________________
जिनस्तुतयः]
स्तुतिचतुविशतिका
७७
ऽयशः (१) तत् निरस्तस्मरपरमदमायामानबाधायशः, तत् निरस्तस्मरपरमदमायामानबाधायशः । पर्वविध जन्तुजातं यो जिनः कृतवान् तं सुपार्श्व स्मर इति पदार्थः ॥
अथ समासः-कृता नतिर्येन तत् कृतनति । चकार इति कृतवान् । जन्तूनां जातं जन्तुजातम्, तव जन्तुजातम् । स्मरश्च परेच मदश्च माया च मानश्च बाधा च अयशश्च स्मरपरमदमायामानबाधायशांति, निरस्तानि स्मरपरमदमायामानबाधायशांसि येन तत् निरस्तस्मरपरमदमायामानबाधायशः। सुष्ठ-शोभनं चिरं यथा स्यात् तथा सुचिरम् । अविचलस्य भावः अविचलत्वम् । चित्तस्य वृत्तिः चित्तवृत्तिः, तस्याः चित्तवृत्तेः । सु-शोभनं पार्च यस्य स सुपार्श्वः, तं सुपार्श्वम् । परमो वमो यस्याः सा परमदमा, तस्याः परमदमायाः। मनोः अपत्यं मानवः, तस्य संबो० हे मानव ! । इति मालिनीछन्दसा प्रथमवृत्तार्थः॥१॥
देव्या-कृतनतीति । हे मानव ! त्वं तं सुपाचे सुचिरं-प्रभूतकालं यथा स्यात् तथा स्मर-स्मृतिगोचरीकुरु इत्यन्वयः । 'स्मृ चिन्तायाम्' धातुः । स्मर' इति क्रियापदम् । कः कर्ता त्वम् । कं कर्मतापमम् । सुपार्श्वम् । किंविशिष्टं सुपार्श्वम् । शस्तं-श्लाघनीयम् । किं कृत्वा ? आधाय-विधाय । किम् । अविचलत्वम्-स्थिरत्वम् । कस्याः ।'चित्तवृत्तेः' चित्तस्य वृत्तिः-व्यापारः तस्याः। किंविशिष्टायाःचित्तवृत्तेः।' परमदमायाः । परम:-प्रकृष्टो दमः-इन्द्रियनियन्त्रणाध्यवसायो यस्याः सा तथा । यत्तदोनित्याभिसम्बन्धात् यः सुपार्श्वः जन्तुजात-प्राणिसमूह कृतवान्-निष्पादयामासेत्यन्वयः। 'दुकृ करणे, धातुः । ‘कृतवान्' इति क्रियापदम् । कः कर्ता । सुपार्श्वः। किं कर्मतापमम् ? । 'जन्तुजातम् , जन्तूनां जातं जन्तुजातमिति विग्रहः। किंविशिष्ट जन्तुजातम् । 'निरस्तस्मरपरमदमायामानबाधायशः' स्मर:-कामः परे-शत्रवः मदा-मुन्मोहसम्भेदः माया-कपट मानः अहङ्क ति बाधा-पीडा अयशः - अपकीर्तिः, एतेषां पूर्व 'द्वन्द्वः ततो निरस्तानि-ध्वस्तानि स्मरपरमदमायामानबाधायशोसियेन इति ततीयावानीहिःपुनः किंविशिष्टम् । 'कृतनति' कृता-विहिता नतिः-नमस्कारो येन तत् । यद्वा कृता नतिः-प्रणामो यस्मै तत् । पर. इति शेषः॥ इति प्रथमवृत्तार्थः॥१॥
जिनराज्या ध्यानम्--
व्रजतु जिनततिः सा गोचरे चित्तवृत्तेः
सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत् सदमरसहिता या बोधिकामा नवानाम् ॥ २॥
--मालिनी ज०वि०-व्रजत्विति । भो भव्याः ! वो-युष्माकं चित्तवृत्तेः-स्मृतेः गोचरे-विषये सा निनततिः-तीर्थकृतां श्रेणी व्रजतु-गच्छतु इति क्रियाकारकप्रयोगः । अत्र 'वजतु ' इति क्रियापदम् । का की ? 'जिनततिः। कस्मिन् ? 'गोचरे ।। कस्याः? 'चित्तवृत्तेः।। केषाम् ? ' वः' । बवयोरैक्यं तु माग्वत् । कथंभूतायाश्चित्तवृत्तेः ? 'सदमरसहितायाः । सह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org