________________
स्तुतिचतुर्विशतिका
[६ श्रीपद्मप्रभ
इति नानार्थः । पुनः कथंभूता ? । 'आगता' आयाता अर्थात् स्वर्गत इति ज्ञेयम् । पुनः कथंभूता ?। ' असुरमध्यगा । असुराणां-भवनपतिविशेषाणां मध्ये-विचाले गच्छतीति मध्यगा-मध्यवर्तिनी, मुक्तपैरिणीत्यर्थः । पाश्चस्तु असुरमध्यगाद्यामिति जिनपतेरेव विशेषणं वदन्ति । तथाच असुरमध्यगानां आद्याप्रथमां, प्रथमं पूज्यतया असुरमध्ये जिनपतिरेव गच्छति, ततोऽन्ये गणधरादय इत्यर्थः । अत्र यद्यकारप्रश्लेषः न क्रियते तदा सुरमध्यगाद्यामितिविशेषणमपि भवति तदपि यौक्तिकमेव । अमरसमा किं कुर्वती ? । विदधतीप्रकुर्वती । किन ? । गगनान्तरालं ' गगनस्य-आकाशस्य अन्तरालं-मध्यम् । " व्योमान्तरिक्षं गगनं घनाश्रयः” इति हैम:( का ० २, श्लो० ७७ ) । " अभ्यन्तरमन्तरालं, विचालं मध्यमन्तरे " इति हैम: ( का० ६, श्लो० ९६ )। कीदृशम् ! । ' उद्रागतामरसभासुर' उद्रागं-उद्गतरागं यत् तामरसं-महोत्पलं तद्वत् भासुर-दीप्तं रक्तच्छायमित्यर्थः । उद्गतो रागो यस्मात् तद्रागं ' तत्पुरुषः', उद्रागं च तत् तामरसं च इति ' कर्मधारयः' । कैः कृत्वा ? । ' रत्नांशुभिः ' रत्नानां-मुकुटाद्याभरणस्थितानां मणीनां ये अंशवः-किरणास्तैः। " किरणोत्रमयूखांशु-गभस्तिघृणिपृश्नयः" इत्यमरः ( श्लो० २१०)। " रोचिरु. स्ररुचिशोचिरंशुगोज्योतिरर्चिरुपधृत्य भीशवः " इत्यभिधानचिन्तामणौ ( का० २, श्लो० १३)। इयं विदधतीति क्रिया आगतेत्यनया योज्यते । तथाच मणिमयू वैर्गगनोदरं रक्तच्छायं कुर्वन्ती आगता सती यामध्यमादिति फलितार्थः ॥ २॥
सौ०१०-सा मे मतिमिति । सा जिनपंक्ति:-तीर्थकरपरम्परा मे-मम मतिन वितनुतात् इत्यन्वयः। 'वितनुतात्' इति क्रियापदम् । का की ? । 'जिनपंक्तिः' जिनश्रेणिः। 'वितनुतात् ' विस्तारयतु । कां कर्मतापन्नाम् ? । 'मति' बुद्धिम् । कस्य ? । 'मे, मम । किंविशिष्टा जिनपंक्तिः ? । अस्ता-गता मुद्राप्रमाणं यस्याः सा 'अस्तमुद्रा' । अप्रमाणा इत्यर्थः । पुनः कथंभूता जिनपंक्तिः ? । 'गता' प्राप्ता। 'अमरसमा' देवपर्षत् । किंविशिष्टा अमरसभा ?। असुराणां मध्ये गच्छतीति असुरमध्यगा। मुक्तवरेत्यर्थः। (पुनः कथंभूता जिनपंक्तिः ? । 'आद्या' प्रथमा। ) पुनः किंविशिष्टा जिनपंक्तिः ? । 'सा' प्रसिद्धा। सा का । या जिनपंक्तिः यां आद्यां पर्षद अध्यगात् इत्यन्वयः। 'अध्यगात्' इति क्रियापदम् । का की । जिनपंक्तिः । 'अध्यगात्' आश्रितवती । कां कर्मतापन्नाम् ? । यो गणधरपर्षदम् । अमरसभा किं कुर्वती ? । 'विदधती' निष्पादयती। किं कर्मतापन्नम् ? । 'गगनान्तरालं' अन्तरिक्षोदरम् । किंविशिष्टं गगनान्तरालम् ? । उत्-प्राबल्येन रागो यस्मिन् तत् उद्रागं, तादृशं यत् तामरसं-कमलं तद्वत् भासुरम् । कैः कृत्वा ? । रत्नानां-पद्मरागादीनां अंशवः-किरणाः तैः 'रत्नांशुभिः' । इति पदार्थः ॥
अथ समासः-जिनानां पंक्तिः जिनपक्तिः । अस्ता मुद्रा यस्याः सा अस्तमुद्रा । अमराणां समा अमरसभा । असुराणां मध्यं असुरमध्यम, असुरमध्ये गच्छतीति असुरमध्यगा । आदौ भवा आधा, तां आद्याम् । रत्नानां अंशवः रत्नांशवः, तैः रत्नांशुभिः । विशेषेण दधती या सा विदधती । गगनस्य अन्तरालं गगनान्तरालम् । उत्-प्राबल्येन रागो यस्मिन् तत् उदागम्, उद्रागं च तत् तामरसं च उदागतामरसं, उदागतामरसवद् भासुरं उद्रागतामरसभासुरम्, तत् उद्रागतामरसमासुरम् ॥ इति द्वितीयवृत्तार्थः ॥२॥
१ अयमुल्लेखोऽप्रासाङ्गिकः प्रतिभाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org