः, अतनुश्चासौ मदश्च अतनुमदः, (अतनु०) वनानि-काननानि यस्मिन् सः अतनुमदवनः, तस्मिन् अतनुमदवने । द्विपेन्द्रपक्षे अतमुःप्रचुरः मदस्य-दानस्य वनं-पानीयं यस्य सः अतनुमदवनः, तस्मिन् । हे संबोधने पदे पृथक् ज्ञेयम् । अरातिर्विद्यते यस्यासौ अरातिमान्, अरातिमतो भावः अरातिमत्ता, न मता अमता, अमता अरातिमत्ता यस्याः (सा) अमतारातिमत्ता, तस्याः सं० हे अमतारातिमत्ते ! ॥ इति चतुर्थवृत्तार्थः ॥४॥
श्रीचन्द्रप्रभदेवस्य, स्तुतेरर्थः स्फुटीकृतः। सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना ॥
॥ इति चन्द्रप्रभजिनस्तुतिः॥४।८।३२॥ दे० व्या०-वज्राङ्कश्यशति ।हे वज्राशि! त्वं तनुमदवने-प्राणिरक्षणे प्रयत्न-प्रकर्षेण यत्नं विधत्स्वकुरु इत्यन्वयः। धा धारणपोषणयोः' इति धातुः । 'विधत्स्व ' इति क्रियापदम् । का की? । त्वम् । के कर्मतापन्नम् । प्रयत्नम् । कस्मिन् ? । 'तनुमदवने' तनुः-शरीरं विद्यते येषां ते तनुमन्तः, तेषां अवन-रक्षणं तस्मिन् । किंविशिष्टा त्वम् ?। 'हेमतारा' हेम-सुवर्ण तद्वत् तारा विशदा । हे अध्यारूडे ! गतवति ! कृतारोहणे इतियावत् । कस्मिन् ? । द्विपेन्द्रे-ऐरावणे । किंविशिष्टे द्विपेन्द्रे ! ।' अतिमत्ते' अतिशयेन मत्तेमदोत्कटे । पुनः किंविशिष्ट ? । 'शशधरकरश्वेतभासि' शशधरस्य-चन्द्रस्य करा:-पादाः तद्वत् श्वेता-उज्ज्वला भा:-कान्तिः यस्य स तस्मिन् । पुनः किंविशिष्टे ? । 'स्वायत्यागे । स्वस्य आयतिः-विस्तारः तया अगे-पर्वतसदृशे । अत्राभेदरूपकालङ्कारः। पुनः किंविशिष्टे ।'अतनुमदवने' अतनु:-प्रभूतो यो मदः-दानप्रवृत्तिःस एव वनंजलं यस्मिन् स तस्मिन् । “जीवनं भुवनं वनम्" इत्यमरः (श्लो०४७३)।'अशकुलिशभृत् !' इति । अन्श.. सृणिः कुलिशं-वज्रम् , अनयोर्द्वन्द्वः', ते बिभर्ति-धारयति या सा तस्या आमन्त्रणम् 'स्वायत्यागे । इति । आयः-अर्थप्राप्तिः त्याग:-दानम् , अनयोर्द्वन्द्वः',ततः सुष्टु आयत्यागी यस्याः सा तस्या आमन्त्रणम्। 'अमतारातिमत्ते!' इति । अरातिः-शत्रुः विद्यते यस्याः सा अरातिमती, तस्याः भावः अरातिमत्ता । 'त्वतलोरणवचनयोः(स्य?), (पा० वार्तिके ३९२७) इति पुंवद्भावः। सा न मता-नाभिप्रेता यस्याः सा तस्या आमन्त्रणम्। सकलविपक्षपक्षाच्छेदनादिति भावः । एतानि सर्वाण्यपि देव्याः सम्बोधनपदानि ॥ इति चतुर्थवत्तार्थः॥ मन्दाकान्ताच्छन्दः॥" मन्दाक्रान्ता मभनततगा गो यतिवेदषभिः" इति च तल्लक्षणम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org