________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका 'दावतारं' दावो-वनवह्निः " दवो दावो वनवह्निः" इत्यभिधानचिन्तामणिवचनात् (का० ४, श्लो० १६७ ) तद्वत् तारं-उज्ज्वलम् । अत्रायं भाव:-धर्मचक्रस्य रक्तप्रभा व्योम्नि प्रसरति, तस्याः संपर्कात् सहस्रकिरणोऽपि रक्तिमानं भजतीति । पुनः कथं० १ 'अमितरुकू' अमिताअपरिमिता रुक्-द्युतिर्यस्य तत् तथा। अथवा 'रञ्जयदमितरुक्' इत्यक्षतमेव धर्मचक्रस्य विशेषणम् । सारविन्देति च जिनराज्या विशेषणम् । तदा चायमर्थः-रञ्जयन्नी-जनानां रागमुत्पादयन्ती अमिता रुक् यस्य तत् तथा । सारं-बलं विन्दते-लभत इति 'मारविन्दा'। बतेति विस्मये । 'अरं' शीघ्रम् । एतद्याख्यानपक्षे तु येति यच्छब्दस्य सहचारी सेति तच्छब्दोऽध्याहार्यः॥
__ अथ समास:-जननं च ज्यानिश्च जननज्यानी 'इतरेतरद्वन्द्वः'। जननज्यान्योहानिर्जनक 'तत्पुरुषः । जनिता जननज्यानिहानिर्यया सा जनितज 'बहुव्रीहिः। सत्यस्य अगारं सत्यागारं 'तत्पुरुषः।। जयं ददातीति जयदं तत्पुरुषः । तज्जयदम् । इता रुजो यस्याः सा इतरुक् 'बहुव्रीहिः' । सह अरविन्दैवर्तते या सा सारविन्दा ' तत्पुरुषः । भव्यानामुद्धृतिः भव्योद्धृतिः 'तत्पुरुषः । तया भन्यो । धर्मेणोपलक्षितं चक्रं धर्मचक्रं ' तत्पुरुषः । सह त्यागेन वर्तते या सा सत्यागा 'तत्पुरुषः । अमिता रुक् यस्य तत् अमितरुक् ' बहुव्रीहिः'। दाववत् तारं दावतारं 'तत्पुरुषः । तद् दावतारम् । अथवा अमिता चासौ रुक् च अमितरुक् 'कर्मधारयः । रञ्जयन्ती अमितरुक् यस्य तत् रञ्जयद० 'बहुव्रीहिः'। सारं चिन्दतीति सारविन्दा 'तत्पुरुषः॥ इति काव्यार्थः ॥२॥
सि. ४०-जीयादिति । जिनानां-तीर्थकृतां सा राजी-श्रेणी जीयात्-जयत्वित्यर्थः । नि जये' धातो: 'आशिषि' (सा०सू०७१८) इत्याशिषि यादौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् । 'ये' (सा० सू० ७७९) इति सूत्रेण दीर्घः । तथाच 'जीयात्' इति सिद्धम् । अत्र 'जीयात्' इति क्रियापदम् । का कर्वी १ । राजी । केषाम् ! । जिनानाम् । कथंभूता राजी । 'जनितनननज्यानिहानिः' जनिता-कृता जननानां-लोकानां ज्याने:-जरायाः हानिः-विनाशो यया सा तथा । यद्वा जननं च ज्यानिश्च जननज्यानी-जन्मजरसी ' इतरेतरद्वन्द्वः', ततः जनिता-उत्पादिता जननज्यान्योर्हानिर्यया सा तथेत्यर्थः । पुनः कथंभूता ? । 'सत्यागारं' सत्यस्य-सूनृतस्य अगारं-गृहं, अनहल्लिङ्गोऽयम् । पुनः कथंभूता ! । 'इतरुक् ' इता-गता रुजो-रोगा यस्याः सा इतरुक् । पुन: कथंमता ? । “सारविन्दा' अरविन्दैः-देवविरचितकनककमलैः सह वर्तते या सा सारविन्दा । पुनः । कथंभूता ! । कृतवती-विहितक्ती । किं कर्म ?। अवतारं-जन्मग्रहणम् । कस्याम् ! । भुवि-पृथिव्याम् । कथा ! । ' मन्योद्धृत्या' मन्यानां-मोक्षप्रापणयोग्यसत्त्वानां उद्धृतिः-उद्धरणं भवोद्धरणरूपा तया हेतुभूतया । पुनः कथंभूता ? | 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा सत्यागा । सेति तच्छन्दसम्बन्धाद् यच्छब्दघटनामाह-या जिनानां राजी 'धर्मचक्र ' धर्मसमयोत्पन्नं रथाङ्गं अवहत्-बमारेत्यर्थः । वह प्रापणे' धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषकवचनं दिए । 'वावसाने ' ( सा० स० २४०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org