________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका
ऊह इत्यन्यत्र विस्तरः । हे 'असमान !' न विद्यते समानो यस्य सः असमानः 'बहुव्रीहिः' तस्य सम्बोधनं हे असमान ! इत्यर्थः ॥१॥
सौ० वृ०-यः शोभनपावों भवति तस्य चन्द्रवत् प्रभा भवति । अनेन संबन्धेन आयातस्य श्रीचन्द्रप्रभनामाष्टमजिनस्य स्तुतेरों निर्णीयते। तुभ्यमिति।
हे चन्द्रप्रभ !-हे चन्द्रकान्ते ! धवलवर्णत्वात् सौम्यत्वाच्च । हे जिन ! तुभ्यं - भवते नमः अस्तु इत्यन्वयः । 'अस्तु ' इति क्रियापदम् । किं कर्तृ ? ' नमः, प्रणामः । 'अस्तु' भवतु । कस्मै ? । 'तुभ्यम्' । किंभूताय तुभ्यम् ? । 'वन्दिताय' स्तुताय प्रणमिताय । कया? । 'विद्वत्पंक्तया' पण्डितश्रेण्या। किंभृतया विद्वत्पंक्तया ? । नास्ति अलसं-आलस्यम् मदो-दर्पः यस्याः सा अनलसमदा तया 'अनलसमदया। हे 'दयावन् !' हे कृपायुक्त! हे 'असमान !' हे निरुपम ! कान्तो-दीप्यमानः यः अनलो-वन्हिः तस्य समा-सदृक्षः कान्तानलसमः तस्य संबोधन हे 'कान्तानलसम!' । कस्मिन् ? । 'हाने' अपगमे । केषाम् ? ।' तामसोज्जृम्भितानाम् ' तामसानां-अज्ञानमिथ्यात्वतिमिराणां यानि उज्जृम्भितानि-प्रफुल्लितानि तामसोज्जम्भितानि तेषां, तामसोज्जृम्भितानां हाने-अपगमे दीप्तवह्निकल्प ! इत्यर्थः । हे 'दितायासमान !' दितः-छेदितः आयासः-प्रयासः मानः
। प्रकटिता:-स्पष्टीभूताः पृथव:-विस्तीर्णाः स्पष्टाः-प्रकटाः दृष्टान्ताः-संबन्धा उपनया वा हेतवः-कारणानि ऊहा-वितर्काः यस्मिन् स तादृशो योऽनेकान्तः-स्याद्वादः-एकस्मिन् वस्तुनि अनेकधर्मप्रतिभासनं श्रद्धानं वदनं स्याद्वादः-अनेकान्तः प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तः तस्य सं० हे प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्त !'। हे 'अनलस' हे सोद्यम!। एतादृशाय चन्द्रप्रभाय जिनाय नमः। इति पदाथे॥ अथ समासः-चन्द्रवत प्रभा यस्य स चन्द्रप्रभः, चन्द्रप्रभश्चासौ जिनश्च चन्द्रप्रभजिनः, तस्य
भिजिन! । तमसः इमानि तामसानि. तामसानां उज्जम्भितानि तामसोज्जम्भितानि, तेषां तामसोज्जृम्भितानाम् । कान्तश्चासौ अनलश्च कान्तानलः, कान्तानलस्य समः कान्तानलसमः, तस्य सं० हे कान्तानलसम !। दया विद्यते यस्य असौ दयावान्, तस्य सं० हे दयावन् ! । आयासश्च मानश्च आयासमानौ, दितौ आयासमानौ येन स दितायासमानः, तस्य सं० हे तिायासमान ! । विवेद इति विद्वान्, विदुषां पंक्तिः विद्वत्पंक्तिः, तया विद्वत्पंक्तया। दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः, स्पष्टा
रान्तहेतहाः स्पष्ट दृष्टान्तहेतहाः, पृथवश्च ते स्पष्ट दृष्टान्तहेतूहाश्च पृथुस्पष्टदृष्टान्तहेतूहाः, प्रकटिता: स्पष्टदृष्टान्तहेतूहाः यस्मिन् स प्रकटितपृथुस्पष्टदृष्टान्तहेतूहः, प्रकटितपृथुस्पष्टदृष्टान्तहेतूहश्चासौ अनेकान्तो यस्य [स] यस्मिन् वा (स) प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तः, तस्य सं० हे प्रकटितपृथुस्पष्टदृष्टान्सहेतूहानेकान्त!। अलसश्च मदश्च अलसमदौ, न विद्यते अलसमदौ यस्याः सा अनलसमदा, तया अनलस
त्त समानो यस्य सः असमानः तस्य सं० हे असमान! । यद्वा नास्ति अलसमदौ यस्य सः अनलसमदः, तस्य सं० हे अनलसमद ! 'यावन्दिताय' यया-लक्ष्म्या लक्ष्मणामात्रा वा वन्दितः, तस्मै यावन्दिताय । इत्यपि छायार्थः ॥ इति प्रथमवृत्तार्थः॥१॥ अस्मिन् वृत्ते मन्दाक्रान्ताच्छन्दः॥
दे० व्या०-तुभ्यमिति । हे चन्द्रप्रभ ! जिन ! तुभ्यं नमः-नमस्कारः, अस्वित्यध्याहारः । किंविशिष्टाय तुभ्यम् ? । वन्दिताय-ममस्कृताय । कया ?।' विद्वत्पक्त्या ' विदुषां-पण्डितानां पंक्तिः-श्रेणिः तया । किविशिष्टया विद्वत्पङ्क्त्या ? । 'अनलसमदया' अलस:-आलस्य मदो-मुन्मोहसम्भेदः अनयोः पूर्वं 'द्वन्द्वः', ततो न स्तः अलसमदी यस्याः सा तथेति समासः । 'दयावन् !' इति । दया-कृपा अस्त्यस्मिन्निति दयावान्, तस्यामन्त्रणम् । 'कान्तानलसम!' इति । कान्तः-कमनीयो जाज्वल्यमान इतियावत् यः अनल:-वाहः तेन गमः-तुल्यो यः स तस्यामन्त्रणम् । कस्मिन् ? । हाने-विनाशने । केषाम् । 'तामसोज्जम्भितानाम्।
१ अयं पाठश्चिन्तनीयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org