________________
स्तुतिचतुर्विंशतिका
[ ६ श्रीपद्मप्रभ
C
दे०व्या० - पादद्वयीति । पाद्मप्रभी पादद्वयी सतां प्रमोदं प्रविदधातु-करोतु इत्यन्वयः । 'डु धाञ् धारणपोषणयोः' इति धातुः । ' प्रविदधातु ' इति क्रियापदम् । का कर्त्री ? । पादद्वयी । के कर्मतापक्षम् ? । प्रमोदम् । किविशिष्टा पादद्वयी ? | पाद्ममभी- पद्मप्रभसम्बन्धिनी । पुनः किंविशिष्टा ? | दलितपद्ममृदुः दलितंविकसितं यत् पद्मं - कमलं तद्वत् मृदुः - कोमला । " दलितं स्फुटितं स्फुटं " इत्यभिधानचिन्तामणिः (का०४, श्लो०१९४) 'वोर्गुणात्' (सा०सू० ४०४ ) इति सूत्रस्य विकल्पितत्वेनात्र ईबभाव: । पुनः किंविशिष्टा ! । ' उन्मुनतामरसदामलतान्तपात्री उन्मुद्राणि विकसितानि यानि तामरसदामानि -कमलमाला: लतानां अन्ताः लतान्ता:- पल्लवाः तेषां पात्रीव पात्री- भाजनम्। "पात्रामत्रे तु भाजनम्" इत्यभिधानचिन्तामणिः ( का० ४, श्लो० ९२ ) । पुनः किंविशिष्टा ? । 'वितीर्णमुद्र' वितीर्णा दत्ता मुद्र-आनन्दो यया सा तथा । केषाम् ? । सतां - सज्जनानाम्, दुर्जनानां तदसम्भवात् । पुनः किंविशिष्टा ? । 'मुमतामरसदा मुदा हर्षेण रता-- आसक्ता अमरसदो- देवसभा यस्याः सा तथा । पुनः किंविशिष्टा ? | 'मलतान्तपात्री ' मलेनकर्मणा तान्तान्-ग्लानान् पाति-रक्षतीत्येवंशीला ॥ इति प्रथमवृत्तार्थः ॥ १ ॥
६६
समग्रजिनेश्वराणां स्तुति:
+++==
Jain Education International
सामे मतिं वितनुताज्जिनपङ्किरस्तमुद्रागताऽमरसभा सुरमध्यगाऽऽद्याम् । रत्नांशुभिर्विदधती गगनान्तराल
मुद्रागतामरसभा सुरमध्यगाद् याम् ॥ २ ॥
4
ज० वि० - सा मे मतिमितेि । सा जिनपङ्कि :- अर्हतां श्रेणी मे - मम मर्ति-प्रशां वितनुतात् विस्तारयतात् इति क्रियाकारकयोजना । अत्र ' वितनुतात् ' इति क्रियापदम् । का कर्त्रीीं ? — जिनपङ्किः ' । कां कर्मतापन्नाम् ? ' मतिम् । यत्तदोः परस्परमभिसम्बन्धात् सा का ? यां जिनपङ्कि सुरसभा - देवपर्षद् अध्यगात् - माप्तवती । अत्रापि ' अध्यगात् ' इति क्रियापदम् । का कर्त्री ? ' सुरसभा ' । कां कर्मतापन्नाम् ? ' याम् ' । यां कथंभूताम् ? आधाम् । सुरसभा कथंभूता ? ' अस्तमुद्रा ' अस्ता- क्षिप्ता मुद्रा - पर्यन्तो यया सा तथा । अप्रमाणेत्यर्थः पुनः कथंभूता ? ' आगता' आयाता । अर्थात् स्वर्गत इति ज्ञेयम् । अनेन विशेषणेन नतु सुरसभायाः सुरलोके सद्भावः जिनपङ्किस्त्विति कथं जिनपङ्कि प्रति सुरसभाया अधिगमनं सम्भवेत् । इति शङ्का व्युदस्ता । पुनः कथंभूता ? ' असुरमध्यगा' असुराणां भवनवासिदेवविशेषाणां मध्यगा -मध्यवर्तिनी । मुक्तवैरेत्यर्थः । अथवा असुरमध्यगाद्यामिति जिनपरेव विशेषणम् । तथाचैवं व्याख्या - असुरमध्यगानामाद्यां - प्रथमाम् । प्रथमं दृज्य तयाऽसुरमध्ये
१' मुद्दा गताऽमरसभा सुरमभ्यगाथाम् ' इत्यपि पाठः ।
- वसन्त●
For Private & Personal Use Only
www.jainelibrary.org