________________
जिनसतयः]
स्तुतिचतुर्विशतिका ( सा० सू० ६९१) इत्यप् , ' गुणः' (सा० सू० ६९२), 'ए अय् ' ( सा० सू० ४१), ' स्वरहीनं० ' (सा० सू० ३६), 'सोर्विसर्गः । ( सा० सू० १२४ ) । तथाच 'जयतः' इति सिद्धम् । अत्र ' जयतः' इति क्रियापदम् । के कर्तृणी ! । वज्रमुसले ' वज्र-कुलिशं मुसलं-शस्त्रविशेषः, वजं च मुसलं च वज्रमुसले 'इतरेतरद्वन्द्वः ' । मुसलशब्दोऽदन्त्योऽप्यस्ति । कथंभूते वज्रमुसले ! । ' करप्रणयिनी ' करे-हस्ते प्रणयः-सौहार्द परिचयो वा विद्यते ययोस्ते करप्रगयिनी । “ प्रणयः स्यात् परिचये याच्चायां सौहृदेऽपि च " इति शाश्वतः। कस्याः । तव-भवत्याः । पुनः कथंभूते ? । 'बलिनी ' बल:-पराक्रमः सामर्थ्यमितियावत् विद्यते ययोस्ते बलिनी, पराक्रमयुक्त इत्यर्थः । “ स्थौल्यसामर्थ्यसैन्येषु बलम् ” इत्यमरः ( श्लो० २७२६ ) । बवयोरैक्यं तु यमकवशात् । यत्तदोः सापेक्षत्वात् सा का !। ये वज्रमुसले कीर्तीः-साधुवादरूपाः लंभेते-प्राप्नुतः । 'लभ लामे' वर्तमाने कर्तरि आत्मनेपदे प्रथमपुरुषद्विवचनम् । अत्रापि · लमेते ' इति क्रियापदम् । के कर्तृणी ? । ये । काः कर्मतापनाः ? । कीर्तीः । “कीर्तिः प्रसादयशसो-विस्तारे कर्दमेऽपि च" इति विश्वः । कथंभूताः कीर्तीः । 'निरुद्धपातालसत्कुवलयाः । निरुद्धं-आवृतं पातालसदां-पाताले-पृथिव्या अधोमागे सदांसि-गृहाणि येषां ते पातालसदः-रसातलवासिनः तेषां कुवलय-को-पृथिव्याः वलयं कुवलयं यामिः । यद्वा पातालं सत्शोभनं कुवलयं च याभिस्तास्तथा। " स्यादुत्पलं कुवलय-मथ नीलाम्बुनन्म च । इन्दीवरं च नीलेऽस्मिन् " इत्यमरः (श्लो० ५४०-४१ ) । " ज्या कुर्वसुमती मही " इति हैमः ( का० ४, श्लो. २)। अवशिष्टं त्वेकं गान्धार्या देव्याः सम्बोधनम् । तस्य व्याख्या स्वेवम्----हे 'समीरपातालसत्कुवलयावलिनीलमे ! ' समीरस्य-वायोः पातेन-प्रेडोलनेन आलसन्ती-दोलायमाना या कुवलयानां-कैरवाणां आवलिःपतिः तद्वन्नीला--हरिता मा-दीप्तिर्यस्याः सा तथा तस्याः सम्बोधनं हे समीर० । वसन्ततिलकाच्छन्दः । " ख्याता वसन्ततिलका तमजा जगौ गः " इति च तलक्षणम् ॥ ४ ॥
सौ० वृ०-गान्धारीति । हे गान्धारिनानि देवि! ते वज्रमुशले जयतः इत्यन्वयः। 'जयतः ' इति क्रियापदम् । के कर्तृणी ? । वज्रमुशले । 'जयतः ' जयं माप्नुतः । किंविशिष्टे वज्रमुशले ।। समीरः-पवनः तस्य पातः-प्रेङ्खोलनं तेन आ-ईषद मर्यादया लसन्ती-देदीप्यमाना या कुवलयाना-कमलानां आवलिः-श्रेणिः तद्वत् नीला भा-प्रभा ययोः ते 'समीरपातालसत्कुवलयावलिनीलभे'। पुनः किंविशिष्टे वज्रमुशले ? । ते । ते के : । ये वज्रमुशले कीर्तीः लभेते इत्यन्वयः। 'जयतः' इति क्रियापदम् । के कर्तृणी ? । ये वज्रमुशल ! 'लभेते' प्राप्नुतः । काः कर्मतापन्ना ? । 'कीर्ती:' सर्वदिग्वर्तिनीः श्लाघाः । पुनः किंविशिष्टे वज्रमुशले ? । 'करप्रणयिनी' करस्नेहवती। करस्थे इत्यर्थः । कस्याः ? । 'तव' भवत्याः । निरुद्धपातालसत्कुवलयास्ता निरुद्धपातालसत्कुवलयाः । पुनः किंविशिष्टे वज्रमुशले ? । 'बलिनी' बलयुक्ते । एवंविधे वज्रमुशले जयतः । इति पदार्थः ॥
अथ समासः-पूर्वभवापेक्षया गान्धारदेशोत्पन्नत्वात् गान्धारी, तस्याः सं० हे गान्धारि । । वनं घ मुशलं च वज्रमुशले । समीरस्य पातः समीरपातः, समीरपातेन आ-षत् लसन्ती समीरपातालसन्ती, कुवलयानां आवलिः कुवलयावलिः, समीरपातालसन्ती चासौ कुवलयावलिश्च समीरपातालसस्कुवलयावलिः, समीरपातालसत्कुवलयावलिवत् नीला भा ययोः ते समीरपातालसरकुवलयावलिनी
१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org