________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका दे०व्याo-जीयादिति । जिनाना-तीर्थंकराणां सा राजी-परम्परा जीयात्-जयतात् इत्यन्वयः । 'जि जये' धातुः । 'जीयात् । इति क्रियापदम् । का की। राजी । केषाम् । जिनानाम् । किविशिष्टा राजी।। 'जनितजननज्यानिहानिः, जननं-जनिः ज्यानिः-जरा अनयोः पूर्व 'इन्दः', जनिता-उत्पादिता जननज्यान्योः हानिः-विनाशो यया सा तथेति समासः। पुनः किंविशिष्टा?'इतरुक इता-गता रुकरोगो यस्याः सा तथा। पुनः किंविशिष्टा ।'सारविन्दा अरविन्दं-कमलं तेन सह वर्तमाना, मार्गे देवनिर्मितसुवर्णाम्बुजे चरणस्थापनात् । पुनः किंविशिष्टा!'सत्यागा' त्यागेन-दानेन सह वर्तमाना।" दानमुत्सर्जनं त्यागः" इत्यमरः?। पुन: किंविशिष्टाए । 'अमितहकू' अमिता-अप्रमाणा रुकू-कान्तिः यस्याः सा । तथा राजी किं कुर्वती । कृतवती । कम् । अवतारं-जन्मग्रहणम् । कया। भव्योत्या। भव्यानां-भव्यजीवानां उद्धतिः-उद्धारः तया हेतुभूतया। किंविशिष्टं अवतारम् | 'सत्यागारं , सत्यस्यसुनतस्य अगारं-गृहम् । पुनः किंविशिष्टम् । 'जयदम् । जयं-उत्कर्षे ददातीति तथा तत् । यत्तदोमित्यामिसम्बन्धाद् या जिनानां राजी धर्मचक्रम् अवहत्-उवाहेत्यन्वयः। 'वह प्रापणे' धातुः। 'अवहत्' इति क्रियापदम । का कर्जी? | जिनानां राजी। किं कर्मतापन्नम| धर्मचक्रम | धर्मचक्रं किं कर्वती । रयत-रक्तीक बत् । कम् ? । रवि-सूर्यम् । किंविशिष्टं रविम् । 'दावतारम् । दावो-दावानलः तद्वत् तारं-दीप्तम् ॥इति द्वितीयवृत्तार्थः ॥ २॥ सिद्धान्त-स्तुतिः
सिद्धान्तः स्तादहितहतयेऽख्यापयद् यं जिनेन्द्रः
सद्राजीवः स कविधिषणापादनेऽकोपमानः । दक्षः साक्षाच्छ्रवणचुलुकैयं च मोदाद् विहायःसद्राजी वः सकविधिषणाऽपादनेकोपमानः ॥ ३ ॥
-मन्दा० ज० वि०-सिद्धान्त इति । स सिद्धान्तः-आगमः वो-युष्माकं 'अहितहतये' अहित-अनिष्टं दुःखादि तस्य हति:-विघातः तस्यै स्तात्-भवतु इति क्रियाकारकसण्टङ्कः । अत्र ‘स्तात्' इति क्रियापदम् । कः कर्ता ? 'सिद्धान्तः । कस्यै ? ' अहितहतये ।। स इति तच्छब्दसाहचर्यात् यच्छब्दघटनामाह-यं सिद्धान्तं जिनेन्द्रः-तीर्थकृत् अख्यापयत्-ख्यापितवान् । अत्रापि 'अख्यापयत्' इति क्रियापदम् । कः कर्ता ? 'जिनेन्द्रः।। के कर्मतापत्रम् ? 'यम् । कथंभूतो जिनेन्द्रः? 'सद्राजीवः । सम्ति-शोभनानि राजीवानि-सुरकृतान्जानि यस्य स तथा । पुनः कथंभूतः? 'दक्षः' पटुः । कस्मिन् ? 'कविधिषणापादने' कवयः-शास्त्रकाराः तेषां धिषणापादन-प्रतिभाजनने । पुनः कथंभूतः ? 'अकोपमानः न विद्यते कोपमानौ-क्रोधाहंकारौ यस्य स तथा । पुनः कथं० १ . अनेकोपमान:' अनेकानि-अपरिमितानि उपमानानि-समुद्रचन्द्रादीनि यस्य स तथा। एतानि सर्वाण्यपि सद्राजीव इति वर्जितानि प्रथमान्तविशेषणानि सिद्धान्तस्यापि युज्यन्ते । 'च' पुनरर्थे । यं सिद्धान्तं विहायःसद्राजी' विहायासदो-देवाः तेषां राजी-पतिः मोदाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org