________________
स्तुतिचतुर्विशतिका
[६ श्रीपाप्रम
ज० वि -गान्धारीति । हे गान्धारि !-गान्धारिनामिके (2) ! तव करप्रणयिनी हस्तसङ्गन्ते ते वज्रमुसले-प्रहरणजाती जयतः-जयमनुभवतः इति क्रियाकारकसम्बन्धः । अत्र 'जयतः । इति क्रियापदम् । के कर्तृणी? 'वज्रमुसले । कथंभूते ? 'करप्रणयिनी' कस्याः ? 'तव ।। पुनः कथं० १ बलिनी । पराक्रमयुक्ते । बवयोरैक्यं तु यमकवशात् । यत्तदानित्याभिसम्बन्धात् यच्छब्दघटनामाह-ये वज्रमुसले कीर्तीः-साधुवादरूपा लभेते-प्राप्नुतः । अत्रापि 'लभेते' इति क्रियापदम् । के कर्तणी? 'ये। काः कर्मतापन्नाः ? 'कीर्तीः । कथंभूताः कीर्तीः १ 'निरुद्धपातालसत्कुवलयाः । निरुद्धं-आवृतं पातालसदां-रसातलवासिना कुवलयंपृथ्वीमण्डलं याभिः । यदिवा पातालं सत्-शोभनं कुवलयं ते निरुद्धे याभिस्तास्तथा ताः। अवशिष्टं त्वेकं गान्धायों देव्याः सम्बोधनम् । तस्य व्याख्या यथा-हे 'समीरपातालसत्कुवलयावलिनीलभे!' समीरपातन-वातप्रेखोलनेन आलसन्ती-दोलायमाना या कुवलयावलि:कुमुदश्रेणिः तद्वनीला भा-दीप्तियस्याः सा तथा तस्याः सम्बो० हे समीर० ॥
अथ समासः-वजं च मुसलं च वज्रमुसले 'इतरेतरद्वन्द्वः' । समारस्य पात: समीरपातः ' तत्पुरुषः । समीरपातेन आलसन्ती समीरपातालसन्ती 'तत्पुरुषः । कुवलयाना मावलिः कुवल० 'तत्पुरुषः ।' समीरपातालसन्ती चासौ कुवलयावलिश्च समीर० 'कर्मधारयः' । समीरपातालसत्कुवलयावलिवनीला समीर० ' तत्पुरुषः । समीरपाताल सस्कृवलयावलिनीला भा यस्याः सा समीर० ' बहुव्रीहिः । तत्सम्बो० हे समीर० । करयोः प्रणपिनी कर० ' तत्पुरुषः ।। पाताले सीदन्तीति पातालसदः 'तत्पुरुषः । कोः वलयं कुवलयं 'तत्पुरुषः । पातालसदा कुवलयं पाताळ. 'तत्पुरुषः । निरुद्धं पातालसत्कुवलयं याभिस्ता: निरुद्ध ० 'बहुव्रीहिः ।। यदा सच्च तत् कुवलयं च सत्कुवलयं 'कर्मधारयः ।। पातालं च सत्कुवलयं च पातालसत्कुवलये 'इतरेतरद्वन्द्वः । निरुद्ध पातालसन्कुवलये याभिस्ताः निरुदपा० 'बहुव्रीहिः । ताः निरुद्धपाता० ॥ इति काव्याः ॥ ४ ॥ ॥ इति श्रीमदृद्धपण्डितश्रीदेवविजयगणिशिष्यपण्डितजयविजयगणिविरचिताया श्रीशोभनस्तुतिवृत्तौ श्रीपद्मप्रभाजिनस्तुतेाख्या ॥ ६॥
॥प्रथमांशः समाप्तः॥ सि. वृ०-गान्धारीति । गां-पृथ्वी धारयतीति गान्धारी पृषोदरादिः तस्याः सम्बोधन हे गान्धारि ।।" गौगोत्रा मतधात्री मा, गन्धमाताऽचलाऽवनी " इति हेम: (का० १, श्लो. २)। गान्धारीनामके ! तव करप्रणयिमी-हस्तसङ्गते ते वज्रमुसले-आयुधविशेषौ जयतः-सर्वोत्कर्षेण जयमनमयत इत्यर्थः । जि जये' धातोः कर्तरि वर्तमाने परस्मैपदे प्रथमपुरुषद्विवचनं तस् । · अप करे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org