________________
मिनस्तुतयः
स्तुतिचतुर्विशतिका जिनपतिरेव गच्छति, ततोऽन्ये गणधरादय इति । अत्र यदि अकारप्रश्लेषो न विधीयते तदा सुरमध्यगाद्यामिति विशेषणं भवति तदपि यौक्तिकमेव । अमरसभा किं कुर्वती ? 'विदधती' कुणा । किं कर्मतापन्नम् ? 'गगनान्तरालं । अन्तरिक्षोदरम् । कथंभूतम् ? ' उद्रागतामरसभासुरम् । उद्रागं-उद्तरागं यत् तामरसं-महोत्पलं तद्वद् भासुरं-दीपम् । रक्तच्छायमित्यर्थः । कैः कृत्वा ? 'रत्नांशुभिः । रत्नाना-मुकुटाद्याभरणस्थिताना मणीनां ये अंशवः-किरणास्तैः । इयं विदधतीति क्रिया आगतेत्यनया क्रियया योज्यते । तथाचायं फलितार्थः-मणिमयूखैः अन्तरिक्षोदरं रक्तच्छायं कुर्वन्ती आगता सती यामध्यगादिति ॥
अथ समास:-जिनानां पङ्किः जिनपङ्किः 'तत्पुरुषः' । अस्ता मुद्रा यया सा अस्तमुद्रा 'बहुव्रीहिः' । अमराणां सभा अमरसभा 'तत्पुरुषः' । मध्ये गच्छतीति मध्यगा 'तत्पुरुषः । असुराणां मध्यगा असुरमध्यगा, यदा अमुराणां मध्यं असुरमध्यं तत्पुरुषः।। असुरमध्यं गच्छतीति असुर० 'तत्पुरुषः जिनपङ्किपक्षे तु असुरमध्यगानां सुरमध्यगानां वा आया असुरमध्यगाया, सुर० वा 'तत्पुरुषः । तां असुर०, सुर० वा । रत्नानामंशवो रत्नांशवः तत्पुरुषः। तैः रत्नांशुभिः । गगनस्यान्तरालं गगनान्तरालं 'तत्पुरुषः' । तत् गग० । उद्गतो रागो यस्मात् तत् उद्रागं 'बहुव्रीहिः' । उद्रागं च तत् तामरसं च उद्राग० 'कर्मधारयः । उद्रागतामरसवद् भासुरं उद्राग० 'तत्पुरुषः । तत् उद्राग० ॥ इति काव्यार्थः ॥२॥
सि. वृ०-सा मे मतिमिति । सा जिनपतिः-अर्हता श्रेणिः मे-मम मति-प्रज्ञां वितनुतात्विस्तारयतादित्यर्थः । विपूर्वक · तनु विस्तारे ' धातोः ' आशी:प्रेरणयोः ' ( सा० स० ७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् । अत्र ' वितनुतात् ' इति क्रियापदम् । का कर्ना ?।जिनपतिः' जिनानां पतिः निनपतिः इति । तत्पुरुषः । कां कर्मतापन्नाम् ! । मतिम् । कस्य ! । मम । यत्तदोः परस्परममिसम्बन्धात् सा का ! । यां जिनपति अमरसभा-देवपर्षत् अव्यगातू-प्राप्तवतीत्यर्थः । अधिपूर्वक 'इण् गतौ' इति धातोः भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् । 'दादेः पे' (सा० स० ७२५) इति सिलोपे, 'इणः (णिकोः ) सिलोपे गा वक्तव्यः' (सा० सू० (९५) इति गादेशः । “दिवादावट् ' (सा० सू० ७०७ ), ' इ यं स्वरे' ( सा० सू० ३३ ), ' स्वरहीन.' ( सा० सू० ३६ )। तथाच 'अध्यगात्' इति सिद्धम् । अत्र ' अध्यगात् ' इति क्रियापदम् । का कर्वी ? । 'अमरसभा' अमराणां समा अमरसभा ' तत्पुरुषः ' " स्त्रियां सामाजिके गोष्ठयां द्युतिमन्दरयोः सभा ” इति रभसः। कां कर्मतापन्नाम् ! । याम् । कथम्भूतां याम् ? । 'आद्याम्' आदी भवा आद्या तां आद्यां, आद्यां-पूज्यतया प्रथमां इति वा । कथंभूता अमरसभा ? । 'अस्तमुद्रा' अस्ता-अस्तं गता मुद्रा-मानं-इयत्ता यस्याः सा तथा |
" मुद्रा स्यादाकृतौ मुद्रा, मुद्रा मानेऽङ्गुलीयके । पिधानेऽपि भवेन्मुद्रा, मुद्रा कर्णविभूषणे ॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,