________________
स्तुतिचतुर्विशतिका
[८श्रीचन्द्रमा
(सा०सू०६९१) इत्यप् । 'द्विश्व' (सा०सू०७१०) इति धातोद्वित्वं च | ‘हस्वः' (सा०सू० ७१३) इति पूर्वस्य हस्वत्वम् । 'झपानां जबचपाः । ( सा० सू० ७१४) इति दत्वम् । पूर्वस्व डिति झसे धः' (सा०सू०९६०) इति पूर्वदस्य घत्वम् । 'दादे:' (सा०सू०९५७) इत्याकारलोपः । ' खसे चपी झसानां ' (सा० स० ८९) इति धकारस्य तकारः । तथाच 'विवस्व' इति सिद्धम् । अत्र · विधत्स्व ' इति क्रियापदम् । का की ? | त्वम्। कं कर्मतापन्नम् । प्रयत्नम् । कस्मिन् ? ।' तनुमदवने' तनुः-शरीरं विद्यते येषां ते तनुमन्तः तेषां अवनं-रक्षणं तस्मिन् । किविशिष्टा त्वम् ।। 'हेमतारा' हेम-सुवर्ण तदिव तारा हेमतारा, स्वर्णदेहेत्यर्थः । अन्यानि सर्वाण्यपि वज्राधेश्याः सम्बोधनानि । तेषां व्याख्या यथा-हे ' अङ्कुशकुलिशभत् ! ।। " हादिनी वज्रमस्त्री स्यात् , कुलिशं मिदुरं पविः" इत्यमरः ( श्लो० ९३ ) । अवशः-सृणिः, कुलिशं-वज्र, अङ्कुशश्च कुलिनं च अङ्कुशकुलिशे 'इतरेतरद्वन्द्व ', ले बिभौति तथा, तस्या सम्बोधन हे अड्डुशकुलिशभृत् !' एतद्विशेषणमपि घटते। अकुशोऽस्त्रो सृणियोः (सृणिः स्त्रियाम्' इत्यमरः श्लो० १५५०) ह स्वायत्यागे,' आय:अर्थत्यागम. त्याग:-दानं, आयश्च त्यागश्च आयन्यागी इतस्तद्वन्द्वः', शोभनी आयत्यागौ यस्याः सा तथा तस्याः सम्बो० हे स्वायत्यागे !' हे अध्यारूढे !- आसीने । कस्मिन् ? 'द्विपेन्द्रे ' द्वाभ्यां शुण्डाग्राम्यां पिबन्तीते द्विपाः-गनास्तेविन्द्र इवेन्द्रस्तस्मिन् द्विपेन्द्रे । कथंभूते ! । । अतिमत्ते' अतिशयेन मत्त:-क्षीवस्तस्मिन् । 'मदी हर्षे । 'रदाम्य निष्ठातो नः [ पूर्वस्य च दः]' (पा० अ० ८, पा० २, सू० ४२ ) इति प्राप्तो निष्ठातस्य नकारः, ' न ध्यारव्यापमुर्छिमदाम् । (पा० अ० ८, पा० २, सू० ५७ ) इति सूत्रेण निषिद्धस्तेन · मत्तः' इति निष्पन्नम् । अन्यथा मन्न इत्यनिष्टं स्यादिति ज्ञेयम् । पुनः कथंभूते ? । ' शशधरकरश्वेतभासि । शशधर:-चन्द्रमाः तस्य कर:कान्तिस्तद्वत् श्वेता-उज्ज्वला भा:-विट् यस्य तस्मिन् । “ बलिहस्तांशवः कराः" इत्यमरः ( श्लो. २६६३ )। पुनः कथंभूते ? । ' अगे' अग इव पर्वत इव अगस्तस्मिन् पर्वतप्राये इत्यर्थः । अत्रामेदरूपकम् । कया ? | ' स्वायत्या' स्वस्य-आत्मनः आयतिः-आयामः दीर्घता इतियावत् तया हेतुभूतया । " दैय॑मायाम आनाहः, परिणाहो विशालता। आतिश्च " इति केशवः। पुनः कथमते ? । ' अतनुमदवने' न तनु अतनु प्रभूतमित्यर्थः मदवनं-पदरूपं जलं यस्य तथा तस्मिन् । " जीवनं भुवनं वनं " इत्यमरः । ( श्लो० ४७३ ), अतनुमद एव श्यामत्वात् वन-काननं यस्येत्यर्थस्तथा च द्विपेन्द्रस्त्वगोपमो वर्णितः, अगे च वनं भवेत् , तेनात्रापि प्रचुरमदरूपं वनमस्तीत्यभिप्रायः । अथावशिष्टं देवीसम्बोधनं हे ' अमतारातिमत्ते ! ' इति । अरातयः-शत्रवः विद्यन्ते यस्य सोऽरातिमान् तस्य भावः अरातिमत्ता, न मता-नाभिप्रेता अरातिमत्ता यया सा तथा तस्याः सम्बोधन हे अमतारातिमत्ते ! विरोधानमिलाषिणीत्यर्थः । मन्दाक्रान्ताच्छन्दः " मन्दाक्रान्ता ममनततया गो यतिवेदषड्भिः” इति च लल्लक्षणम् ॥ ४॥
॥ इति महोपाध्यायश्रीभानु० श्रीचन्द्रप्रभस्वामिस्तुतिवृत्तिः ॥ ८ ॥ सौ० वृ०-वज्रायडशेति । हे वज्राङ्कशि [ नाम्नि देवि ] !-वज्रानुशामिधाने । वि। तनुमदवने-जन्तुरक्षणे त्वंप्रयत्नं-यत्नं विधत्स्वइत्यन्वयः। विधत्स्व इति क्रियापदम् ।का की। 'त्वम्। 'विधत्स्व'कुरुकं कर्मतापनम् 'प्रयत्न' यत्नम् । कस्मिन् । तनु:-शरीरं तदन्तः-देहिनः तेषां अवन-रक्षणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org