________________
स्तुतिमाविशतिका
[७ डिपार्थदमरसेन-असमरसेन वर्तन्ते ये तेषां हितायाः-हितकारिण्याः । जिनततिः कथंभूता ? ' अधिका' उत्कृष्टा । केषाम् ? 'मानवानां 'नराणाम् । अत्र निर्धारणे षष्ठी। यत्तदोरभिसम्बन्धात् सा का ? या जिनततिः व्यहाति-विच्चार । अत्रापि 'व्यहार्षीत् ' इति क्रियापदम् । का की ? 'या'। किंकुर्वाणा सती ? 'दधाना' सती धारयन्ती सती। किं कर्मतापनम् ? 'पदं चरणन्यासम् । कस्मिन् ? ' उपरि' अग्रभागे । केषाम् ? — वारिजानां सुरनिर्मितानां स्वर्णमयानां पङ्कजानाम् । कथंभूतानाम् ? 'नधानों ' नवसंख्याकानां नूतनानां वा । पुनर्या कथंभूता ? ' सदमरसहिता' सद्भिः-शोभनेः अमरैः-देवैः सहिता-समन्विता । पुनः कथंभूता ? 'बोधिकामा' बोधिःधर्मावाप्तिः तत्र काम:-इच्छा यस्याः सा तथा । स्वयमवाप्तबोधित्वादन्येषामिति गम्यते । बोंधिकामेत्यनेन विशेषणेन व्यहाषीदिति क्रियायां प्रयोजनं प्रतिपादितम् ॥
भ समासः-जिनानां ततिर्जिनततिः 'तत्पुरुषः' । चित्तस्य वृत्तिः चित्तवृतिः "तत्पुरुषः । तस्याः चिचत्तेः । दमस्य रसो दमरसः 'तत्पुरुषः' । सह दमरसेन वर्तते या सा सदमरसा ' तत्पुरुषः'। सदपरसानां हिता सदमरसहिता 'तत्पुरुषः । तस्याः सदमरसः । सन्तय ते अमराश्च सदमराः 'कर्मधारयः'। सदमरैः सहिता सदमरसहिता
तत्पुरुषः। तस्याः सदमरसहितायाः। बोधौ कामो यस्याः सा बोषिकामा 'बहुप्रीहिः। ॥ इति काव्यार्थः ॥२॥
सि० १०-वनस्विति । भो भन्याः ! वः-युष्माकं चित्तवृत्तेः' चित्तस्य वृत्तिः स्मरणरूपा तस्याः चित्तवृत्तेरित्यर्थः, गोचरे--विषये सा · जिनततिः' जिनामां-तीर्थकृतां सतिः श्रेणिः धजत-गच्छत्विस्यर्थः । ' व्रज गतौ ' धातोः कर्तरि 'आशीःप्रेरणयोः ' ( सा० सू० ७.३) लोटि परस्मैपदे प्रथमपुरुषैकवचनं तुप् । ' अप्० ' ( सा० स० ६९१), · स्वरहीनं ' (सा० सू०३६ )। तथाच ' बजतु ' इति सिद्धम् । अत्र ' व्रजतु ' इति क्रियापदम् । का की ! । जिनततिः । कस्मिन् !। मोचरे । कस्याः । चित्तवृत्तेः । केषाम् ? । वः । युष्मदः षष्ठीबहुवचने युष्माकमित्यस्य वसादेशः । बवयोरैक्यं तु प्राग्वत् । कथंभूतायाश्चित्तवृत्तेः ? । ' सदमरसहितायाः ' सह दमरसेन-इन्द्रियनियन्त्रणाध्यवसायेन विद्यन्ते ये ते सदमरसाः अर्थान्मुनयस्तेषां हिताया-हितकारिण्याः । कथंभूता जिनततिः ? । अधिकाउत्कृष्टा । केषाम् ! । मानवानां-मनुष्याणाम् । अत्र निर्धारणे षष्ठी । यत्तदोरमिसम्बन्धात् सा का ? । या जिनततिः व्यहार्षीत्-विहारं कृतवतीत्यर्थः । 'हृञ् हरणे' धातोः कर्तरि भूतसामान्ये परस्मैपदे प्रथमपुरुपैकवचनम् । ' भूते सिः' (सा० सू० ७२४), 'दिवादावट ' (सा० सू०७०७), 'णित्पे ' (सा. सू० ७५९) इति सेर्णित्वं णित्वाद् वृद्धिः । 'से:' (सा०सू०७३६) इत्यनेन ईडागमः । 'क्विलात्षः सः कृतस्य' (सा०सू०१४१) तथाच 'व्यहार्षीत्' इति सिद्धम् । अत्रापि 'व्यवहार्षीत्' इति क्रियापदम् । का की। या। किं कळणा सती ! । दधाना सती-धारयन्ती सती । किं कर्मतापन्नम् ? । पद-चरणन्यासम् । कस्मिन् ।
१ भयं पाठों निरर्यका प्रतिभाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org