________________
Homegree]
सतियाविशतिका उपरि-अप्रमागे । केषाम् । वारिजानां सुरमिर्मितकमसामाम् । कथंभूतानाम् ? । नवामां-जनसंख्याकामां नवीनानां वा । उक्तं च
" व्यन्तरा ब्रह्मगुप्तीना-मास्यानीव नव ध्रुवम् । विकासिहैमपद्मानि, स्वामिनोऽग्रे विचक्रिरे ॥ द्वयोर्द्वयोन्यधात् पादौ, चलंस्तेषु जगत्पतिः ।
सुराः संचारयामासुः, सप्तान्यानि पुरः पुरः ॥" इति शान्तिचरित्रे । पुनर्या कथंभूता ! । ' सदमरसहिता' सद्भिः-शोमनैः अमरैः-देवः सहिता--समन्विता।
" अमरा निर्मरा देवा-निदशा विभुषाः सुराः ।
सुपर्वाणः सुमनस-स्त्रिदिवेशा दिवौकसः ।।" इत्यमरसिंहः ( श्लो० १३,१४)। पुनः कथंभूता ? । 'बोषिकामा' बोधिः-धर्मावाप्तिस्तत्र काम:-इच्छा यस्याः सा। तथा बोधिः । इश्तिपौ धातुनिर्देशे । (सा०स० १४७२) इति बुध ज्ञाने' इति धातुस्तेन च तदर्थो लक्ष्यते । तथाच बोधिं-ज्ञानं कामयते सा बोधिकामा इत्यर्थान्तरम् । स्वयमवाप्तबाधित्वादन्येषामिति गम्यते । बोधिकामेत्यनेन विशेषणेन व्यहार्षीदिति क्रियायां प्रयोगनं प्रतिपादितम् ॥ २॥
सौ००-व्रजत्विति । सा-प्रसिया जिनततिः-तीर्थकारराजिः यो-यूष्माकं चित्तवृत्ते-मनो. व्यापारस्य गोचरे-विषये व्रजतु इत्यन्वयः । व्रजतु' इति कियापदम् । का की? | "जिमततिः'। 'व्रजतु' गच्छतु । ' गोचरे ' विषये। कास्याः ?। 'चित्तवृत्तः । केषाम् ! ।' शुष्माकम् । किंविशिष्टा जिनततिः।। 'अधिका' उत्कृटा। केषाम् ? । 'मानवानां ' मनुष्याणाम् । संसारिणां मध्ये इत्यर्थः । किंविशिष्टायाः चित्तवृत्तेः । दमरसा-इन्द्रियविषयदमनलक्षणो दमः तस्य रसो-हर्षः तेन सहिता ये प्राणिनः तेषां हिता-हितक: तस्याः सदमरसहितम्याः' । पुमः किंविशिष्टा जिनततिः ? । 'सा' । सा का ? । या जिनततिः व्यहार्षात् इत्यन्वयः। 'व्यहाति इति क्रियापदम् । का की? । 'या जिनततिः'। 'व्यहार्षीत् । विचरति स्म । जिनप्ततिः किं कुर्वती ? । 'दधाना' स्थापयन्ती । कं कर्मतापलम् । 'पद' चरणम् । कथम् । 'उपरिष्टात् ' । केषाम् ? । 'वारिजाना ' कमलानाम् । किंविशिष्टानां वारिजानाम् ? । 'नवानां' नवसंख्यानाम्, नवीनानां वा । पुनः किं० जिनततिः? । सन्तः शोभनाः ये अमरा-देवाः तैः सहिता-संयुक्ता । पुनः किं० जिनततिः । बोधिः-अहधर्मावाप्तिः तं कामयति ददाति वा बोषिकामा, ते स्वयं प्राप्ताः अन्यानपि प्रापयन्ति । इति क्रियापदार्थः॥ ___ अथ समासः-जिमानां ततिः जिनततिः । चित्तस्य-वृत्तिः चित्तवृत्तिः, तस्याः जिसमः। बमस्य रसः दमरसः, क्मरसेन सहिताः सदमरसाः, सदमरसानां हितं यस्याः सा सदमरसहिता, तस्याः सदमरसहितायाः। अधिका एव अधिका । वारिणि जायन्ते इति वारिजानि, तेषां वारिजानाम् । सन्तश्च ते अमराश सदमराः, सदमरैः सहिता सदमरसहिता । बोधिं कामयते इति बोषिकामा ॥ इति द्वितीयवृत्तार्थः॥२॥
दे० व्या०-व्रजस्विति । सा जिनततिः-जिनपंक्तिः बवयोरक्यात् वः-युष्माकं चित्तवृतेः-मानसन्यापारस्य गोचरे-विषये व्रजतु-गच्छतु इत्यन्वयः। 'बज गतौ इति धातुः। 'अजतु इतिक्रियापदम् ।का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org