________________
स्तुतिचतुर्विशतिका
[८ श्रीचन्द्रप्रभ दस्य तकारः । इकार उच्चारणार्थः । 'दिबादावट ' ( सा० स० ७०७ ) इत्यत् । अप् कर्तरि' । सा० सू० ६९१ ) इत्यप् । तथाच 'अहत् । इति सिद्धम् । अत्र ' अवहत् । इति क्रियापदम् । का की ! । या । किं कर्मतापन्नम् । धर्मचक्रम् । ' जयदं ' जयं-अभ्युदयं ददाति तत् जयदम् । इदमवतारस्यापि विशेषणं घटते । धर्मचक्रं किं कुर्वत् १ । रञ्जयत् । रञ्जयतीति रज्जयत्-रक्तीकुर्वत् । के कर्मतापन्नम् ? । रविं-सूर्यम् । यतः कथंभूतं धर्मचक्रम् ? । ' दावतारं ' दाव:-वनवह्निः तद्वत् तारउज्ज्वलम् । " दवो दाव इवाख्यातो, वनाग्निवनयोरपि” इति विश्वः । " दवदावौ वनारण्यवह्नी" इत्यमरः (श्लो० २७४७)।" दवो दावो वनवह्निः" इति हैमः ( का० ४, श्लो० १६७ )। धर्मचक्रस्य रक्तप्रभासम्पर्कात् सहस्रकिरणोऽपि रक्तिमानं मनतीति भावः । पुनः कथंभूतम् ? । ' अमितरुक्' अमिता-इयत्तानवच्छिन्ना सा चासौ रुक्-द्युतिर्यस्य तत् तथा । अधवा रञ्जयदमितरुगित्यक्षतमेव धर्मचक्रस्य विशेषणम् । सारविन्देति च जिनराज्या विशेषणम् । तदा चायमर्थः-रञ्जयन्ती-जनानां रागमुत्पादयन्ती अमिता रुग् यस्य तत् तथा । सारं-बलं विन्दते-लभते इति सारविन्दा । बतेति विस्मये । “ खेदानुकम्पासन्तोषविस्मयामन्त्रणे बत" इत्यमरः ( श्लो० २८२३ )। कथम् । अरं-शीघ्रम् । " अरं शीघे च चक्राङ्गे, शीघ्रगे पुनरन्यवत् " इति विश्वः ॥२॥
- जीयादिति । सा जिनानां-तीर्थकराणां राजी श्रेणी जीयात् इत्यन्वयः । 'जीयात्' इति क्रियापदम् । का की? । 'राजी' 'जीयात्' जीव्यात्? । केषाम्? । 'जिनानाम्' । किंविशिष्टा जिनानां राजी? । अरविन्दैः-सुरनिर्मितकमलैः सहिता ‘सारविन्दा' । पुनः किंवि० जिननां राजी? । 'सत्यागा' त्यागो-दानं तेन सहिता सत्यागा । सदाना इत्यर्थः । पुन: किंवि० जिनानां राजी? । 'सा' प्रसिद्धा । सा का?। या जिनानां राजी अरं-अत्यर्थं धर्मचक्रं अवहत् इत्यन्वयः । 'अवहत्' इति क्रियापदम् । का की? । 'जिनानां राजी' । 'अवहत्' वहति स्म । किं कर्मतापन्नम्? । 'धर्मचक्रम्' । किंविशिष्टं धर्मचक्रम्? । 'सत्यागारं' सत्यगृहम् । पुनः किंवि० धर्मचक्रम्? । 'जयदं' जयप्रदम् । पुनः किंवि० धर्मचक्रम्? । अमिता-अमाना रुककान्तिः यस्य तत् 'अमितरुक्' । पुनः किंवि० धर्मचक्रम्? । दावोदववन्हिः तद्वत् तारं-उज्ज्वलं प्रभाभासुरत्वात् 'दावतारम्' । जिनानां राजी किं कुर्वती? । 'कृतवती' निष्पादितवती, कं कर्मतापन्नम्? । 'अवतारं' जन्म। कस्याम्? । 'भुवि' पृथिव्याम् । कया? । भव्याः - भाविकाः तेषां उद्धृतिः-उद्धरणं भव्योद्धृतिः तया 'भव्योद्धृत्या' । धर्मचक्रं किं कुर्वत्?। 'रञ्जयत्' अनुकुर्वत् - रागीकुवत् । कं कर्मतापन्नम्?। 'रविं' सूर्यम् । पुनः किंविशिष्टं धर्मचक्रम्?। इता-गता रुक्-रोगो यस्मात् तत् ‘इतरुग्' । अवतारधर्मचक्रयोः चत्वार्यपि विशेषणान्यवगम्यानि । इति पदार्थः ॥
अथ समासः-जननं च ज्यानिश्च जननज्यानी, जननज्यान्योहानिः जननज्यानिहानि, अनिता जननज्यानिहानिर्यया सा जनितजननज्यानिहानिः । सद्भयो हितं सत्यं, सत्यस्य अगाएं सत्यागारं, तत् सत्यागारम् । जयं ददातीति जयदं, तत् जयदम् । इता-गता रुजः-रोगा यस्मात् तत् इतरुक । अरविन्दैः सहिता सारविन्दा । अवतीर्यते इत्यवतारः, त अवतारम् । मवाय योग्या मण्यार, भव्याना उदृतिः (भव्योद्धृतिः) तया भव्योद्धृत्या।धर्मस्य धर्मार्थ वा चक्र धर्मचक्रं, तत् धर्मचकम् । गेन सहिता सत्यागा । रञ्जयतीति रञ्जयत् । न मिता अमिता, अमिता रुक्-कान्तिः यस्य तत् अमितरुक् । दाववत् तारं दावतारम् । आली-पाली-सखी-श्रेणी-राजी-पंक्ती-वीथी इत्यादयः शब्दा दीर्घकारान्ताः
[इति] शब्दाणेवे सन्ति ॥ इति द्वितीयवत्तार्थः॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org