________________
७६
स्वतिचतुर्विशतिका
[७ श्रीपार्थ
सि०३०-कृतनतीति । मनोः अपत्यं मानवस्तस्य सम्बोधन हे मानव | त्वं चित्तवृत्तेःचित्तव्यापारस्य अविचलत्वं-एकाग्रतां आधाय-कृत्वा तं सुपार्श्व-सुपार्श्वनामानमर्हन्तं सुचिरं-प्रभूतकालं स्मर-ध्यायेत्यर्थः । मानवेत्यत्र बवयोरैक्यं तु यमकवशादेव । 'स्मृ चिन्तायां ' ' आशीःप्रेरणयोः । (सा. सू० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः । ' अप कर्तरि ' (सा. सू. १९१) इत्यप् , 'गुणः । (सा० सू० ६९२ ) इति सूत्रेण गुणः, ' अतः । (सा० स० ७०५ ) इति हेलक्, ' स्वाहीनं० ' ( सा० सू० ३६ )। तथाच ' स्मर' इति सिद्धम् । अत्र — स्मर' इति क्रियापदम् । कः कर्ता ! । त्वम् । के कर्मतापन्नम् । । सुपार्श्वम् । कथम् ?। सुचिरम् । कथंभूतं सुपार्श्वम् ! । शस्त-शोमनम् । किं कृत्वा ! । आधाय । 'समानकर्तृकयोः [ पूर्वकाले ]' (पा० अ० ३, पा० ४, सू०२१ ) इति क्त्वाप्रत्ययः । क्त्वो ल्यप् अव्ययत्वाच्च विमक्तिलोपः । किम् ? । अविचलत्वम् । कस्य: ।। ' चित्तवृ: । चित्तस्य--मनसः वृत्तिः-व्यापारः इतस्ततो भ्रमणरूपः तस्याः । कथंभूतायाः चित्तवृत्तेः ! ।' परमदमायाः ' परम:-प्रकृष्टः दमः-दमनं यस्याः सा तथा तस्याः । यत्तदोरमिसम्बन्धात् ते कम् ? । यः सुपार्श्वः ' कृलनति ' कृता नतिः-प्रणाम: येन तत् कृत नति जन्तोः-प्राणिनः जातं-- समूह ' जन्तुनातं ' ' निरस्तस्मरपरमदमायामानबाधायश: ' स्मरः-कामः पर-शत्रवः मदो-जात्यायष्टविधः माया-कपटात्मिका मानः--अभिमानः बाधा-पीडा अयश:-दुर्वादः एतानि निरस्तानि-अपनीतानि येन तत् तपाएतादृशं चके-कृतवानित्यर्थः । डुकृञ् करणे' धातोः परोक्षायां कर्तरि आत्मनेपदे प्रथमपुरुषैकवचनम् । कृ ए इति स्थिते, द्विश्व ' (सा० सू० ७१०) द्वित्वम् , 'र:' ( सा० स० ७६८ ! ) इति पूर्वसम्बन्धिनः [ ऋकारस्याकारो मवति ], ' कुहोश्च: ' (सा० सू० ७४६), 'ऋरं' (सा० स० ३९), ' स्वरहीनं०१ (सा० स० ३१)। तथाच चके' इति सिद्धम् । स्मरश्च परे च मदश्च भाया च मानश्च बाघश्च अयशब्ध स्मरपरमदमायामानवाधायशांति 'इतरेतरद्वन्द्वः', ततः निरस्तानि स्मरपरमदमायामानबाधायशासि येन इति ' बहुव्रीहिः ॥ १॥
सौ० वृ०-या पद्मप्रभुः-पद्मभासुरा तस्य पार्श्व-समीपं शोभनमेव भवति । अनेन सम्बन्धेनायाः तस्य सप्तम श्रीसुपार्श्वजिनस्य स्तुतिव्याख्यानं लिख्यते। कृतनतीति।
हे मानव ! त्वं सुपार्श्वजिनं स्मर इत्यन्वयः। 'स्मर' इति क्रियापदम् । कः कर्ता ? । त्वम् । 'स्मर' ध्याय । के कर्मतापमम् ? । 'सुपार्श्व' शोभनपार्श्व, सुपार्श्वनामानं जिनम्। किंविशिष्ट सुपार्श्वम् । 'शस्तं' प्रशस्तम् । किं कृत्वा ? । 'आधाय' संस्थाप्य । किन कर्मतापन्नम् ? । 'अविचलत्व' स्थिरत्वम् । कथम् । 'सुचिरं' शोमनं चिरकालं यथा स्यात् तथा। कस्याः १ । 'चित्तवृत्तेः' मनोव्यापारस्य । किविशिष्टायाश्चिसवृत्तेः ? । परमः-प्रकृष्टो दमो-वशीकृतेन्द्रियव्यापारो यस्याः सा यया वा परमदमा तस्याः 'परमदमाया।पुनः किंविशिष्टं सुपार्श्वम् ?। 'तं' प्रसिद्धम् । तं कम् ? । यो जिनः जन्तुजातं-प्राणिसमूह कृतनति-कृतप्रणामं कृतवान् इत्यन्वयः। कृतवान्' इति क्रियापदम् । कः कर्ता?। 'यः' भगवान् । कृतवान्। विहितवान् । किं कर्मतापन्नम् ? । जन्तुजातम् । किंविशिष्टं जन्तुजातम् ? । कृता नतिः-प्रणामो येन तत् ‘कृतनति'। पुनः किं० जन्तुजातम् । निरस्ता-निराकृताःस्मरः-कामः परे-शत्रवः मदो-दर्पः मायापश्चनात्मिका मानः-अहङ्कारः बाधा-पीडा अयशः-अकीर्तिः निरस्तस्मरपरमदमायामानवाधा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org