________________
६०
स्तुतिमतविंशतिका
[५ श्रीसुमति
२.व्या०-मतिमतीति । हे जन-1 छोक! स्वं जिनराजि-सार्वविषपे मतं-पृषचनं मून-निश्चितं स्मरस्मृतिगोचरीकुरु हत्यम्बयः। 'स्मृचिन्तायाम्' इति धातुः। स्मर' इति क्रियापदम् । कः कर्ता। त्वम् । किं कर्मतापन्नम् ? । मतम् । कस्मिन् ? । 'जिनराजि' जिनेषु-सामान्यकेवलिषु राजते इति जिनराट् तस्मिन्। किंविशिष्टे जिनराजि?। 'मतिमति'मति:-बुद्धिःसा विद्यते यस्मिन् स तस्मिन् । पुनःकिविशिष्टे ।'मराडितेहिते' नराणां-मनुष्याणां आहितं-पूरितं 'हितं-वाञ्छितं येन स तस्मिन् । पुनःकिविशिष्टे ।'चितरुचि' रुचिता सर्वेषामाल्हादकत्वेन रुक
कान्तिर्यस्य स तस्मिन् । पुनः किंविशिष्टे । तमोहे-अज्ञाननाशके। पुनः किंविशिष्टे।' अमोहे' मोहोमौन रहते । “ मोहो मौढ्यं चिन्ता ध्यानं" इत्यभिधानचिन्तामणिः (का०२. श्लो.२३४)। किंवि० मतम् । 'अतनूनम् । तनु-परैर्दषयितुं शक्यम् ऊन-परमतापेक्षया सकलाप्रकाशकं ताहर्श म किन्त परैर्दषयितु अशक्यम् । यावदर्थप्रकाशकं चति भावः । किंविशिष्टरस्वम् ।। 'अस्मराधीरधीः नास्ति स्मरेण-कन्दण अधीरा-यश्चला धी:-बुद्धिः यस्य स तथा । पुनः किंविशिष्टः । सुमतः-सुन्द काय? | असुमतः-पाणिनः। असबो बियन्ते यस्यासी असुमान् तस्य इति व्युत्पत्तिः । नासावेकमचनम् ॥ इति तृतीयवृत्तार्थः॥३॥
कालीदेव्यै प्रार्थना
नगदौमानगदा मा
महो ! महोराजिराजितरसा तरसा । घनघनकाली काली बतावतादूनदूनसत्रासैत्रा ।। ४ ॥५॥
-आर्या म०वि०-नगदामेति। अहो। इस्यामन्त्रणेविस्मये वा, बतेति विस्मये, काली-कास्यभिधाना देवी मां तरसा-वेगेन घलेन वा अवतात्-रक्षतात् इति क्रियाकारकप्रयोगः । अत्र 'अवतात् । इति क्रियापदम् । का की ? 'काली।कं कर्मतापत्रम् ? 'माम् । केन? * तरसा ।। अवतादित्यत्र बस्योरैक्यं तु यमकवशादवसेयम् । “यमकश्लेषचित्रेषु वयोर्डलयोन भित्" इतिवचनात् । काली कयंभूता ? ' नगदामानगदा नगान् पति-खण्डयतीति नगदा, अपाना-अप्रमाणा महतीत्यर्थः, एतादृशी गदा-पहरणविशेषो यस्याः सा तथा । पुनः कथंभूना ! 'महोरानिराजितरसा' महासि-तेजासि तेषां राजिः-ततिः तया राजिता-शोभिता रसा-पृथिवी यया सा तथा । पुनः कथंभूता देवी ? 'घनघनकाली। घना:-सान्द्राः घना:मेघास्नदत् काली-ज्यामा । पुनः कथं० १ 'ऊनदूनसत्रासत्रा' ऊना:-स्तोका:-परिवारवाहित्येनारपाः दूना:-उपतप्ता:-संतापवन्तः सत्रासा:-सभयाः तान् प्रायत इति जनदूनसत्रासा॥
१.०दाऽमा०' इत्यपि पाठः। २ 'सत्रा' इति पृथक् पदं वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org