________________
जिनस्तुतयः]
स्तुतिचतुर्विशतिका अथ समासः-नगान् धतीति नगदा तत्पुरुषः । न विद्यते मानं यस्याः सा अमाना 'बहुव्रीहिः । अमाना चासौ गदा च अमानगदा · कर्मधारयः । नगदा अमानगदा यस्याः सा नगदा० ' बहुव्रीहिः ' । महसां राजिम होरानिः 'तत्पुरुषः' । महोराज्या राजिता महोरा० 'तत्पुरुषः' । महोराजिराजिता रसा यया सा महोरा० 'बहुव्रीहिः । धनाश्च ते घनाश्व घनघनाः कर्मधारयः ।। घनघनवत् काली घन० 'तत्पुरुषः'। ऊनाश्च दूनाथ सत्रासाश्च ऊनदूनसत्रासाः ' इतरेतरद्वन्द्वः ।। ऊनदूनसत्रासान् त्रायते इत्यूनदूनसत्रासत्रा ' तत्पुरुषः ॥ इति काव्यार्थः ॥ ४ ॥
॥ इति श्रीशोभनस्तुतिवृत्तौ श्रीसुमतिजिनस्तुतित्तिः ॥ ५॥ सि० ०-नगदामेति । अहो इत्यामन्त्रणे । “ अहो बतानुकम्पायां, खेदे सम्बोधनेऽपि च " इति विषः । बतेति विस्मये । “ खेदानुकम्पासन्तोष-विस्मयामन्त्रणे बत" इत्यमरः (श्लो० २८२३ )। काली-काल्यभिधाना देवी मां तरसा-वेगेन बलेन वा अवतात्-रक्षतादित्यर्थः । ' अव रक्षणे' धातोः
आशीःप्रेरणपोः' ( सा० स० ७०३) कर्तरि परस्मैपदे तातङि प्रथमपुरुषैकवचनम् । अवतादित्यत्र बश्योरैक्यं तु यमकक्शादवसेयम्, “ यमकश्लेषचित्रेषु बवयोर्डलयोन भित्" इतिवचनात् । काली कथंभूता ।। 'नगदामानगदा, नगान्-पर्वतान् यति-खण्डयतीति नगदा सा चासावमाना-अप्रमाणा महतीत्यर्थः गदा-प्रहरणविशेषो यस्याः सा तथा । पुनः कथंभूता ? । 'महाराजिराजितरसा' महांसि-तेजांसि तेषां रानि:-ततिः तया राजिता-शोभिता रसा-पृथिवी यया मा तथा । " राजिलेखा त तिवाथी, मालल्यावलि. पडायः" इति हैमः ( का० ६, श्लो० ५९)। " सर्वसहा रत्नगर्भा, जगती मेदिनी रसा " इति हैमः ( का० ४, श्लो० ३)। पुनः कथंभूना ! । 'घनघनकाली' घनाः-सान्द्राः ते च ते घना-मेघाः तद्वत् काली-श्यामा । पुनः कथंभूता ! । ' उ.नदूनमत्रासत्रा ' उ.ना:-स्तोकाः परिवारराहित्येनाल्पाः, दूना:उपतप्ताः-सन्तापवन्तः, सत्रासाः-सभ पाः, ऊनाश्च दूनाश्च सत्रासाश्च उनदूनसत्रासाः । इतरेतरद्वन्द्वः' सान् जनदूनसत्रासान् त्रायते इत्यूनदूनसत्रासत्रा ' तत्पुरुषः' । 'स्कन्धकं ' छन्दः ॥ ४ ॥
॥इति महोपाध्यायश्रीभानुचन्द्रगणिशिष्यमहोपाध्यायश्रीसिद्धिचन्द्रगणिविरचितायां श्रीशोभनस्तुतिवृत्तौ श्रीसुमतिनिनस्तुतिवृत्तिः ॥५॥
सौ० ७०-नगदामेति । 'अहो' इति आश्चर्ये कोमलामन्त्रणेवा। कालीनाम्नी देवी मां अवतात् इत्यन्वयः। 'अवतार' इति क्रियापदम् । का की। 'काली' । 'अवतात्' रक्षतु । के कर्मतापमम् ? 'माम्।' कथम् ।। 'तरसा' बेगेन । कथम् ।। 'बत' इति खेथे। किंविशिष्टा काली! । नगान्-पर्वतान् यति-खण्डयति इति 'नगदा' । पुनः किंविशिष्टा काली ? । 'अमाना' अप्रमाणा । गधा-प्रहरणविशेषो यस्याः सा - 'अमानगदा' । पुन: किंविशिष्टा काली ? । महसां-तेजसां राजिः-तति:-शोभिता रसा-पृथ्वृ यया सा 'महोराजितरसा' । पुनः किं काली । घनो-निचितः जलेन पूर्णः एतादृशो यो घना-मेघः तद्वत्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org