________________
स्कृतिचर्षिततिका
[६ श्रीपभमभअथ समासः-श्रान्ति छिनतीति श्रान्तिच्छित् । तत्पुरुषः' तं श्रान्तिरिछदम् । जिनानां जिनेषु वा पराः जिनवराः 'तत्पुरुषः' । जिनवराणामागमः जिनवरा० ' तत्पुरुषः ।। तं जिन । आश्रय एव अर्थो यस्य तत् आश्रयार्थम् 'बहुव्रीहिः । न विद्यते सलामो येषां ते असङ्गामाः ' तत्पुरुषः । तेषामसङ्गन्मानाम् । सरितां पतिः सरित्पतिः ' तत्पुरुषः । भव एवं सरित्पतिर्भवस० 'कर्मधारयः' । भवसरित्पतो सेतुर्भवस० 'तत्पुरुषः । भवस। मारश्च आमश्च मानश्च मलव मारापमानमलाः 'इतरेतरद्वन्दः ।। माराममानमला एवं सन्तमसं मारा. 'कर्मधारयः'। अस्तं माराममानमलसन्तमसं येन सः अस्तमारा० 'बहुव्रीहिः । तं अस्तमारा०॥ इति काव्याय: ॥३॥
सि. वृ०--श्रान्तिरिछदमिति । हे मव्य ! प्राणिन् ! त्वं जिनवरागम-परमेष्ठिसिद्धान्त आनमप्रणमेत्यर्थः । आपूर्वक ‘णम प्रह्वीमावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० ७०३ ) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः । अप् कर्तरि ' (सासू० ६९१) इत्यप् । ' अतः' (सा० स० ७०५ ) इति हेर्लक् । तथाच 'आनम' इति सिद्धम् । अत्र 'आनम ' इति क्रियापदम् । कः कर्ता । त्वम् । के कर्मतापन्नम् ।' जिनवरागमं । जिनेषु निनानां वा वरा:-श्रेष्ठाः तेषां आगमः-सिद्धान्त मिनवरागमम् । कथंभूतं निनवरागमम् ? । ' श्रान्तिच्छिदं ' श्रान्ति अर्थात् संसारखेदं छिनत्तीति श्रान्तिच्छित्, विप । तं श्रान्तिच्छिदम् । पुनः कथंभूतम ? | 'आरामं' आराममिव आरामं उपवनमित्यर्थः । "आरामः स्यादुपवन, कृत्रिमं वनमेव यत्" इत्यमरः (श्लो० ६५२ )। किमर्थम् ! । आश्रियते इत्याश्रयः आश्रय एव अर्थ:-प्रयोजनं यस्य तत् आश्रयार्थम् । केषाम् ! । 'असमानां' नास्ति सङ्गमः-संसारसम्बन्धो येषां ते असङ्गमा-मुनयः तेषां असमानाम् । पुनः कथंभूतम् ! । लसन्तं-शोभमानम् । पुनः कथभूतम् ।। ‘धाम । स्थानं गृहं वा । “ धामागारं निशान्तं च " इति हैम: ( का० ४, श्लो० ५८) । केषाम् ! । 'गमानां ' गमा:-सदृशपाठास्तेषाम् । पुनः कथंभूतम् ? । 'अग्रिम ' प्रधानं सर्वोत्कृष्टत्वादिति भावः । पुनः कथं ० १ । ' भवसरित्पतिसेतुं ' भवः-संसारः स एव सरित्यति:-समुद्रः तत्र सेतुः-तारणार्थ बन्धविशेष: ' पानि ' इति प्रसिद्धस्तद्रूपमित्यर्थः । " सेतौ पाल्यालिसंवराः" इति हैमः (का० १, श्लो. ३१)। पुनः कथं ? ।. ' अस्तमाराममानमलसन्तमसं ' मारः-स्मरः आमः-रोगः मानः-गर्वः मलः-पा मारश्च आमश्च मानश्च मलश्च माराममानमलाः । इतरेतरद्वन्द्वः' । “ मदनो मन्मयो मारः, प्रद्युम्नो मीन. केतनः" इत्यमरसिंहः (श्लो० ४९), " मधुदीपमारौ मधुसारथिः स्मरः" इति हेमः (का० २, १४१) " आम, आमय आकल्यः" इति हैमः (का. ३, श्लो० १२७)। एत एवं मप्लीमसत्वात् सन्तमसंआपकारं तत् अस्तं- निराकृतं येन स तपा तम् ॥ ३॥
सौ० वृ०-श्रान्तिच्छिदमिति। भो भव्य ! जिनवरागम-तीर्थकरप्रवचनं आनम इत्यन्ययः । 'आनम' इति कियापदम् । कः कर्ता ? । 'स्वम् । 'आनम' प्रणम । के कर्मतापनम् ! । 'जिनवरागमम्' । किविशिष्ट जिनवरागमन भान्तिः-अमातंछिमतीतिश्रान्तिछिदडत (त श्रान्ति०')। पनः किविशिष् जिनवरागमम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org