SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ जिनस्तुतयः] स्तुतिचतुर्विशतिका दे० व्या०-सा मे मतिमिति । सा जिनपङ्किः-तीर्थकरणिः मे-मम मति-बुद्धिं वितमुतात्-दयात् इस्यन्वयः। 'तनु विस्तारे' धातुः। वितनुतात् ' इति क्रियापदम् । का की। 'जिनपंक्तिः' जिनानां पंक्तिः जिनपंक्तिः इति विग्रहः। कां कर्मतापन्नाम् । मतिम् । कस्य ?। मे-मम । यत्तदोनित्यामिसम्बन्धात् यां जिनपंक्ति अमरसभा-देवपर्षत् अभ्यगात्-प्राप्तवतीत्यन्वयः । 'इण गतौ ' इति धातुः। 'अध्यगात् । इति क्रियापदम् । का की। 'अमरसभा' अमराणां सभा अमरसभा इति विग्रहः । कां कर्मतापनाम् ।। जिनपंक्तिम् । किंविशिष्टां जिनपंक्तिम् । आद्याम्-आदिकालभवाम् । अथवा आयां पूज्यतया प्रथमाम् । किंविशिष्टा अमरसभा । 'अस्तमुद्रा' अस्ता-अस्तंगता मुद्रा-प्रमाणं यस्याः सा तथा अस्तमुद्रा चासो आगता चोति विग्रहः । पुनः किंविशिष्टा ?। 'असुरमध्यगा' असुराणां-देवानां मध्ये गच्छतीति असुरमभ्यगा । पतेनासुरदेवतयोः निसर्गवैरत्वात् तत्क्षणे परस्परं निर्वैरत्वं ध्वन्यते । किं कुर्वती अमरसभा? । घिद्धती-प्रकुर्वती। किम् ? । 'गगनान्तरालम् ' गगनस्य-नभसः अन्तरालं-अभ्यन्तरम् । “अभ्यन्तरमन्तरालम्" इत्यभिधानचिन्तामणिः (का०६, श्लो०९६)। किंविशिष्टं गगनान्तरालम् ? । 'उद्रामतामरसभासुरम् ' उत्-प्राबल्येन रागो-रक्तिमा यस्मिन् तत् उद्रागम्, तच्च यत् तामरसं-कमलं तद्वत् भासुरं-दीप्तम् । केः। 'रस्नांशुभिः । रत्नानां-हीरकाणां अंशवः-किरणाः तैः ॥ इति द्वितीयवृत्तार्थः ॥२॥ श्रीसिद्धान्तस्वरूपम् श्रान्तिच्छिदं जिनवरागममाश्रयार्थ माराममानम लसन्तमसङ्गमानाम् । धामाग्रिमं भवसरित्पतिसेतुमस्तमाराममानमलसन्तमसं गमानाम् ॥ ३ ॥ -वसन्त ज० वि०-श्रान्तिच्छिदमिति । भो भव्य ! प्राणिन् ! त्वं जिनवरागम-भगवत्सिद्धान्त आनम-प्रणमेति क्रियाकारकसंटङ्कः । अत्र ' आनम' इति क्रियापदम् । कः कर्ता ? ' त्वम् । कं कर्मतापमम् ? 'जिनवरागमम्' । कथंभूतं जिनवरागमम् ? ' श्रान्तिच्छिदं । श्रान्ति:-श्रमः तं छिनत्तीति तथा तम् । पुनः कथं० १ 'आरामम् ' आममिवारामम्, उद्यानमित्यर्थः। 'आश्रयार्थ' संश्रयणार्थम् , संश्रयणहेतोरित्यर्थः । केषाम् ? ' असङ्गमानां' निःसङ्गाना मुनीनामित्यर्थः । पुनः कथं० ? ' लसन्तं । शोभमानम् । पुनः कथं० १ 'धाम' स्थानम् । केषाम् ? ' गमानां । सदृशपाठानाम् । पुनः कथं० ? 'अग्रिमं प्रधानम् । पुनः कथं०.१ 'भक्सरित्पतिसेतुं । भवरूपो यः सरित्पतिः-समुद्रः तत्र सेतुः-तारणबन्धः 'पाजि' इति प्रसिद्धस्तम् । पुनः कथं० १ 'अस्तमाराममानमलसन्तमसं' मारः-कामः आम:-रोग: मान:-अभिमानः मला-कालुण्यं एते एव मल्लीमसात्मकत्वात् सन्तमसं-तमिस्रं तत् अस्तं येन स तथा तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004895
Book TitleShobhan Stuti
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages562
LanguageGujarati
ClassificationBook_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy