________________
स्तुतिचतुर्विशतिका
[८ श्रीचन्द्रप्रमहर्षात् अपात्-पीतवती । अत्यादरेण श्रवणं पानमुच्यत इति न्यावादोषीदित्यर्थः । अत्रापि 'अपात् । इति कियापदम् । काकी ?' विहाय सद्राजी ।। कर्मतापनम् ? ' यम् ।। कैः कृत्वा ? 'श्रवणचुलुकैः। श्रवणरूपैः चुलुकैः अञ्जलिभिः । कथम् ? ' साक्षात् ' प्रत्यक्षम् । कथंभूता विहायःसद्राजी ? 'सकविधिषणा' कविः-शुक्रःधिषणः-सुरगुरुः ताभ्यां सह वर्तते या सा तथा।।
अथ समास:-न हितं अहितं तत्पुरुषः । अहितस्य इतिः अहितहतिः । तत्पुरुषः । तस्यै अहि० । जिनानामिन्द्रो जिनेन्द्रः 'तत्पुरुषः । सन्ति राजीवानि यस्य स सद्राजीवः 'बहुव्रीहिः' । धिषणायाः आपादनं घिषणापादनं 'तत्पुरुषः। कवीनां घिषणापादनं कविधि. 'तत्पुरुषः । तस्मिन् कविधिः । कोपश्च मानश्च कोपमानौ · इतरेतरद्वन्द्वः'। न विद्यते कोपमानौ यस्य सः अकोप० 'बहुव्रीहिः । श्रवणान्येव चुलुकाः श्रवण ‘कर्मधारयः' । तैः श्रवण। विहायसि सीदन्तीति विहाय सदः 'तत्पुरुषः' । विहायःसदा राजी विहा० 'तत्पुरुषः। कविश्व धिषणश्च कविधिषणौ ' इतरेतरद्वन्द्वः।। सह कविधिषणाभ्यां वर्तते या सा सकवि० । अनेकान्युपमानानि यस्य सः अनेको० 'बहुव्रीहिः' ॥ इति काव्यार्थः ॥३॥
सि. वृ०-सिद्धान्त इति । स सिद्धान्त:-राद्धान्तः वः-युष्माकं अहितहतये स्तात्-मव. वित्यर्थः । ' असू भुवि ' सत्तायां धातोः · आशीःप्रेरणयोः । ( सा० सू० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । ' तुह्योः । (सा० सू० ७०४ ) इति तातडादेशे, ' नमसोऽस्य ' ( सा० म० ८९९ ) इत्यकारलोपे च ' स्तात्' इति सिद्धम् । अत्र ' स्तात् ' इति क्रियापदम् । कः कर्ता। सिद्धान्तः । “समौ सिद्धान्तराद्धान्तौ' इत्यमरः (श्लो० २८५) कस्यै ? । 'अहितहतये' अहितं-अनिष्टं दुःखादि तस्य हतिः-विनाशस्तस्यै अहितहतये ।केषाम् ।व:-युष्माकम् । (युष्मद् ) इत्यस्य षष्ठी बहुवचने वसादेशः । स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यं सिद्धान्तं निनानामिन्द्रो जिनेन्द्रः भख्यापयत्-ख्यापितवानित्यर्थः। ख्या प्रकथने' धातोरनद्यतने कर्तरि प्रथमपुरुषैकवचनं दिए। 'धातोःप्रेरणे (सा. सू० १०४२) इति निः। 'दिबादावट' (सा० सू० ७०७)। रातो नौ पुक् । (सा० सू० १०३.) इति पुमागमः । ‘स धातुः' (सा० सू० ४१) इति धातुसंज्ञा । • अ५ कर्तरि ' ( सा० सू० १९१) इत्यप् । ' गुणः' ( सा० स्० ६९२ ) इति गुणः । 'ए अय् (सा० सू० ७८२)। स्वरहीनं.' (सा० सू०३६)। तथा च 'अख्यापयत् ' इति सिद्धम् । अत्र ' अख्यापयत्' इति क्रियापदम् । कः कर्ता ? । जिनेन्द्रः । कं कर्मतापन्नम् ? । यम् । कथंभूतो जिनेन्द्रः ? । सद्राजीवः ' सन्ति-भोगनानि राजीवानि-सुरकृतकमलानि यस्य स तथा । " बिसप्रसूनराजीव-पुष्कराम्भोरुहाणि च " इत्यमरः ( श्लो० ५४८) । मार्गे देवविनिर्मितकनककमलोपरि चरणस्थापनादिति भावः । पुनः कथंभूतः ।।
दक्षः ' कुशलः पटुरितियावत् । “ निष्णातो निपुणो दक्षः " इति हैमः ( का० १, श्लो. १)। कस्मिन् ? । कविधिषणापादने' कवयः-शास्त्रकर्तारः तेषां धिषणा-सदसद्विवेकिताबुद्धिः तस्या आपादन-जननं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org