________________
जिन स्तुतयः ]
स्तुतिचतुर्विंशतिका
६५
33
तस्या अन्तः—विनाशस्तस्य पात्री - भाजनं योग्या चेत्यर्थः । पुनः कथंभूता । ' वितीर्णमुत् ' वितीर्णादत्ता मुतू - प्रीतिर्यया सा तथा । केषाम् ! | सतां - सत्पुरुषाणाम् । पुनः कथंभूता ! ।' मुद्रतामरसदा मुदा हर्षेण रता - आसक्ता अमराणां देवानां सत्-सभा यस्याः सा तथा । समाजः परिषत् सदः इति हैमः. (का० ३, श्लो० १४५ ) । पुनः कथंभूता ? | 'मलतान्तपात्री' मलेन - पापलक्षणेन तान्तानग्लानान् पाति-रक्षतीत्येवंशीला मलतान्तपात्री । शीलार्थे तृञ् । यद्वा पातीति पात्री मलतान्तानां पात्री मलतान्तपात्रीत्यर्थः । " मलोऽस्त्रियाम ( स्त्री पाप ? ) विकिट्टा " इत्यमरः ( श्लो० २७२९ ) ॥ १ ॥
सौ० वृ० - यः सुमतिः भवति तस्य विकसितपद्मवत् मुखप्रभा भवति । अमेन सम्बन्धेन आयातस्य षष्ठस्य पद्मप्रभजिनस्य स्तुतिव्याख्यानं लिख्यते । पादद्वयीति ।
6
पायी चरणद्वितयी सतां सज्जनानां प्रमोदं हर्षे प्रविदधातु इत्यन्वयः 1 ' प्रविदधातु ' इति क्रियापदम् । का कर्त्री ? | ' पादद्वयी' । ' प्रविदधातु' करोतु । कं कर्मतापन्नम् ? । 'प्रमोद' प्रकर्षेण हर्षम् । केषाम् । ' सताम् । किंविशिष्टा पादद्वयी ? । दलितं विकसितं यत् पद्मं कमलं तद्वन्मृदुः - कोमला 'दलित पद्ममृदुः । पुनः किंविशिष्टा पादद्वयी ? | उन्मुद्राणिमेराणि यानि तामरसानि - कमलानि तेषां दामानि - मालाः सैव लम्बायमानत्वात् लता-चल्ली तासां अन्तः-स्वरूपं निकटं वा तेषां पात्रीव पात्री - भाजनं ' उन्मुद्रतामरसदामलतान्तपात्री' । पुनः किंविशिष्टा पादद्वयी ? | 'पाद्मप्रभी' पद्मप्रभजिनसंबन्धिनी । पुनः किंविशिष्टा पादद्वयी? । वितीर्णा- दत्ता मुत्- आह्लादो यया सा ' वितीर्णमुद्' । पुनः किं० पादद्वयी ? । उद्गतं यद् रतं सुरतं तथा रागता तदेव आमरसः - अपक्को यो रसः तं प्रति घति-खण्डयतीति 'उद्रतामरसदा | यद्वा उत्- प्राबल्येन तो- रागो उद्रतः, उद्रता अमरसदः- सुरसभा यस्यां सा 'उद्रतामरसवा' । यद्वा उन्मुद्राणि-विकस्वराणि तामरसानि - कमलानि सुरनिर्मितानि रेखात्मकानि वा दयते प्रापयते इति 'उन्मुद्रतामरसदा । पुनः किंविशिष्टा पादद्वयी ! | मल:- कर्मजनितमलः तस्य भावः मलता (न मलता अमलता) तस्या: अन्तोनाशः तस्य पात्री - स्थानं ' ( अ ) मलतान्तपात्री' कर्मनाशकृदित्यर्थः । यद्वा मलेन - कर्मरजसा तान्ताःश्रान्ताः तान् पात्री - रक्षणशीला । यद्वा आमो-रोगः स एव लता-वल्ली तस्या अन्तो-नाशः तस्य पात्री - स्थानम् । इति पदार्थः ॥
,
"
"
ܝ
Jain Education International
अथ समासः - द्वयोः समाहारो द्वयी, पादयोर्द्वयी पादद्वयी । दलितं च तत् पद्मं च दलितपद्मम्, दलित पद्मवत् मृदुः दलितपद्ममृदुः । प्रकृष्टश्चासौ मोदश्च प्रमोदः, तं प्रमोदम् । उन्मुद्राणि च तानि तामरसानि च उन्मुद्रतामरसानि, उन्मुद्रतामरसानां दामानि उन्मुद्रतामरसदामानि उन्मुद्रतामरसदामान्येव लता उन्मुद्रतामरसदामलताः, उन्मुद्रतामरसदामलतानां अन्तः उन्मुद्रतामरसदामलतान्तः उन्मु०लतान्तस्य पात्री उन्मु०लतान्तपात्री । यद्वा उन्मुद्रतामरसानि दयते इति उन्मुद्रतामरसदा । पद्मप्रभस्य इयं पाद्मप्रभी । वितीर्णा मुद् यया सा वितीर्णमुद्र। उत्- प्राबल्येन रत उद्रतः, आमश्चासौ रसश्च आमरसः, उद्रत एव आमरसः उदतामरसः, उद्रतामरसं द्यति-खण्डयति इति उद्रतामरसदा । मलेन तान्ता मलतान्ताः, मलतान्तान् पातीति मलतान्तपात्री । यद्वा आमो-रोगः स एव लता आमलता, आमलताया अन्तो-नाशः आमलतान्तः, आमलतान्तस्य पात्री आमलतान्तपात्री । द्वितीयचतुर्थपादेषु यमकालङ्कारः । वसन्ततिलका च्छन्दसा वृत्तमिदम् ॥ इति प्रथमवृत्तार्थः ॥ १ ॥
१ 'ता एव लम्बायमानत्वात् लता-वल्ल्यस्तासां अन्तः स्वरूपं निकटं वा तस्य' इति प्रतिभाति ।
For Private & Personal Use Only
www.jainelibrary.org