________________
स्तुतिचतविशतिका
[६ श्रीपप्रमद्राणि 'बहुव्रीहिः' । उन्मुद्राणि च तानि तामरसानि च उन्मुद्र० कर्मधारयः' । उन्मुद्रतामरसानां दामानि उन्मुद्र० 'तत्पुरुषः । लतानामन्तानि लतान्तानि तत्पुरुषः'। उन्मुद्रतामरसदामानि च लतान्तानि च उन्मुद्र० 'इतरेतरद्वन्दः । । उन्मुद्रतामरसदामलतान्तानां पात्री उन्मुद्र० ' तत्पुरुषः । । यद्वा उन्मुद्रतामरसदामान्येव लता उन्मुद्र० 'कर्मधारयः । । उन्मुद्रतामरसदामळतानामन्तः उन्मुद्र. 'तत्पुरुषः । उन्मुद्रतामरसदामलतान्तस्य पात्री उन्मुद्र० 'तत्पुरुषः । विशेषणद्वयपक्षे त्वेवं समासः । उन्मुद्रतामरसानि दयत इति उन्मुद्रतामरसदा 'तत्पुरुषः । यद्वा उद्गता मुद् यस्मात् तत् उन्मुत् 'बहुव्रीहिः' । उम्मुत् च तत् रतं च उन्मुद्रतं 'कर्मधारयः । आमश्चासौ रसश्च आमरसः 'कर्मधारयः' । उन्मुद्रते आमरसः उन्मुद्रतामरस: 'तत्पुरुषः । उन्मुद्रतामरसं यतीति उन्मुद्रतामरसदा 'तत्पुरुषः । मलेन तान्ता मलतान्ताः 'तत्पुरुषः । मलतान्तान् पातीत्येवंशीला मलतान्तपात्री ' तत्पुरुषः । यद्वा पातीति पात्री मलतान्तानां पात्री मळ० ' तत्पुरुषः ॥ इति काव्यार्थः ॥ १॥
सि० १०-पादद्वयीति । पद्मप्रमस्येयं पानप्रमी-पद्मप्रमतीर्थकरसम्बन्धिनी पादयोर्द्वयी पादद्वयीचरणद्वितयी प्रमोद-आनन्दं प्रविधातु-प्रकर्षेण करोत्वित्यर्थः । प्रविपूर्वक 'डुधान धारणपोषणयोः' इति धातोः । आशी:प्रेरणयोः । ( सा० स० ७०३ ) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप । 'अप० । (सा० सू० ६९१), 'द्विश्च' (सा० स० ७१० ) इति धकारस्य द्वित्वम्, ' ह्रस्वः ' ( सा० सू० ७१३) इति पूर्वधकारस्य ह्रस्वत्वम्, 'झपानां जबचपाः' (सा० स० ७ १४) इति पूर्वधकारस्य दकारः । अत्र 'प्रविदधातु ' इति क्रियापदम् । का की ? । पादद्वयी । कं कर्मतापन्नम् ! । प्रमोदम् । पादद्वयी किंसम्बन्धिनी । पाद्मप्रभी। कथंभूता पादद्वयी ! । 'दलितपद्ममृदुः' दलानि जातान्यस्येति दलितं विकसितं वा यत पद्म-कमलं तदिव मृदुः-सुकुमारा कोमलेतियावत् । वोतो गुणवचनात् ' (पा० अ०४, पा० १, सू० ४४) इति पाक्षिक ईत्रमावे मृदुरिति मन्तव्यम् । पुनः कथंभूता ? । 'उन्मुद्रतामरसदामलतान्तपात्री' उन्मुद्राणिविकसितानि, उद्गता मुद्रा-मुद्रणं येभ्य इति व्युत्पत्तेः, उन्मुद्राणि यानि तामरसानि-महोत्पलानि तत्सम्ब. न्धीनि यानि दामानि लतानामन्तानि प्रान्तानि च कुसुमानीत्यर्थः, तेषां पात्री-भाजनं आधार इत्यर्थः । “योग्यमाननयोः पात्रं" इत्यमरः । सुरासुरादिभिः कमलकुसुमादिमिः कृत्वा पूजितत्वेन भगवत्पादद्वय्यां तामरसानां कुसुमानां च सदा सत्त्वादिति मावः । अथवा उन्मुद्रतामरसदामान्येव प्रलम्बत्वाद् लता-वल्लयस्तासामन्तपात्री-समीपमाननम् । यदिवा उन्मुद्रतामरसदा आमलतान्तपात्री चेति विशेषणद्वयमेव । तथा चायमर्थः-उन्मुद्राणि-अपर्यन्तानि सुरासुरनिर्मितानि रेखात्मकानीव तामरसानि दयत इत्युन्मुद्रतामरसदा । यद्वा उद्गता मुद् यस्मात् तत् उन्मुत् उन्मुत्-हर्षदं यत् रत-सुरतं तस्मिन् आमःप्रत्यग्रो यो रसः-अभिलाषस्तं यति-खण्डयतीति उन्मुद्रतामरसदा । उन्मुच तद् तं च उन्मुद्रतं 'कर्मशरयः', आमश्चासौ रसश्च आमरस: 'कर्मधारयः । तथा ' आमलतान्तपात्री' आमो-रोगः तल्लक्षणा लता-बल्ली
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org