SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ८८ स्तुतिचतुर्विशतिका [८ श्रीचन्द्रप्रम तमासम्बन्धिविस्फूर्जितानाम्, तमासम्बन्धीनि तामसानि तानि च तानि उजाम्भतानि चेति 'कर्मधारयः, तेषाम् । 'दितायासमान !' इति । आयासः-संसारखेदः मानः-चित्तोन्नतिः अनयोः पूर्व 'द्वन्द्वः', तेन दितीछिन्नौ आयासमानौ येन स तस्यामन्त्रणम् । “छिन्ने लूनं छितं दितम्' इत्यभिधानचिन्तामणिः (का०६, श्लो० १२५)। 'प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !' इति । पृथवो वितताः स्पष्टाः-सम्यगवबोध्या: दृष्टान्ता-उदाहरणानि हेतवः-साध्यगमका: ऊहा-वितर्काः यत्र स तथा, ततः एवंविधः प्रकटित:-प्रकाशितः अर्थानां नित्यत्वात् (?) अनेकान्तः-स्याद्वादो येन स तस्यामन्त्रणम् । 'असमान !, इति । नास्ति सर्वेभ्यः उत्कृष्टत्वात् समानः-सदृशो यस्य तस्यामन्त्रणम् । एतानि सर्वाणि भगवतः सम्बोधनपदानि । इति प्रथमवृसार्थः॥१॥ जिनेश्वराणां नुतिः जीयाद् राजी जनितजननज्यानिहानिर्जिनानां सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् । भव्योवृत्या भुवि कृतवती याऽवहद् धर्मचक्रं सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् ॥ २ ॥ -मन्दा . ज० वि०-जीयादिति । जिनानां-तीर्थकृतां सा राजी-श्रेणी जीयाव-जयत्विति क्रियाकारकसंयोगः।अत्र' जीयाद्' इति क्रियापदम् ।का की ? 'राजी' केषां ? 'जिनानाम् ।।राजी कथंभूता ?'जनितजननज्यानिहानिः' जनिता-कृता जननाना-लोकानां ज्याने:-जरायाः हानि:विनाशो यया सा तथा । पुनः कथं० १'सत्यागारं' सत्यस्यागारं-गृहम् । पुनः कथं० ? ' इतरुक्' इता-गताः रुजो-रोगाः यस्याः सा तथा । पुनः कथं० १ : सारविन्दा' सह अरविन्दैःसुरनिर्मितनवकनककमलैः वर्तते या सा तथा । पुनः कथं० १ 'कृतवती' विहितवती। कं कर्मतापमम् ? ' अवतारं ' जन्मग्रहणम् । कस्यां ? ' भुवि' पृथिव्याम् । कया ? ' भव्योवृत्या' भव्यानां-भव्यप्राणिनां उद्धृतिः-भवोत्तारणरूपा तया हेतुभूतया । पुनः कथं० ? 'सत्यागा' सह त्यागेन-दानेन वर्तते या सा तथा । सेति तच्छब्दसम्बन्धादयच्छब्दघटनामाह-याजिनानां राजी 'धर्मचक्रं ' धर्मसमयोत्पन्नं रथाङ्गम् अवहत-बभारेति क्रियाकारकयोजना । अत्र · अवहत् इति क्रियापदम् । का की ? 'या' । किं कर्मतापत्रम् ? 'धर्मचक्रम् । कयंभूतम् धर्मचक्रम् ? 'जयदं' अभ्युदयदायि । इदमवतारस्यापि विशेषणं घटते । धर्मचक्रं किं कुर्वत् ! 'रञ्जयत्' रक्तीकुर्वत् । कं कर्मतापनम् ? 'रवि' सहस्रकिरणम् । पुनः कथंभूतं धर्मचक्रम् ?. 1 'सारविन्दा वतारम् ' इत्यपि पदच्छेदः समीचीनः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy