________________
जिनस्तुतयः
स्तुतिचतुर्विशतिका अथ समासः-उपशमस्य सौख्यं उपशमसौख्यं तत्पुरुषः' । तत् उपशमसौख्यम् । जिनानां मतं जिनमतं ' तत्पुरुषः । तजिन० । आयामेन हारि आयामहारि 'तत्पुरुषः । तत् आयाम । जननं च मरणं च जननमरणे 'इतरेतरद्वन्द्वः' । जननमरणाभ्यां रीणा: जनन० 'तत्पुरुषः' । तान् जनन । सिद्धिरेव वासः सिद्धिवासः । कर्मधारयः । तस्मिन् सिद्धि । कामश्च माया च काममाये । इतरेतरद्वन्द्वः । । महांश्चासौ अरिश्च महारिः ‘कर्मधारयः । काममाययोर्महारिः काम० ' तत्पुरुषः । तत् काम । यदिवा कामश्च माया च आमश्च काममायामाः ' इतरेतरद्वन्द्वः।। काममायामान हरतीति काम ' तत्पुरुषः । तत् काम० ॥ इति काव्याथः ॥३॥
सि० वृ०-दिशदिति । भो भव्याः! यूयं जिनमतं-भगवच्छासनं मुदा-हर्षेण सदा-निरन्सरमेव अरं-शीघ्रं काम-अत्यर्थ नमत-प्रणमतेति क्रियाकारकसम्बन्धः। णम प्रह्वीमावे' धातोः ' आशी:प्रेरणयोः। (सा० सू० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं त । 'अप्०' (सा० स० ६९१), 'स्वरहीनं० ' ( सा० सू० ३६), ' आदेः प्णः स्नः' (सा० स० ७४८) इति णकारस्य नकारः । तथाच 'नमत' इति सिद्धम् । अत्र 'नमत ' इति क्रियापदम् । के कर्तारः । यूयम् । किं कर्मतापनम् !! 'जिनमतं ' निनानां मतं जिनमतं इति । तत्पुरुषः । " मतं पूजितसंमते " इति विश्वः । कया ? | मुदा । कथम् ? । सदैव । पुनः कथम् ? । अरम् । पुनः कथम् ! । कामम | "कामं प्रकामेऽनुमतावस्थानुगमेऽपि च " इति विश्वः । जिनमत किं कुर्वत् ! । 'दिशत् ' दिशतीति दिशत् ददादित्यर्थः । किं कर्मता. पन्नम् ? ।' उपशमसौख्यम् ' उपशमस्य सौख्यं उपशमसौल्यम् । तत्पुरुषः । प्रशमसुखामित्यर्थः । केषाम् ? । संयतानां अपीणाम् । कथंभूतं जिनमतम् ?। उरु-विशालम् । पुनः कथंभूतम् ! । उदारमहत् । “ उदारो दातृमहतोः " इत्यमरः ( श्लो० २७१९ ) । पुनः कयंभूतम् ? । ' आयामहारि ' आयामेन -दैर्येण हारि-चारु । " दैय॑मायाम आरोहः, परिणाही विशालता" इत्यमरः (श्लो. १३०२) । हेमचन्द्रोऽप्यवोचत् (का०६, श्ला०६७) पुनः किं कुर्वत् ? । वासयत्-स्थापयत् ! कान ? । 'जननमरणरीणान् ' जननं च मरणं च जननमरणे · इतरतरद्वन्द्वः', जननमरणाभ्यां--जन्ममृत्युभ्यां रीणान्-श्रान्सान् जननमरणरीणान् इति तत्पुरुषः । "स्यन्ने गणं स्नुतं स्रुतं" इति हैमः (का० ६, श्लो० १३२ )। कस्मिन् ? । सिद्धिवासे-मोक्षसद्मनि । सिद्धिरेव वासः सिद्विवासः तस्मिन् सिद्धिः । कथंभूते ।। अरुजि नास्ति रुक-रोगो यस्मिन् म तथा तस्मिन् । पुनः कथंभूतं जिनमतम् ! । ' काममायामहारि ' कामः-स्मरः माया-कषायविशेषः कामश्च माया च काममाये । इतरेतर द्वन्द्वः' तयोः महांश्चासावरिश्च इति — कर्मधारयः । तत् तथा, बृहदमित्रभुतमित्यर्थः । महाचक्र वा। यदिवा कामश्च माया च आमो-रोगश्च तान् हरतीत्येवंशीलम् । अत्र सदैव अरं काम इति क्रियाविशेषणानि दिशत् वासयदित्यादिष्वपि योज्यन्ते तथापि संमतमेव ॥ ३ ॥
सौ. वृ०-दिशदिति । भी भव्याः ! जिनमतं-तीर्थकरप्रवचनं यूयं नमत इत्यन्वयः। 'नमत ' इति क्रियापदम् । के कर्तारः ? । 'यूयम्' । 'नमत ' प्रणमत । किं कर्मतापत्रम् ? । 'जिनमतम्'। कया ? | 'मुदा' हर्षेण । कथम् । 'अरं' अत्यर्थम् । जिनमतं किं कुर्वत् ? । 'दिशत् ' दर्शयत् दवत् वा।
१ अयं विग्रश्चिन्तनीय इव प्रतिभाति ।
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org