________________
जिनस्वतयः]
स्तुतिचतुर्विशतिका कुलियो-वजः तो विभीति तथा तत्संबोधनं हे अङ्गु० । एतद् विशेषणमपि घटते । हे 'स्वायत्यागे !' आयः-अर्थस्य आगमः त्यागो-दानं शोभनौ आयत्यागौ यस्याः सा तथा तत्संबो० हे स्वाय० । हे 'अध्यारूढे ! आसीने ! । कस्मिन् ? 'द्विपेन्द्रे' गजेन्द्रे । द्विपेन्द्रे कयंभूते ? ' अतिमचे। अतिशयेन मदवति । पुनः कथंभूते ? 'शशधरकरश्वेतभासि' शशधर:-चन्द्रमाः तस्य करो-धुतिः तद्वत् श्वेता-उज्ज्वला भाः-त्विट् यस्य स तथा तस्मिन् । पुनः कथंभूते ? अगे' अग इक्-पर्वत इव अगस्तस्मिन् पर्वतपाय इत्यर्थः । कया ! 'स्वायत्या' स्वस्य-आत्मनो या आयतिः-आयामः दीघेतेतियावत् तया हेतुभूतया । पुनः कथं० ? ' अतनुमदवने ' अतनुप्रभूतं मदवनं-मदरूपं जलं यस्य स तथा तस्मिन् । अथवा अतनुमद एव श्यामत्वाद् वन-फाननं यस्य स तथा तस्मिन् । तथा चायमभिकाय:-द्विपेन्द्रस्त्वगोपमो वर्णितः, अगे च वनं भवेत् , तेन अत्रापि अतनुमदरूपं वनमस्तीति। हे 'अमतारातिमत्ते' अरातयो-वैरिणो विद्यन्ते यस्य सोऽरातिमान, वस्य भावोऽरातिमचा, न मता-नाभिप्रेता अरातिमत्ता यया सा तथा, विरोधानभिलाषिणीत्यर्थः॥
अथ समासः-अकुशश्च कुलिशश्च अडशकुलिशौ — इतरेतरद्वन्द्वः' । अङ्कुशकुलिशौ विमर्तीति अकु० तत्पुरुषः। तत्संबो० हे अकुश० । आयश्च त्यागश्च आयत्यागौ 'इतरेतरद्वन्दुः ।। शोभनौ आयत्यागौ यस्याः सा स्वायत्यागा 'बहुव्रीहिः तत्संबोधनं हे स्वायत्यागे !! तनुमतामवनं तनुमदवनं तत्पुरुषः । तस्मिन् तनु । हेमवत् तारा हेमतारा 'तत्पुरुषः । अतिशयेन मत्तोऽतिमत्तः 'तत्पुरुषः । तस्मिन् अति० । शशं धरतीति शशधरः 'तत्पुरुषः । शशधरस्य करः शशधर० ' तत्पुरुषः' । श्वेता चासौ भाश्च श्वेतभाः कर्मधारयः । शशधरकरवत श्वेता मा यस्य स शशधर० 'बहुव्रीहिः । तस्मिन् । द्विपाना द्विपेषु वा इन्द्रो दिपेन्द्रः 'तत्पुरुषः। तस्मिन् द्विपेन्द्रे । स्वस्य आयतिः स्वायतिः 'तत्पुरुषः' । तया स्वायत्या न गच्छतीत्यगः 'तत्पुरुषः । तस्मिन् अगे। न तनुः अतनुः 'तत्पुरुषः' । मद एव वनं मदवनं कर्मधारय.'। अतनु मदवनं यस्य सोऽतनुमदवनः 'बहुव्रीहिः'। यदिवा अतनुश्वासौ मदश्च अतनुमदः 'कर्मधारयः । अतनुमद एव वनं यस्य सोऽतनु० 'बहुव्रीहिः । तस्मिन् अतनु० । न मता अमता 'तत्पुरुषः । अमता अरातिमचा यया सा अमतारातिमत्ता 'बहुव्रीहिः' । तत्संबोधनं हे अमतारा०॥ इति काव्याः ॥ ४॥
॥ इति श्रीशोमनस्तुतिवृत्तौ श्रीचन्द्रप्रभस्वामिनः स्तुतेर्व्याख्या ॥८॥ सि० वृ.---वज्राङ्कश्यड्डशेति । हे इत्याभिमुख्याभिव्यक्तये । “ हे है व्यस्तो समस्तौ च, हूतिसम्बोधनार्ययोः " इति विश्वः । हे वज्राङ्कुशि !-वज्राङ्कुशीसज्ञिके ! त्वं-भवती तनुमदवनेप्राणिरक्षणे प्रयत्नं-आदरं विधत्स्व-कुरुष्वेत्यर्थः । विपूर्वकः · डुधाञ् धारणपोषणयोः । इति धातोः 'आशी:प्रेरणयोः' (सा० सू० ७०३ ) कर्तरि आत्मनेपदे मध्यमपुरुषैकवचनं स्वः । अप् कर्तरि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org