________________
६२
स्तुतिचतुर्विंशतिका
[ ५ श्रीमति
काली-वर्णेन श्यामा 'घनघनकाली । पुनः किं० काली ? | ऊना - हीनाः सौभाग्यादिना दूनादुःखिताः समासाः - सभयाः तान् प्रति त्रायते - रक्षतीति' ऊनवूनसत्रासत्रा' । एतादृशी काली विद्यादेवी मां अवतात् । इति पदार्थः ॥
अथ समासः - - नगान् द्यति-खण्डयति इति नगदा । अमाना गदा यस्याः सा अमानगदा । यद्वा माने- साहंकारे जने गदा इव गदा मानगदा। महसां राजि: महोराजि:, महाराज्या रजिता रसा यया सा महोराजितरसा । घनश्चासौ घन घनघनः, यद्वा घनेन जलेन घनः घनघनः घनघनवत् काली घनघनकाली । त्रासेन सहिताः सत्रासा:, ऊनाश्च दूनाश्च सत्रासाश्च ऊनदूनसत्रासा:, ऊनदूनसत्रासान् त्रायते इति ऊनदूनसत्रासत्रा । तरसा बलवेगयोः " इति महीपः । "कीलालं भुवनं वनं घनरसः" इति हैमः (का० 8, श्लो० १३५ ) । “त्रासस्त्वाकस्मिकं भयं” इति हैम: (का० २, श्लो० २३५ ) । अस्यां स्तुतौ औपच्छन्दसिकजात्या द्वित्र्यक्षरैः यमकालंकारः ॥ इति चतुर्थवृत्तार्थः ॥ ४ ॥
66
श्रीपञ्चमजिनेशस्य, स्तुतेरर्थो लिबीकृतः । सौभाग्य सागराख्येण, सूरिणा ज्ञानसेविना ॥
॥ इति सुमतिजिन स्तुतिवृत्तिः ॥ ५ ॥
दे०व्या० - नगदामेति । 'अहो' इत्याश्चर्ये । 'बत' इति विस्मये । काली वी मां तरसा शीघ्रं, तरसा-यथा स्यात् तथा अवसात्1 रक्षतात् इत्यन्वयः । ' अव रक्षणे ' इति धातुः । 'अवतात्' इति क्रियापदम् । का कर्त्री ? । 'काली' देवी । कं कर्मतापनम् । माम् । अवतादित्यत्र बवयोरक्यात् वकारस्थाने बकारग्रहणम् । किंविशिष्टा काली ? । ' नगदामनयदा नर्म-पर्वतं यति-खण्डयतीति नमदा एवंविधा अमाना- अप्रमाणा विपुलत्वात् मदा-प्रहरणविशेषो यस्याः सा तथा । पुनः किंविशिष्टा ? 1 महोराजिराजितरसा महसः प्रभायाः राजि:- पंक्तिः तया राजिता -सोभिता रसा-पृथिवी यया सा तथा । " जमती मेदिनी रसा " इत्यभिधानचिन्तामणिः (का० ४, लो० ३) । पुनः किंविशिष्टा ? | ' घनघनकाली' घनो - निविडो यो घनो - मेघः तद्वत् कालीकृष्णवर्णा । पुनः किंविशिष्टा ? । ऊनदूनसत्रा' ऊना - अपूर्णा धनैरिति शेषः, अत एव दूना:- दुःखिताः तेषां सत्र-धने यस्याः सा तथा । पुनः किंविशिष्टा ? । सत्रा- सुशीला ।
6
Jain Education International
" सत्रं गृहं धनं सत्रं, सत्रं दानमिहेरितम् । सत्रं नाम बनं सत्रं, सत्रं सचरितं मतम् ॥
""
इत्यनेकार्थः । अथवा ऊना धनादिना दूना रोगादिना सत्रासा: - समया: विपक्षादिना तानू त्रायते रक्षतीत्येकमेव पदम् ॥ इति चतुर्थवृत्तार्थः ॥ ४ ॥
For Private & Personal Use Only
www.jainelibrary.org