________________
८६
स्तुतिचतुर्विशतिका
[८श्रीचन्द्रप्रमयासमान आयासश्च मानव मानं च वा आयासमानौ आयासमाने वा इतरेतरद्वन्द्वः ।दितौ दिते वा आयासमानौ आयासमाने वा येन स दितायासमानः 'बहुव्रीहिः । तत्संबो० हे दिता० । विदुषां पंक्तिर्विद्वत्पंक्तिः । तत्पुरुषः । । तया विद्व० । पृथवश्च ते स्पष्टाश्च पृथुस्पष्टाः ‘कर्मधारयः ।। दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः । इतरेतरद्वन्द्वः' । पृथुस्पृष्टा दृष्टान्तहेतूहा यस्मिन् (स) पृथुस्प० 'बहुव्रीहिः पृथुस्पष्टदृष्टान्तहेतूहश्वासावनेकान्तश्च पृथुस्पष्ट० कर्मधारयः। प्रकटितः पृथुस्पष्टदृष्टान्तहेतुहानेकान्तो येन स प्रकटितपृथु० 'बहुव्रीहिः' । तत्संबोधनं हे प्रकटितपृथु० । अलसश्च मदश्च अलसमदौ — इतरेतरद्वन्दः' । न विधेते अलसमदौ यस्याः सा अनलसमदा ‘बहुव्रीहिः' । तया अनलस। न विद्यते समानो यस्य सोऽसमानः 'बहुव्रीहिः' । यद्वा सह मानेन वर्तते यः स समानः 'तत्पुरुषः'।तत्संबो० हे असमान ( इति काव्यार्थः ॥१॥
सि. वृ०--तुभ्यमिति । चन्द्रस्येव सौम्या प्रमा यस्येति चन्द्रप्रमः । गर्मस्थेऽस्मिन् मातुश्चन्द्रपानदोहदोऽभूदिति वा चन्द्रप्रभः, स चासौ जिनश्च तस्य सम्बोधनं हे चन्द्रप्रभजिन ! । तुभ्यं-भवते नमः-नमस्कारः, अस्त्विति क्रियाध्याहारः । ततश्च — अस्तु । इति क्रियापदम् । किं कर्तृ ! । नमः । नम इति नमस्कारार्थकमव्ययम् । कस्मै ? । तुभ्यम् । 'तुभ्यं मह्यं ङया' (सा० स० ३३४) इति युष्मच्छब्दस्य चतुर्येकवचने तुभ्यमित्यादेशः । कथंभूताय तुभ्यम् ? । वन्दिताय । ' वदि आमिवादनस्तुत्योः 'कया है। 'विद्वत्पत्त्या ' विदुषां-धीमतां पंक्ति:-ततिः तबा । कथंभूतया ? । ' अनलसमदया' अलसश्च मदश्च अलसमदौ । इतरेतरद्वन्द्वः, न विद्यते अलसमदो-तन्द्राहकारौ यस्याः सा तथा तया । अत्र यद्यपि अलसशब्देन धर्मी आलस्यशब्देन च धर्मः, यदाह-"आलस्यः शीतकोऽलसोऽनुष्णः'' (अमर० श्लो० १९६५) तथा " आलस्यं तन्द्रा कौसीधे " ( अभि० का० र, श्लो० २२९ ) इति दर्शनाच्च तथापि धर्मधर्मिणोः कथंचिदमेदादलसशब्देनाप्यालस्यमेव प्रतिपाद्यमिति सर्व समञ्जसम् । अपराणि सर्वाण्यपि श्रीचन्द्रप्रभस्य सम्बोधनानि । तेषां त्वेवं व्याख्या हे 'कान्तानलसम, कान्तः कमनीयः यः अनल:वह्निः तेन समः-सदृशस्तस्य सम्बोधनं हे कान्ता० । कस्मिन् ! । हाने-विनाशने | केषाम् ? । ' तामसोज्जम्मितानां' तामसानि-तमासम्बन्धीनि यानि उज्जम्मितानि-विस्फूर्जितानि तेषाम् । हे 'दयावन् ! " दया-घृणा विद्यते यस्यासौ दयावान्, तस्य सम्बोधनं हे कृपयान्वित !| हे 'दितायासमान !" आयासः-खेदः मानः-गर्वः, आयासश्च मानश्च आयासमानौ 'इतरेतरद्वन्द्वः', तौ दितौ-खण्डितौ आयासमानौ येन स तथा, तस्य सम्बोधनं हे दिता० । हे प्रकटितपृथुस्पष्टदृष्टान्तहेतू० ! पृथवश्च ते स्पष्टाश्चपृथुस्पष्टयः कर्मधारतः', पृथवो-विततः स्पष्टः-स्फुयः दृष्टान्ताः-निदर्शनानि हेतवः-कारणानि ऊहाः-वितर्काः अनेकान्तः-स्याद्वादः, ततः पृथवः स्पष्टाः दृष्टान्तहेतूहा यस्मिन् स चासौ अनेकान्तः स प्रकटितःप्रकाशितो येन स तथा तस्य सम्बो० हे प्रकटित० ! दृष्टान्ताश्च हेतवश्च ऊहाश्च दृष्टान्तहेतूहाः 'इतरेतरद्वन्द्वः' पृथवश्व ते स्पष्टाश्च पृथुस्पष्टाः 'कर्मधारयः', ततः प्रकटिताः पृथुस्पष्टदृष्टान्तहेतूहाः येन इति 'बहुव्रीहिः । पर्वतोऽयं वह्रिमानिति प्रतिज्ञा । धूमादिति हेतुः । यो धूमवान् सोऽग्निमान् यथा महानसं इत्युदाहरणम् । अननैवंविधेनावश्यं भवितव्यमित्याकारक उत्कटकोटिकः संशय एव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org