________________
जिमालपा]
स्तुतिमविशतिका तस्मिन् । पुनः कवंभूतः । अनेकोपमानः' अनेकानि-असंख्यातानि उपपानामि-समुद्रपन्द्रादीनि यस्य स तथा । पुनः कथंभूतः ? । 'अकोपमानः । कोपश्च मानश्च कोपमानौ ' इतरेतरद्वन्द्वः', न विद्यते कोपमानौ-क्रोधाहङ्कारौ यस्य स तथा । एतानि सर्वाणि सद्राजीव इति मुक्त्वा प्रथमान्तविशेषणानि सिद्धान्तस्याऽपि युज्यन्ते । च पुनरर्थे । यं सिद्धान्तं विहायःसद्रानी-निरश्रेणी मोदात्हर्षात् अपात्-पीतवतीत्यर्थः । अत्यादरेण श्रवणं पानमुच्यते इति अत्यादरेणाश्रौषीदित्यर्थः । 'पा पाने' धातोः कर्तारे परस्मैपदे प्रथमपुरुषैकवचनं दिए । 'दिवादाक्ट' (स. सू०७०७) । अत्र
अपात् । इति क्रियापदम् । का की । विहायःसद्राजी' विहायसि-व्योम्नि सदः-गृहाणि येषां ते विहायःसद:--देवाः तेषां राजिः-श्रेणी इति तत्पुरुषः' "तत्सदस्त्वमराः" इति (अभि०)चिन्तामणी (का०२, श्लो०१)। कर्मतापन्नम् ।। यम् । कस्मात् । मोदात् । कैः कृत्वा । श्रवणचुलुकैः श्रवणाः कर्माः त एक चुलुका:अनलयः प्रसृतय इतियावत् , तैः कृत्वा । कथम् । साक्षात्-प्रत्यक्षम् । “साक्षात् प्रत्यक्षतुल्ययोः" इत्यमरः (श्लो० २८२२)। कथंभूता विहायःसद्रानी ! । ' सकविधिषणा ।। कविः- शुक्रः । " कविः कान्यकरे सूरी, पुंसि वाल्मीकिशुकयोः । खलीनेऽस्त्री कवितेयः" इति गौडः। "उशना भार्गवः कविः पोराचिर्दैत्यगुरुः" इति हैम: (का० २, श्लो. ३३)। धिषण:-बृहस्पतिः । कविश्व विषणश्च कविधिषौ । इतरेतरद्वन्द्वः', ताम्यां सह वर्तते या सा तथा। "विषणस्त्रिदशाचार्ये, धिषणा वियि संभता" इति विश्वः शा
सौ० वृ०-सिद्धान्त इति । सिद्धान्तः-आगमः वो-युष्माकम् अहित-अनिष्टं तस्य दक्तित-नाशः अहितहतिः तस्यै 'अहितहतये' स्तात् इत्यन्वयः। 'स्तात्' इति क्रियापषम् । कः कर्ता । 'सिद्धान्तः। 'स्तात् ' भूयात् । कस्यै ! । 'अहितहतये' विघ्नविनाशाय । केषाम् ? । 'क' युष्माकम् । किंविशिष्टः सिद्धान्तः ? । 'सः' प्रसिद्धः। सः कः?। जिनेन्द्रः-तीर्थकरो यं सिद्धान्तं अख्यापयत् इत्यन्वयः। 'अख्यापयत्' इति क्रियापदम् । कः कर्ता ? । 'जिनेन्द्रः ।।' अख्यापयत् । अकथयद के कर्मतारसम् । 'यं' सिद्धान्तम् । किंविशिष्टः सिद्धान्तः ? । सन्तः-साधवः सज्जना वा तेषां राजिः-श्रेणिः तस्याः इ:-अघं-पापं ते प्रति वाति-क्षयं नयतीति ‘सद्राजीवः' जिनेन्द्रपो सति-शोभनानि राजी. वानि-कमलानि यस्य स सद्राजीवः । सुरनिर्मितस्वर्णपद्मोपरि संचरिष्णुत्वात् । पुनः किंवि० सिद्धान्तः? । 'दक्षः' प्रवीणः । कस्मिन् ?। कवयः-प्राज्ञाः तेषां धिषणा-बुद्धिः तस्याः आपादनंनिष्पादनं तस्मिन् 'कविधिषणापादने'। पुनः किंवि० सिद्धान्तः। न विद्यते कोपः-क्रोधः मानःअहङ्कारो यस्य सः 'अकोपमानः'। जिनेन्द्रोऽप्येवंविधः। पुनः किंवि०सिद्धान्तः । 'विहायःसद्राजी' विहायः-आकाशं तस्मिन् सीदन्ति-तिष्ठन्तीति विहायःसदो-देवाः तेषां राजी-श्रेणिः देवपंक्तिः । विहाय:सद्राजी यं सिद्धान्तं प्रति श्रवणचुलुकैः कर्णगण्डूषैः कृत्वा साक्षात् यथा स्यात् तथा मोदात्-हर्षात अपात् इत्यन्वयः। 'अपात्' इति क्रियापदम् । का की ? । 'विहायःसद्राजी' देवपंक्तिः। 'अपात् ' पीतक्ती। कं कर्मतापमम् ? । 'यं सिद्धान्तम् । कैः। श्रवणचुलुकैः'। कस्मात् । 'मोदात्' । पुनः किंवि० सिद्धान्तः ? । अनेकानि-बहूनि उपमानानि-चन्द्रसूर्यचकादीनि यस्य सः 'अनेकोपमानः । जिनेन्द्रोऽप्येवंविधः । (किंविशिष्टा) विहायःसद्राजी? । कविः-शुकः धिषणः-बृहस्पतिः ताभ्यां सहिता सकविधिषणा । 'ईः स्मरेऽघेऽव्यये खेदे, कोपाक्तावी भुवि श्रियाम्' इति महीपः। इति पदार्थः । ___अथ समासः-न हितं अहितं, अहितस्य हतिः अहितहतिः, तस्यै अहितहतये। जिनानां इन्द्रो जिनेन्द्रः। सता राजिः सद्राजिः, सवाज्या ई सद्राजी, सद्राजी वातीति सद्राजीवः । कवीना धिषणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org