SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ स्तुतिचतुर्विशतिका [७ श्रीसुपार्श्व कों ? | जिनतति 'जिनाना तति जिनतति इति समास । कस्मिन ? । गोचरे । कस्याः । चित्तवृत्ते. चित्तस्य वृत्ति -व्यापार तस्या । केपाम् ।बः। किविशिष्टायाः चिसवृत्तेः ।। 'सदमरसहितायाः । दमस्य-उपशमस्य रसेन सह वर्तन्ते ये ते सदमरसाः अर्थात् मुनयः, तेषां हिता-हितकारिणी तस्याः। यत्तदोर्नित्याभिसम्बन्धात् या जिनततिः व्यहापति-विहारं कृतवतीति सम्बन्धः । ' हा हरणे ' धातुः। 'व्यहार्षीत् । इति क्रियापदम् । का की ? | जिनततिः। किंविशिष्टा जिनततिः। अधिका-प्रकृष्टा। केषाम् ? | मानवानां-लोकानाम् । निर्धारणे षष्ठी। पुनः किंविशिष्टा? 'सदमरसहिता' सन्त:-शोभमाना ये अमरा-देवाःतेः सहिता-संयुक्का। तदुक्तम् 'जधन्यतः कोरिसङ्गया-स्त्वां सेवन्ते सुरासुराः" (वीतरागस्तोत्रे प्र०४, श्लो०१४) इति । न किंविशिष्ट ? 'बोधिकामा' 'बुद्ध ज्ञान' धातः तेन च तदर्थो लक्ष्यते । तथाच बोधं-ज्ञानं काम यते सा तथा । स्वयमवासबोधित्वात् परेषां बोधिः-धर्मप्रदान तत्र कामो-वाञ्छा यस्याः सा तथेति वा । किं कुर्वाणा जिनततिः। दधाना । कम् ? । पदम्-चलनम् । कस्मिन् ?। उपरि । केषाम् । वारिजानाकमलानाम्, मार्गे सुवर्णकमलोपरि चरणधारणात् । किंविशिष्टानां वारिजानाम् ? । नवानाम्-नूतनानाम् । मयोरचितानामितियावत् ॥ इति द्वितीयवृत्तार्थः ॥२॥ जिनमतप्रशंसा दिशदुपशमसौख्यं संयतानां सदैवो रु जिनमतमुदार काममायामहारि ! जननमरणरीणान् वासयत् सिद्धिवासेराज नमत मुदारं काममायामहारि ॥ ३ ॥ —मालिनी ज० वि०-दिश्वदिति । भो भव्याः ! यूयं जिनमतं-भगवच्छासनं मुदा-हर्षेण सदैवनिरंतरमेव अरं-शीनं काम-अत्यर्थ नमत-प्रणमत इति क्रियाकारकसंटङ्कः । अत्र ‘नमत' इति क्रियापदम् । के कर्तारः ? 'यूयम् । किं कर्मतापत्रम् ? जिनमतम् ।। कया? 'मुदा'। कथम् ? 'सदैव' । पुनः कथम् ? 'अरम्' । पुनः कथम् ? ' कामं अत्यर्थम् । जिनमतं किं कुर्वत। 'दिशत् ददत् । किं कर्मतापनम् ? ' उपशमसौख्यं । प्रशमसुखम् । केषाम् ? — संयतानां । साधूनाम् । पुनः कथंभूतं जिनमतम् ? 'उरु , विशालम् । पुनः कथंभूतम् ? ' उदारं' महाशयम् । पुनः कथंभूतम् ? ' आयामहारि ' आयामेन-दैर्येण हारि-चारु । जिनमतं पुनः किं कुर्चत् ? ' वासयत् । स्थापयत् । कान् ? 'जननमरणरीणान् । जन्ममृत्युभिः श्रान्तान् । कस्मिन् ? 'सिद्धिवासे' मोक्षसमनि । कथंभूते ? ' अरुजि ' नीरोगे । पुनः कथंभूतं जिनमतम् ? 'काममायामहारि' काम:-कन्दर्पः माया-कषायविशेषः तयोर्महारि-बृहदमित्रभूतं, महाचर्क वा। यदिवा कामश्च माया च आमो-रोगस्तान् हरतीत्येवंशीलम् । अत्र सदैव अरं काममिति क्रियाविशेषणानि दिशत वासयदिस्यादिष्वपि योज्यन्ते तथापि सम्मतमेव ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy