SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ स्तुति चतुर्विशतिका [७ श्रीसुपार्श्व किं कर्मतापत्रम् ? । ' उपशमसौख्यं ' शान्तरससुखभावम् । केषाम् ? । 'संयतानां' सम्यक यतनापता साधूनाम् । कथम् ? । 'सदा' सर्वकालम् । एव' निश्चितम् । पुनः किंवि० जिनमतम् ? । आयाम-देयम् अर्थावबोधगहनरूपं तेन हारि-शोभमानम् 'आयामहारि' । पुनः जिनमतं किं कुर्वत । 'वासयत् ' वासं ददत् । कस्मिन् ? । सिद्धिः अक्षयसुखप्राप्तिलक्षणा, सकलकर्माभावं मोक्षं तदेव वासंवसतिस्थानं सिद्धिशिलानामकं तस्मिन् ‘सिद्धिवासे'। कान प्रति ? । जननं-जन्म भरण-मृत्युः ताभ्यां रीणा:-क्षीणाः जननमरणरीणाः तान् 'जननमरणरीणान' एवंविधान् जनान् । किविशिष्टे सिद्धिवासे ?। 'अरुजि' अरोगे इत्यर्थः। पुनः किंविशिष्टं जिनमतम् ? । कामः-स्मरः मायाकपटता तयोःमहत् अरि-चक्रमिव चक्रम् । यद्वा महान अरिः शत्रुरिव शत्रुः ‘काममायामहारि'। एवंविधं जिममतं नमत इति पदार्थः ॥ अथ समास:-दिशतीति दिशत् । सुखस्य भावः सौख्यम्, उपशमस्य सौख्यं उपशमसौख्यम्। तद् उपशमसौख्यम्। सम्यक प्रकारेण यताः संयताः, तेषां संयतानाम् । जिनानां मतं जिनमतं, तत् जिनमतम् । आयामेन हारि आयामहारि। जननं च मरणं च जननमरणे, जननमरणाभ्यां रीणाः जननमरणरी जननमरणरीणान् । वासयतीति वासयत् । सिद्धिरेव वासः सिद्धिवासः, तस्मिन् सिद्धिवासे । न विद्यन्ते रुजो-रोगा यस्मिन तत् अरुक, तस्मिन् अरुजि ! कामश्च माया च काममाये, महत् च तत् अरि च महारि, काममाययोः महारि-चक्रमिव चकं काममायामहारि । यद्वा काममाययोः महान अरिः-शत्रुरिव शत्रुः यत् तत् काममायामहारि ॥ इति तृतीयवृत्तार्थः ॥ ३॥ दे० व्या०-दिशदिति । हे जनाः ! यूयं जिनमतं-भगवत्सिद्धान्नं अरं-अत्यर्थ नमत-प्रणमनेत्यन्वयः । 'णम प्रव्हीभाने ' धातुः । 'नमत ' इति क्रियापदम् । के कर्तारः? । यूयम् । किं कर्मतापन्नम् । 'जिनमतम्' जिनानां मतं जिनमतमिति विग्रहः। किं कुर्वत् जिनमतम् ? | दिशत्-ददत् । किम् । 'उपशमसौख्यम् । उपशमस्य-क्षमायाः सौख्यं-सुखम् । केषाम् ? । संयतानाम्-ऋषीणाम् । कथम् । संदेव-अनवरतम् । किंविशिष्टं जिनमतम् ? । उह-प्रौढम् । पुनः किंविशिष्टम् ? । उदारं-स्फारम् । पुनः किंविशिष्टम् । 'काममायामहारि'काम--अत्यर्थ आयामेन-विस्तारण हारि-मनोहरम् ।"देय॑मायाम आनाहः" इत्यभिधानचिन्तामणिः (का०६, श्लो०६७)। पुनः किविशिष्टम् । 'काममायामहारि' कामः-अनङ्गः माया-निकृतिः अनयोर्द्वन्द्वः, तयोः महारि-प्रकृष्टदुर्जनम् । जिनमतं किं कुर्वत् ? । वासयत्-वासं कारयत् । कान् ? । 'जननमरणरीणान् जननं-जन्मग्रहणं मरणं-शरीरत्यागः अनयोर्द्वन्द्वः, ताभ्यां रीणान्-खिन्नान, जनानिति शेषः। कस्मिन् ? । सिद्धिवासे-मुक्तिमन्दिरे । कया। मुदा-हर्षेण । इति तृतीयवृत्तार्थः ॥ ३॥ महामानस्याः स्तुतिः दधति ! रविसपत्नं रत्नमाभास्तभास्वन् नवधनतरवारि वा रणारावरीणाम् । गतवति ! विकिरत्याली महामानसीष्टानव धनतरवारिं वारणारावरीणाम् ॥ ४ ॥ --मालिनी १.सकलकर्माभावो मोक्षः स एव वासः' इति प्रतिभाति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy