________________
जिनस्तुतयः ]
स्तुतिचतुर्विशतिका ज० वि०-दधतीति । हे महामानसि !-महामानसीनामिके ! त्वं इष्टान्-जिनशासनैकाग्रचित्रवृत्तित्वेन पालनीयतयाऽभिमतान् अव-रक्षेति क्रियाकारकसम्बन्धः । अन 'अव' इति क्रियापदम् । का की ? ' त्वम्' । कान् कर्मतापन्नान् ? ' इष्टान् । । अपराणि सर्वाण्यपि महामानस्या देवतायाः सम्बोधनानि । तेषां चैवं व्याख्या-हे 'दधति !' हे धारयमाणे । किं कर्मतापन्नम् ? ' रत्नं ' माणिक्यम् । 'आभास्तभास्वन्नवधनतरवारिं वा ' आभया-कान्त्या अस्तोनिराकृतो भास्वन्नवधनो-दीप्यमाननूतनमेघो येन एवंविधो यस्तरवारिः-खगः तम् । अत्र वाशब्दः समुच्चये । रत्नं आभास्तभास्वन्नवघनतरवारिं चेत्युभयमपि दधतीत्यर्थः। रत्नं कथंभूतम् ? ' रविसपत्नं ' रवे:-सूर्यस्य सपत्न-विपक्षभूतं प्रभाधिक्यात् । आभास्तभास्वन्नवघनतरवारिं कथंभूतम् ? 'घनतरवारिं ' घनतरं-सान्द्रतरं वारि-पानीयं-तेजो यत्र स तथा तम् । हे गतवति ! ' आरूढे!। कस्मिन् ? 'वारणारौ' गजवैरिणि केसरिणीत्यर्थः । वारणारी किं कुर्वति ? 'विकिरति ' विक्षिपति । कां कर्मतापन्नाम् ? ' आली' श्रेणीम् । केषां ? 'अरीणां वैरिणाम् । आली कथंभूताम् ? ' रणारावरीणां' रणसम्बन्धिना रावण-ध्वनिना रीणां-खिन्नाम् । यद्वा रणारावरीणां अरीणां आली विकिरतीति देव्याः सम्बोधनमपि ॥
अथ समासः-रवेःसपत्नं रविसपत्नम् 'तत्पुरुषः'नवश्चासौ घनश्व नवघनः 'कर्मधारय। भास्वांश्वासौ नवघनश्च भास्व० 'कर्मधारयः' । आभया अस्तः आभास्त: ' तत्पुरुषः'। आभास्तः भास्वन्नवघन येन स आभा०'बहुव्रीहिः'। आभास्तभास्वन्नवघनश्चासौ तरवारिश्च आभास्त. 'कर्मधारयः ।।तं आभास्त । रणस्यारावो रणारावः ' तत्पुरुषः'। रणारावेण रीणा रणा० ' तत्पुरुषः' । अतिशयेन घनं घनतरम् । धनतरं वारि यत्र स घनतरवारिः ‘बहुव्रीहिः ।। तं घन । वारणानां अरिः वारणारिः । तत्पुरुषः ।। तस्मिन् वारणारौ । इति काव्यार्थः॥४॥
॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीसुपार्श्वजिनस्तुतेर्व्याख्या ॥७॥ सि० वृ०-दधतीति । हे महामानसि!-महामानसीनामिके ! त्वं इष्टान्-- अभिमतान् अव-रक्षेत्यर्थः। 'अव रक्षणे ' धातोः 'आशीःप्रेरणयोः '(सा० सू० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः। अपकर्तरि । (सा० सू० ६९१) इत्यप् । ' अतः' (सा० सू० ७०५) इति हेलृक् । ' स्वरहीनं० । (सा० सू० ३१ )। तथाच ' अव' इति सिद्धम् । अत्र 'अव' इति क्रियापदम् । का कर्जी ? । त्वम् । कान् कर्मतापन्नान् ? । इष्टान् । अपराणि सर्वाणि महामानस्या देवतायाः सम्बोधनानि । तेषां चैवं व्याख्याहे दधति !-धारयमाणे! । किं कर्म ? । रत्नं-माणिक्यम् । " रत्नं स्वजातिश्रेष्ठेऽपि, मणावपि नपुंसकम् " इति मेदिनी । 'आभाम्तमास्वन्नवधनतरवारिं वा' । अत्र वाशब्दः समुच्चये । तथाच रत्नं 'आभास्तभास्वन्नवघनतरवारिं चेत्युभयमपि दधतीत्यर्थः । आभा-कान्तिः तया अस्त:-निराकृतः मास्वन्नवधनः-दीप्यमाननूतनमेघो येन स एतादृशो यस्तरवारिः-खगस्तम् । “ तरवारिमतः खड्गः" इति धराणः । नवश्चासौ घनश्च नवधनः, मास्वांश्चासौ नववनश्च भास्वन्न वचनः इति पूर्व कर्मधारयः । रत्नं कीदृशम ? । 'रविसपत्नम' रखे -सूर्यस्य सपत्न-विपक्षं रविसपत्नं, प्रभाधिक्यदिति भावः । आभास्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org