________________
८ श्रीचन्द्रप्रभजिनस्तुतयः अथ चन्द्रप्रमप्रभवे प्रणाम:
तुभ्यं चन्द्रप्रभ ! जिन ! नमस्तामसोज्जृम्भितानां ___ हाने कान्तानलसम ! दयावन् ! दितायासमान !। विद्वत्पतया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायासमान ! ॥१॥
-मन्दाक्रान्ता ( ४, ६, ७) ज० वि०-तुभ्यमिति । हे चन्द्रप्रभजिन !-चन्द्रप्रभाभिध ! तीर्थकर ! तुभ्यं-भवते नमो-नमस्कारः, अस्त्विति क्रियाऽध्याहियते । ततश्च 'अस्तु' इति क्रियापदम्। किं कर्तृ?'नमः॥ कस्मै ? ' तुभ्यम् । कथंभूताय तुभ्यम् ? 'वन्दिताय 'स्तुताय ।कया ? ' विद्वत्पत्या ' पण्डि . तश्रेण्या । कथंभूतया ? ' अनलसमदया' न विद्यते अलसमदौ-तन्द्राहकारौ यस्याः सा तथा तया। अत्र यद्यपि अलसशब्देन धर्मी आलस्यशब्देन च धर्मः, “आलस्यः शीतकोऽलसोऽनुष्णः" (अमर० श्लो० १९६५), तथा 'आलस्यं तन्द्रा कोसीचं' इत्यभिधानचिन्तामणिवचनाद ( का० २, श्लो० २२९ ) तथापि धर्मधर्मिणोः कथंचिदभेदादलसशब्देनाप्यालस्यं प्रतिपाद्यते । अपराणि सर्वाण्यपि श्रीचन्द्रपभस्य संबोधनानि । तेषां चैवं व्याख्या-हे ' कान्तानलसम ! ' कान्तःकमनीयोऽनलो-चन्दिः तेन सम !-सदृश ! । कस्मिन् ? ' हाने । अपगमे । केषाम् ? ' तामसोज्जृम्भितानां । तामसानि-तमासंबन्धीनि यानि उज्जृम्भितानि-विस्फूर्जितानि तेषाम् । हे 'दयावन् ! ' कृपयान्वित ! । हे 'दितायासमान ! ' आयासः-खेदः मानो-गर्वः तो दिवौखण्डितो येन स तथा तत्संबो० हे दिता० । हे 'प्रकटितपृथुस्पष्टदृष्टान्तहेतृहानेकान्त !' पृथयोवितताः स्पष्टा:-स्फुटाः दृष्टान्ता-निदर्शनानि हेत:-कारणानि ऊहा:-वितर्काः अनेकान्त:स्याद्वादः, ततः पृथवः सष्टाः दृष्टान्तहेतूहा यस्मिन् स तादृशः अनेकान्तः स प्रकटित:-प्रकाशिता येन स तथा तत्संबोधनं हे प्रकटित० । हे ' असमान !' अनन्यसदृश ! । यद्वा मान:पूजा तेन सह वर्तमान !।
अथ समासः-चन्द्रवत् प्रभा यस्य स चन्द्रप्रभः । तत्पुरुषः' । चन्द्रप्रभश्चासौ जिनश्च चन्द्रप्रभजिनः 'कर्मधारयः' । तत्संबोधनं हे चन्द्रप्रभ । तमस इमानि तामसानि । तामसानि च तानि उज्जृम्भितानि च तामसोज्जम्भितानि 'कर्मधारयः' । तेषां तामसो० । कान्तश्वासावनलश्च कान्तानल: 'कर्मधारयः'। कान्तानलस्य समः कान्ता० 'तत्पुरुषः। तत्सं० हे कान्ता०1] हे दिता
१ अयं पाठश्चिन्तनीयः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org