________________
स्तुतिचतुर्विशतिका
[८श्रीचन्द्रप्रमकविधिषणा, कविधिषणामां आपादनं कविधिषणापादनम्, तस्मिन् कविधिषणापादने । कोपश्च मानश्च कोपमानौ, न विद्यते कोपमानौ यस्य सः अकोपमानः । श्रवणान्येव चुलुकाः श्रवणघुलकाः, तैः श्रवणचुलुकैः । विहायसि सीदन्ति इति विहायःसदः, विहायःसदां राजी विहायःसद्राजी। कविश्व धिषणश्च कविधिषणी, कविधिषणाभ्यां सहिता सकविधिषणा । अनेकानि उपमानानि यस्य सः अनेकोपमानः ॥ इति तृतीयवृत्तार्थः ॥ ३॥
० व्या०-सिद्धान्त इति । स सिद्धान्तः-राद्धान्तः वः-युष्माकम् अहितहतये स्तार-भूयादित्यन्वयः । 'अस् भुवि ' धातुः । 'स्तात् । इति क्रियापदम् । कः कर्ता ? | सिद्धान्तः । 'कस्यै ।। 'अहितहतये' अहितस्य. सापराधस्य हतिः-हननं तस्यै । केषाम् ।बः। यत्तदोर्नित्याभिसम्बन्धाद्यं सिद्धान्तं जिनेन्द्रः-तीर्थङ्करः अस्यापयत्-चिवान् इति सम्बन्धः। 'ख्या प्रकथने ' धातुः। 'अख्यापयत् ' इति क्रियापदम् । कः कर्ता ? जिनेन्द्रः । कं कर्मतापमम् ।यंसिद्धान्तम् । किंविशिष्टो जिनेन्द्रः? । 'सद्राजीवः' सन्ति-शोभनानि राजीवानि-कमलानि यस्य स तथा । पुनः किंविशिष्टः?। दक्षः-कुशलः । कस्मिन् ? । 'कविधिषणापादने' कबीनां धिषणा-मनीषा तस्या आपादनं-जननं तस्मिन् । पुनः किंविशिष्टः ?।'अकोपमानः' कोप:-क्रोधः मानः-स्मयः अनयोतः ततो न स्तः कोपमानी यस्य स तथेति विग्रहः । पुनः किंविशिष्टः। 'अनेकोपमानः' अनेकानि-समुद्रचन्द्रा. दीनि उपमाननि यस्य स तथा । अथवा सद्राजीव इति मुक्त्वा एतानि सर्वाण्यपि आगमस्य विशेषणानीति बोध्यम् । च पुनरर्थे । तेन च-पुनः यं सिद्धान्तं मोदाद् विहायःसद्राजी-अमरश्रेणिः अपात्-पीतवतीत्यन्वयः। 'पा पाने' धातुः । आदरेण श्रवणं पानमुच्यते । 'अपात् ' इति क्रियापदम् । का की? 'विहायःसद्राजी' विहायसि-आकाशे सदो-गृहाणि येषां ते विहायःसदः, तेषां राजी-परम्परेत्यर्थः । कं कर्मतापन्नम्। न्तम् । कस्मात् ।मोदात्-हर्षात् । कै?'श्रवणचुलुके' श्रवणा:-कर्णाःत एव चुलुका:-गण्डपाः तैः । "गण्डषश्चलकश्चलुः" इत्यभिधानचिन्तामणिः (का० ३, श्लो० २६२)। किंविशिष्टा विहायःसबाजी?। 'सकविधिषणा ' कविः-शुक्रः धिषणो-बृहस्पतिः अनयो'ईन्दः,' ताभ्यां सह वर्तमाना। "धिषणः फलानीभवः" इत्यभिधानचिन्तामणिः (का० २, श्लो० ३२)॥ इति तृतीयवृत्तार्थः ॥३॥ वाश्याः स्तुतिः
वजाङ्कुश्यङ्कशकुलिशभृत् ! त्वं विधत्स्व प्रयत्न
स्वायत्यागे ! तनुमदवने हेमताराऽतिमत्ते । अध्यारूढे ! शशधरकरश्वेतभासि द्विपेन्द्रे स्वायत्याऽगेऽतनुमदवने हेऽमतारातिमत्ते ! ॥ ४ ॥
-मन्दा० ज०वि०-वज्राङ्कुश्यकुशेति । 'हे' इति आभिमुख्याभिव्यक्तये। वज्राङ्गुशि !-वज्राडशीसंझिके । व-भवती तनुमदवने-प्राणिनां रक्षणे प्रयत्न-आदरं विधत्स्व-कुरुष्वेति क्रियाकारकसम्बन्धः । अत्र 'विधत्स्व' इति क्रियापदम् । का की? ' त्वम्' । कर्मतापन्नम् ? 'प्रयत्नम्। कस्मिन् ? ' तनुमदवने । । कयंभूता त्वम् ? • हेमतारा ' स्वर्णवदुज्ज्वला । अपराणि सर्वाण्यपि वज्राकुश्या देव्याः संबोधनानि । तेषां व्याख्या यथा-हे ' अङ्कुशकुलिशभृत् ' अश:-मृणिः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org