________________
जिनक्षतयः]
स्तुतिचतुर्विशतिका
सि. १०-मतिम्तीति । अत्र यत्तदोरध्याहार विधाय व्याख्यानं कार्यम् । भो भव्यात्मन् ! यन्मतंदर्शनं जिनानां जिनेषु वा राजते इति जिनराट्, तस्मिन् जिनराजि, जिनेन्द्रविषयेऽस्ति तत् त्वं नूनं-निश्चित स्मर-ध्यायेत्यर्थः । स्म चिन्तायाम् ' इति धातोः ' आशीःप्रेरणयोः' (सा० स० ७०३) कर्तरि परस्मैपदे मध्यमपुरुषकवचनम् । अत्र ‘स्मर' इति क्रियापदम् । कः कर्ता ? । त्वम् । किं कर्मतापन्नम् । मतम् । कथम् ? । नूनम् । कीदृशं मतम् । तत् । तत् किम् ? । यत् जिनराजि अस्ति । अत्रापि अस्ति। इति क्रियापदम् । किं कर्तृ ?। यत् । कस्मिन् ? । जिनराजि । मतं पुनः कथंभूतम् ? । 'अतन्नं' तनु च उनं च यन्न भवति तत् तथा । यद्वा तनु-परैर्दूषयितुं शक्यं ऊन-परमतापेक्षया सकलाप्रकाशकं तादृशं न किन्तु परैर्दूपयितुमशक्यं यावदर्थप्रकाशकं चेत्यान्तरम् । जिनरानि कथंभूते ? । 'मतिमति । गर्मवासादिष्ववस्थासु सातिशयमतियुक्ते । नित्ययोगादावयं मतुप् । पुनः कथंभूते ? । ' नराहितेहिते' नराणां आहितं-परित इंहित-वाञ्छितं येन स तथा तस्मिन् । पुनः कथंभते । । । रुचितरुचि' रुचिता-अभीष्टा रुक्-दीप्तिर्यस्य स तथा तस्मिन् । पुनः कथंभूते ? । 'तमोहे' तमः-अज्ञानं हन्ति जहाति वा स तमोहः, 'क्वचित् (सि० अ० ५, पा० १, सू० १७१ ) इति डः, तस्मिन् । पुनः कथंभूते ? । ' अमोहे' न-विद्यते मोहो यस्य सः अमोहः तस्मिन् । त्वं कथंभूतः सन् इत्याह- अस्मराधारधीः ' न स्मरेण-कामेन अधीराविहला धीः-मतिर्यस्य स तथा । तादृशस्यैव स्मरणोचितत्वात् । पुनः कीदृशः ? । असुमत:-प्राणिनः । जातावत्रैकवचनम् । रक्षादिक्रियायां सुमतः । सुतरामभिप्रेत इत्यर्थः ॥ ३ ॥
सौ०वृ०-मतिमतीति । त्वं जिनराजि-सर्वज्ञे मतं-शासनं दर्शनं वानूनं-निश्चितं स्मर इत्यन्वयः। ‘स्मर' इति क्रियापदम् । कः कर्ता ? । त्वम् ।। ' स्मर' ध्याय । किं कर्मतापनम् ? । 'मतं' प्रवचनम् । कस्मिन् ? । 'जिनराजि' जिना:-सामान्यकेवलिनः तेषु राजते इत्यवंशीलो यः स जिनराट तस्मिन जिनराजि । कथम् ? । 'नूनं ' इति निश्चितम् । किंविशिष्टस्त्वम् ? । 'सुमतः' शोभनः मतः सुमतःरक्षकः । कस्य ? । 'असुमतः ' प्राणिनः । जातावेकवचनम् । पुनः किंविशिष्टस्त्वम् ? । अस्मरा-अस्मरणशीला धीरा-निश्चला धी:-बुद्धिः यस्य सः 'अस्मराधीरधीः ।। किंविशिष्टं मतम् ? । तनु-कृशं ऊनअसंपूर्ण ते देयत्र न स्तः तत 'अतननं'महत, संपूर्ण इत्यर्थः। किंविशिष्ट जिनराजि?। 'मतिमति' गर्भवासादारभ्य संपूर्णबुद्धिमति। पुनः किंविशिष्टे जिनराजि ? । नराणां-मनुष्याणां आहितं-स्थापितं दत्तं वा ईहितं-वाञ्छितं येन स नराहितेहितः तस्मिन् ‘नराहितेहिते' । पुनः किंविशिष्टे जिनराजि ? । रुचिता-सर्वजनानां अभीष्टा रुक कान्तिर्वा यस्य स रुचितरुक तस्मिन् 'रुचितरुचि'। पुनः किंविशिष्टे जिमराजि ? । तमः-अज्ञानं हन्तीति तमोहः तस्मिन् ‘तमोहे ' । पुनः किंविशिष्टे जिनराजि ? । न विद्यते मोहो-मूर्छा भ्रान्तिर्वा यस्य सः अमोहः तस्मिन् 'अमोहे ।। इति पदार्थः॥ ___अथ समासः-मतिः विद्यते यस्य स मतिमान्, तस्मिन् मतिमति । अत्र 'अस्त्यर्थे मतुः' इत्यनु. भूतिः (सा० स०६०६)। जिनेषु राजते इति जिनराट, तम्मिन जिनराजि । नराणां नरेष वा आदि ईहितं येन स नराहितेहितः, तस्मिन् नराहितहिते। रुचिता रुग् यस्य स रुचितरुक्, तस्मिन् रुचितरुचि । तमो हन्तीति तमोहः, तस्मिन् तमोहे । न मोहः अमोहः, तस्मिन् अमोहे । तनु च ऊनं च तनूने, न विद्यते तनूने यस्मिन् तत् अतनूनम् । न धीरा अधीरा, अधीरा चासौ धीश्च अधीरधीः, न विद्यते स्मरे-स्मरणे अधीरधीः यस्य असौ अस्मराधीरधीः । असवः-प्राणा विद्यन्ते यस्य असौ असुमान, तस्य असुमतः । सुष्टु मतं यस्य स सुमतः ।। इति तृतीयवृत्तार्थः ॥ ३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org